वैशम्पायनः-
भीमसेनस्तदा कृष्णम् उवाच यदुनन्दनम्
बुद्धिमास्थाय विपुलां जरासन्धजिघांसया
भीमसेनः-
नायं पापो मया कृष्ण युक्तस्स्यादनुरोधितुम्
प्रायेण यदुशार्दूल बान्धवक्षयकृत् तव
वैशम्पायनः-
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्
त्वरयन् पुरुषव्याघ्रो जरासन्धवधेप्सया
भगवान्-
यत्तु दैवं परं सत्वं पितुस्ते मातरिश्वनः
बलं भीम जरासन्धे दर्शयस्व तदद्य नः
तवैष वध्यो दुर्बुद्धिर् जरासन्धो महारथः
इत्यन्तरिक्षे त्वश्रौषं यदा वायुरपोह्यते
गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः
बलदेवबलं प्राप्य कोऽन्यो जीवेत मागधात्
तदस्य मृत्युर्विहितस् त्वदृते न महाबल
वायुं चिन्त्य महाबाहो जहीमं मगधाधिपम्
वैशम्पायनः-
एवमुक्तस्तदा भीमो मनसा चिन्त्य मारुतम्
जनार्दनं नमस्यैव परिष्वज्य च फल्गुनम्
प्रभञ्जनबलाविष्टो जरासन्धमरिन्दमः
उत्क्षिप्याभ्रामयद्राजन् बलवन्तं महाबलः
भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ
बभञ्ज पृष्टे सङ्क्षिप्य निष्पिष्य विननाद च
करे गृहीत्वा चरणं द्विधा चक्रे महाबलः
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः
अभवत् तुमुलो नादस् सर्वप्राणिभयङ्करः
वित्रेसुर्मागधास्सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः
भीमसेनस्य नादेन जरासन्धस्य चैव ह
किं नु स्विद्धिमवान् भिन्नः किं नु स्विद्दीर्यते मही
इति स्म मागधा जल्पन् भीमसेनस्य निस्वनात्
ततस्तु भगवान् कृष्णो जरासन्धजिघांसया
भीमसेनं समालोक्य नलं जग्राह पाणिना
द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति
ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः
द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च
पुनस्सन्धाय तु तदा जरासन्धः प्रतापवान्
भीमेन च समागम्य बाहुयुद्धं चकार ह
तयोस्समभवद्युद्धं तुमुलं रोमहर्षणम्
सर्वलोकक्षयकरं सर्वभूतभयावहम्
पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः
व्यत्यस्य प्राक्षिपत् तत्तु जरासन्धवधेप्सया
भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम्
द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह
शुष्कमांसास्थिमेदस्त्वग् भिन्नमस्तिष्कपिण्डकः
शवभूतस्तदा राजन् पिण्डीकृत इवाबभौ
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः
जरासन्धरथं कृष्णो योजयित्वा पताकिनम्
आरोप्य भ्रातरौ राज्ञो मोक्षयामास बान्धवान्
ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः
राजानश्चक्रुरासाद्य मोक्षिता महतो भयात्
अक्षतश्शस्त्रसम्पन्नो जितारिस्सह राजभिः
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्
तयोस्सौन्दर्यवान् नाम विधेयः कृष्णसारथिः
अभ्याययावभिमुखो दुर्जयस्सर्वधन्वभिः
भीमार्जुनाभ्यां योधाभ्याम् आस्थितः कृष्णसारथिः
शुशुभे रथवर्योऽसौ दुर्जयस्सर्वधन्विभिः
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये
रथेन तेन तं कृष्ण उपारुह्य ययौ तदा
एवमेतौ महाबाहू तदा दुष्करकारिणौ
कृष्णप्रणीतौ लोकेऽस्मिन् रथे को द्रष्टुमर्हति
इत्यवोचन् व्रजन्तं तं जरासन्धपुरालयाः
वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः
तप्तचामीकराभेण किङ्किणीजालमालिना
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना
येन शक्रो दानवानां जघान नवतीर्नव
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः
हयैर्दिव्यैस्समायुक्तो रथो वायुसमो जवे
अधिष्ठितस्स शुशुभे कृष्णेनातीव भारत
असङ्गी देवविहितस् तस्मिन् रथवरे ध्वजः
स योजनद्वये दृश्यश् श्रीमानिन्द्रायुधप्रभः
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्
क्षणे तस्मिन् स तेनासीच् चैत्ययूप इवोच्छ्रितः
व्यादितास्यैर्महानादैस् सर्वभूतैर्ध्वजालयैः
तस्मिन् रथवरे तस्थौ गुरुत्मान् पन्नगाशनः
दुर्निरीक्ष्यो हि भूतानां सुपर्णोऽभ्यधिकं बभौ
आदित्य इव मध्याह्ने सहस्रकिरणावृतः
न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते
दिव्यो ध्वजवरो राजन् दृश्यते चैव मानुषैः
तमास्थाय रथं दिव्यं पर्जन्यसमनिस्स्वनम्
निर्ययौ पुण्डरीकाक्षः पाण्डवाभ्यां सहाच्युतः
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः
बृहद्रथात् क्रमेणैव प्राप्तो बार्हद्रथो रथम्
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः
गिरिव्रजाद्बहिस्तस्थौ समदेशे महामनाः
तत्रैनं नागरास्सर्वे सत्कारेणाभ्ययुस्तदा
ब्राह्मणप्रमुखा राजन् विधिदृष्टेन कर्मणा
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्
पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः
राजानः-
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम्
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम्
राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे
दिष्ट्या मोक्षाद्यशो दीप्तम् आहृतं ते नरोत्तम
