वैशम्पायनः-
ऋषेस्तद्वचनं चिन्त्य निशश्वास युधिष्ठिरः
धर्मं धर्मभृतां श्रेष्ठः कर्तुमिच्छन् परन्तपः
तस्येङ्गितज्ञो बीभत्सुस् सर्वशस्त्रभृतां वरः
संविवर्तयिषुः कामं पावकात् पाकशासनिः
पार्थः प्राप्य धनुश्श्रेष्ठम् अक्षय्यौ च महेषुधी
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत
अर्जुनः-
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्
प्राप्तमेतन्मया राजन् दुष्प्रापं यदभीप्सितम्
तस्य कृत्यमहं मन्ये कोशस्यैव विवर्धनम्
करमाहारयिष्यामि राजभ्यो राजसत्तम
वैशम्पायनः-
एतच्छ्रुत्वा कुरुश्रेष्ठो धर्मराजस्सहानुजः
प्रहृष्टो मन्त्रिभिश्चैव व्यासधौम्यादिभिस्सह
ततो व्यासो महाबुद्धिर् उवाचेदं वचोऽर्जुनम्
व्यासः-
साधु साध्विति कौन्तेय दिष्ट्या ते बुद्धिरीदृशी
पृथिवीमखिलां जेतुम् एकोऽध्यवसितो भवान्
धन्यः पाण्डुर्महीपालो यस्य पुत्रस्त्वमीदृशः
सर्वं प्राप्स्यति राजेन्द्रो धर्मपुत्रो युधिष्ठिरः
त्वद्वीर्येण स धर्मात्मा सार्वभौमत्वमेष्यति
त्वद्बाहुबलमाश्रित्य राजसूयमवाप्स्यति
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च
यमयोश्चैव वीर्येण सर्वं प्राप्स्यति धर्मराट्
तस्माद्दिशं देवगुप्ताम् उदीचीं गच्छ फल्गुन
शक्तो भवान् सुराञ्जित्वा रत्नानाहर्तुमोजसा
प्राचीं भीमो बलश्लाघी प्रयातु भरतर्षभः
याम्यां तत्र दिशं यातु सहदेवो महारथः
प्रतीचीं नकुलो गन्ता वरुणेनाभिपालिताम्
एषा मे नैष्ठिकी बुद्धिः क्रियतां भरतर्षभाः
वैशम्पायनः-
पाण्डवाः
श्रुत्वा व्यासवचो हृष्टास् तमूचुः पाणडुनन्दनाः
एवमस्तु मुनिश्रेष्ठ यथाऽऽज्ञापयसि प्रभो
वैशम्पायनः-
तेऽप्यनुज्ञाप्य राजानं सैन्येन महता वृताः
विजयाय प्रयातास्तु दिशस्सर्वा नरोत्तमाः
तिथावहनि नक्षत्रे मुहूर्ते च तथा शिवे
प्रहृष्टो मुदितश्चापि धर्मराजो युधिष्ठिरः
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत
युधिष्ठिरः
स्वस्ति वाच्यार्हतो विप्रान् प्रयाहि भरतर्षभ
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि
वैशम्पायनः-
इत्युक्तः प्रययौ पार्थस् सैन्येन महता वृतः
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ
ससैन्याः प्रययुस्सर्वे धर्मराजाभिपूजिताः
दिशं धनपतेरिष्टाम् अजयत् पाकशासनिः
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम्
प्रतीचीं नकुलो राजन् दिशं व्यजयतास्त्रवित्
खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः
जनमेजयः-
दिशामपि जयं ब्रह्मन् विस्तरेण वदस्व मे
न हि तृप्यामि भगवन् पूर्वेषां चरितं महत्
वैशम्पायनः-
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते
युगपत् कुरुवीरैस्तु विजितेयं वसुन्धरा
अवाप्य राजा राज्यार्धं कुन्तीपुत्रो युधिष्ठिरः
महत्ते राजशब्दस्य मनश्चक्रे महामनाः
तदा क्षात्रं विदित्वाऽस्य पृथिवीविजयं प्रति
अमर्षात् पार्थिवेन्द्रास्ते तं समेयुर्युयुत्सवः
तत् समेत्य भुवः क्षत्रं रथनागाश्वपत्तिमत्