किं कुर्मः पुरुषव्याघ्र समाज्ञापय नः प्रभो
कृतमित्येव तज्ज्ञेयं यद्यपि सयात् सुदुष्करम्
वैशम्पायनः
तानुवाच हृषीकेशस् समाश्वास्य महामनाः
युधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः
सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति
ततस्सुप्रीतमनसस् ते नृपा भरतर्षभ
तं तथेत्यब्रुवन् सर्वे प्रतिजज्ञुश्च तां गिरम्
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः
कृच्छ्राज्जग्राह गोविन्दस् तेषां तदनुकम्पया
जरासन्धात्मजश्चैव सहदेवो महारथः।
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम्
सचिवैः प्रश्रितो भूत्वा बली रत्नपुरोगमः
सहदेवो नृणां देवं वासुदेवमुपस्थितः
सहदेवः-
यत् कृतं पुरुषव्याघ्र मम पित्रा जनार्दन
तत् ते हृदि महाबाहो न कार्यं पुरुषोत्तम
त्वां प्रपन्नोऽस्मि गोविन्द प्रासदं कुरु मे प्रभो
पितुरिच्छामि संस्कारं कर्तुं देवकिनन्दन
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेनात् तथार्जुनात्
निर्भयो विचरिष्यामि यथाकामं यथासुखम्
वैशम्पायनः
एवं विज्ञाप्यमानस्य सहदेवस्य मारिष
प्रहृष्टो देवकीपुत्रः पाण्डवौ च महारथौ
क्रियतां संस्क्रिया राजन् पितुस्त इति चाब्रुवन्
तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च स मागधः
प्रविश्य नगरं तूर्णं सह मन्त्रिभिरप्युत
चितां चन्दनकाष्ठैश्च कालेयसरलैस्तथा
कालागरुसुगन्धैश्च तैलैश्च विविधैरपि
घृतधाराशतैश्चैव सुमनोभिश्च भारत
समन्तादवकीर्यन्त दह्यन्तं मगधाधिपम्
उदकं तस्य चक्रेऽथ सहदेवस्सहानुजः
कृत्वा पितुस्स्वर्गगतिं निर्ययौ यत्र केशवः
पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्
सहदेवः-
इमे रत्नानि भूरीणि गोजाविमहिषादयः
हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च
दीयतां धर्मराजाय यथा वा मन्यते भवान्
वैशम्पायनः-
भयार्ताय तदा तस्मै दत्वा कृष्णोऽभयं तथा
अभ्यषिञ्चत राजानं सहदेवं जनार्दनः
मागधानां महीपालं जरासन्धात्मजं तदा
आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः
गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः
विवेश मतिमान् राजा पुनर्बार्हद्रथं पुरम्
पार्थाभ्यां सहितः कृष्णस् सर्वैश्च वसुधाधिपैः
यथावयस्समागम्य विससर्ज नराधिपान्
विसृज्य सर्वान् नृपतीन् राजसूये महात्मभिः
आगन्तव्यं भवद्भिस्तु धर्मराजप्रियेप्सुभिः
एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः
एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा
भीमार्जुनहृषीकेशाः प्रहृष्टाः प्रययुस्सह
रत्नान्यादाय भूरीणि ज्वलन्तो रिपुसूदनाः
कृष्णस्तु सह पार्थाभ्यां प्रययौ च नृपैस्सह
इन्द्रप्रस्थमुपागम्य भ्रातृभ्यां सहितोऽच्युतः
समेत्य धर्मराजानं प्रीयमाणमुपस्थितः
दिष्ट्या भीमेन बलवाञ् जरासन्धो निपातितः
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तमाः
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ
पुनस्स्वनगरं प्राप्तावक्षताविति भारत
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे
ततः क्षीणे जरासन्धे भ्रातृभिर्विहितं जयम्
अजातशत्रुरासाद्य मुमुदे भ्रातृभिस्सह
हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत
युधिष्ठिरः-
त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान्
राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन
वैशम्पायनः-
पीतं पृथिव्यां युद्धेन यशस्ते पुरुषोत्तम
जरासन्धवधेनैव प्राप्तास्ते विपुलाश्श्रियः
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः
प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम्
प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः
प्रीतिमानभवद्राजन् धर्मराजपुरस्कृतः
यथावयश्च सम्भाष्य प्रेम्णा राजन् नृपैस्सह
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान्
युधिष्ठिराभ्यनुज्ञातास् ते नृपा हृष्टमानसाः
जग्मुस्स्वदेशांस्त्वरिता यानैरुच्चावचैस्तदा
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः
पाण्डवैर्घातयामास जरासन्धमरिं तदा
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत
सुभद्रां वासुदेवस्तु फल्गुनं यमजौ तथा
धौम्यं भीममनुज्ञाप्य प्रययौ द्वारकां प्रति
पाण्डवैरनुधावद्भिर् युधिष्ठिरपुरोगमैः
हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः
जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम्
तेनैव रथमुख्येन तरुणादित्यवर्चसा
धर्मराजविसृष्टेन दिव्येनानादयद्दिशः
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ
प्रदक्षिणं तदाऽकुर्वन्त कृष्णमक्लिष्टकारिणम्
ततो गते भगवति कृष्णे देवकिनन्दने
जयं लब्ध्वा सुविपुलं राज्ञामभयदास्ततः
संवर्धितौजसो भूयः कर्मणा तेन भारत
द्रौपद्याः पाण्डवा राजन् परां प्रीतिमवर्धयन्
तस्मिन् काले तु सम्प्राप्ते धर्मकामार्थसंहितम्
तद्राजा धर्मतश्चक्रे राज्यं प्राप्य युधिष्ठिरः