अभ्ययात् पार्थिवं जिष्णुं मोघीकर्तुं जनाधिप
तत् पार्थः पार्थिवं क्षत्रं युयुत्सुः परमाहवे
प्रत्युद्ययौ महाबाहुस् तरसा पाकशासनिः
तद्भग्नं पार्थिवं क्षात्रं पार्थेनाक्लिष्टकर्मणा
वायुनेव घनानीकं मोघीभूतं ययौ दिशः
तज्जित्वा पार्थिवं क्षत्रं समरे परवीरहा
ययौ तदा वशे कर्तुम उदीचीं पाण्डुनन्दनः
पूर्वं कुळिन्दविषये वशे चक्रे महीपतीन्
धनञ्जयो महाबाहुर् नातितीव्रेण कर्मणा
तेनैव सहितः प्रायाज् जिष्णुस्साल्वपुरं प्रति
स साल्वपुरमासाद्य साल्वराजं धनञ्जयः
विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः
तं पार्थस्सहसा जित्वा द्युमत्सेनं धनेश्वरम्
कृत्वाऽनुसैनिकं प्रायात् कटदेशमरिन्दमः
तत्रापराजितं जिष्णुस् सुनाभं वसुधाधिपम्
विक्रमेण वशे कृत्वा कृतवाननुसैनिकम्
स तेन सहितो राजन् सव्यसाची परन्तपः
अनन्तकालकुटिकान् कुणिन्दाश्च विजित्य सः
सुमण्डपं पापजितं कृतवाननुसैनिकम्
विजिग्ये सकलद्वीपं प्रतिविन्ध्यं च पार्थिवम्
शाकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः
तान् सर्वानजयत् पार्थो धर्मराजप्रियेप्सया
अर्जुनस्य च सैन्यानां तुमुलो विग्रहोऽभवत्
स तानाजौ महेष्वासो निर्जित्य भरतर्षभ
तैरेव सहितस्सर्वैः प्राग्ज्योतिषमुपाद्रवत्
तत्र राजा महानासीद् भगदत्तो विशाम्पते
तेनैव सुमहद्युद्धं पाण्डवस्य महात्मनः
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्
अन्यैश्च विविधैर्योधैस् सागरानूपवासिभिः
ततस्स दिवसानष्टौ योधयित्वा धनञ्जयम्
प्रहसन्नब्रवीद्राजन् सङ्ग्रामे विगतक्लमम्
भगदत्तः-
उपपन्नं महाबाहो त्वय्येतत् पाण्डुनन्दन
पाकशासनदायादे वीर्यमाहवशोभिनि
अहं सखा महेन्द्रस्य शक्रादनवमो रणे
न शक्नोमि ते तात स्थातुं प्रमुखतो युधि
तुष्टोऽस्मि तव शौर्येण ब्रूहि किं करवाणि ते
यद्वक्ष्यसि महाबाहो तत् करिष्यामि पाण्डव
अर्जुनः-
कुरूणां प्रवरो राजा धर्मनित्यो युधिष्ठिरः
तस्य पार्थिवतामीप्सोः करमद्य प्रदीयताम्
भवान् पितृसखा चैव प्रीयमाणो मया युधि
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्
भगदत्तः-
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते
वैशम्पायनः-
स तत्र सत्कृतस्तेन मासमुष्य धनञ्जयः
उदक्प्राच्यान् विनिर्जित्य प्रायाद्रामगिरिं प्रति
ततो रामगिरिं गत्वा तथा भुवनपर्वतम्
अन्यानपि वशे चक्रे तरसा पाकशासनिः
स विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः
प्रययावुत्तरां तस्माद् दिशं धनदपालिताम्
अभ्यन्तरं च कौन्तेयस् तथैव च बहिर्गिरिम्
तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः
विजित्य पर्वतान् सर्वान् ये च तत्र नराधिपाः
तान् वशे स्थापयित्वा स रत्नान्यादाय सर्वशः
तैरेव सहितस्सर्वैर् अनुसङ्गम्य तान् नृपान्
कुलूतवासिनं राजन् बृहन्तमुपजग्मिवान्
वादित्ररथनादेन हयहेषास्वनेन च
कुञ्जराणां च शब्देन कम्पयन्निव मेधिनीम्
ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा
निष्क्रम्य नगराद्राजन्नुपतस्थे धनञ्जयम्
सुमहान् सन्निपातोऽभूद् धनञ्जयबृहन्तयोः
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम्
सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः
उपावर्तत दुर्मेधा धनान्यादाय सर्वशः
उपचाेच्छलेनासौ प्रददौ सञ्चितान् वसून्
अर्बुदं कुञ्जराणां च न्यर्बुदं वाजिनां तथा
ततस्तेनैव सहितः कौलूतेन धनञ्जयः
स तद्राज्यमवस्थाप्य कौलूतसहितो युवा
सेनाबिन्दुमथो राजन् राज्यादाशु समाक्षिपत्
मोदापुरे वामदेवं सुनामानं सुसङ्कुलम्
कुलूतानुत्तरांश्चैव तांश्च राज्ञस्समानयत्
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्
व्यजय्द्धनञ्जयो राजन् दैशान् पञ्च प्रधानतः
स दीपप्रस्थमासाद्य सेनाबिन्दोः पुरं महत्
बलेन चतुरङ्गेण निवेशनमथाकरोत्
स तैः परिवृतस्सर्वैर् विष्वगश्वं नराधिपम्
अभ्यगच्छन्महाबाहुः पौरवं पुरुषर्षभः
तं विजित्याहवे शूरं पार्वतीयं महारथः
ध्वजिन्याऽप्यजयद्राजन् पुरं पौरवरक्षितम्
पौरवं च विनिर्जित्य सेनाबिन्दुं च तत्पुरे
न्यधापयदमेयात्मा दस्यूनां पतिमर्जुनः
गणानुत्सवसङ्केतान् अजयत् सप्त पाण्डवः
ततः काश्मीरकान् वीरान् क्षत्रियान् क्षत्रियर्षभः
व्यजयल्लोहितं चैव मण्डलैर्दशभिस्सह
ततस्त्रिगर्तान् कौन्तेयो दार्विकानथ कङ्कणान्
क्षत्रियान् सुबहून् राजन्नुपावर्तत सर्वशः
अभिसारं ततो रम्यं विजिग्ये कुरुसत्तमः
करुशावासिनं चैव रोचमानं रणेऽजयत्
ततस्सिंहपुरं रम्यं चित्रायुधसुरक्षितम्
प्रामथद्बलमाश्रित्य पाकशासनिराहवे
ततो सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः
सहितस्सर्वसैन्येन प्रामथत् पृथुविक्रमः
ततः परमसंहृष्टो बाह्लीकान् समितञ्जयः
महता परिमर्देन वशे चक्रे दुरासदान्
ततस्सारबलं गृह्य फल्गुनोऽन्यान् विसृज्य सः
दरदान् सिंहकाम्भोजैर् अजयत् पाकशासनिः
यवनांश्च महाराज शकांश्च व्यजयद्युधि
किरातान् सिभिकान् सर्वान् स्वरान् काचान् सबभ्रिकान्
नीरानुत्पासिकांश्चैव म्लेच्छाश्चाान्यान् सहस्रशः
तान् सर्वानजयत् पार्थो धर्मराजप्रियेप्सया
प्रागुत्तरं दिशं ये च वसन्त्याश्रित्य दस्यवः
निवसन्ति वने चैव तान् सर्वानजयद्युधि
ततः परमकाम्भोजान् इषिकानुत्तरानपि
सहितैस्तैर्महाराज व्यजयत् पाकशासनिः
इषीकेषु तु सङ्ग्रामो बभूव सुभयङ्करः
तारकामयसङ्काशः परमैषीकपार्थयोः
स विजित्य ततो राजन्निषीकान् रणमूर्धनि
शुकोदरसमप्रख्यान् हयानष्टौ समानयत्
मयूरसदृशानन्यान् उभयानेव चापरान्
ततस्स जित्वा बीभत्सुर् भारतं वर्षमुत्तमम्
अन्यान् वै दिव्यवर्षांश्च जितवान् कुलपर्वतान्
जनमेजयः-
कथं स जितवान् पार्थो दिव्यान् वर्षान् सपर्वतान्
आनुपूर्व्याच्च मे शंस नामभिस्सह वै द्विज
वैशम्पायनः-
स जित्वा भारतं वर्षं बलाद्राजन् धनञ्जयः
दस्यूंश्चाप्यजयत् सर्वान् कुक्षौ हिमवतो बलात्
स विनिर्जित्य सङ्ग्रामे हिमवन्तं समन्ततः
श्वेतपर्वतमासाद्य न्यवसद्भरतर्षभः