जनमेजयः-
किमर्थं वैरिणावास्ताम उभौ तौ कृष्णमागधौ
कथं च निर्जितस्सङ्ख्ये जरासन्धेन माधवः
कश्च कंसो मागधस्य यस्य हेतोस्स वैरवान्
एतदाचक्ष्व मे सर्वं वैशम्पायन तत्वतः
वैशम्पायनः-
यादवानामन्ववाये वसुदेवो महामतिः
उदपद्यत वार्ष्णेयो ह्युग्रसेनस्य मन्त्रभृत्
उग्रसेनस्य कंसस्तु बभूव बलवान् सुतः
ज्येष्ठो बहूनां कौरव्य सर्वशस्त्रविशारदः
जरासन्धस्य दुहिता तस्य भार्याऽतिविश्रुता
राज्यशुक्लेन दत्ता सा जरासन्धेन धीमता
तदर्थमुग्रसेनस्य मधुरायां सुतस्तदा
अभिषिक्तस्तदाऽमात्यैस् स वै तीव्रपराक्रमः
ऐश्वर्यबलमत्तस्तु स तदा बलमोहितः
निगृह्य पितरं भुङ्क्ते तद्राज्यं मन्त्रिभिस्सह
वसुदेवस्य तत्कृत्यं न शृणोति स मन्दधीः
त तेन सह तद्राज्यं धर्मतः पर्यपालयत्
प्रीतिमान् स तु दैत्येन्द्रो वसुदेवस्य देवकीम्
उवाह भार्यां स तदा दुहिता देवकस्य या
तस्यामुद्वाह्यमानायां रथेन जनमेजय
उपारुरोह वार्ष्णेयं कंसो भूमिपतिस्तदा
ततोऽन्तरिक्षे वागासीद् देवदूतस्य कस्यचित्
वसुदेवश्च शुश्राव तां वाचं पार्थिवश्च सः
यामेतां वहमानोऽद्य कंसोद्वहसि देवकीम्
अस्या यश्चाष्टमो गर्भस् स ते मृत्युर्भविष्यति
सोऽवतीर्य ततो राजा खड्गमुद्धृत्य निर्मलम्
इयेष तस्या मूर्धानं छेत्तुं परमदुर्मतिः
सान्त्वयन् स तदा कंसं हसन् क्रोधवशानुगम्
राजन्ननुनयामास वसुदेवो महामतिः
अहिंस्यां प्रमदामाहुस् सर्वधर्मेषु पार्थिव
अकस्मादबलां नारीं हन्तासीमामनागसीम्
यच्च तेऽत्र भयं राजञ् शक्यते बाधितुं त्वया
इयं च शक्या पालयितुं समयश्चैव रक्षितुम्
अस्यास्त्वमष्टमं गर्भं जातमात्रं महीपते
विध्वंसय तदा प्राप्तम् एवं परिहृतं भवेत्
एवं स राजा कथितो वसुदेवेन भारत
तस्य तद्वचनं चके शूरसेनपतिस्तदा
ततस्तस्यां सम्बभूवुः कुमारास्सूर्यवर्चसः
जाताञ्चातांस्तु तान्सर्वाञ्जघान मधुरेश्वरः
अथ तस्यां समभवद् बलदेवस्तु सत्तमः
याम्यता मायया तं तु यमो राजा विशाम्पते
देवक्या गर्भमतुलं रोहिण्या जठरेऽक्षिपत्
आकृष्य कर्षणात् सम्यक् सङ्कर्षण इति स्मृतः
बलश्रेष्ठतया तस्य बलदेव इति स्मृतः
पुनस्तस्यां समभवद् अष्टमो मधुमूदनः
तस्य गर्भस्य रक्षां तु चक्रे सोऽभ्यधिकं नृपः
ततः काले रक्षणार्थं वसुदेवस्य सान्त्वतः
उग्रः प्रयुक्तः कंसेन सचिवः क्रूरकर्मकृत्
विमूढेषु प्रभावेन बालस्योत्तीर्य तत्र वै
उपागम्य स घोषे तु जगाम समहाध्युतिः
जातमात्रं वासुदेवमथाकृष्य पिता ततः
उपजह्रे परिक्रीतां सुतां गोपस्य कस्यचित्
मुमुक्षमाणस्तं शब्दं देवदूतस्य पार्थिवः
जघान कंसस्तां कन्यां प्रहसन्ती जगाम ह
आर्येति वशती शब्दं तस्मादार्येति कीर्तिता
एवं तं वञ्चयित्वा च राजानं स महामतिः
वासुदेवं महात्मानं वर्धयामास गोकुले
वासुदेवोपि गोपेषु ववृधेऽब्जमिवाम्भसि
अज्ञायमानः कंसेन गूढोऽग्निरिव दारुषु
विप्रचक्रे वदन् सर्वान् बल्लवान् मधुरेश्वरः
वर्धमानो महाबाहुस् तेजोबलसमन्वितः
ततस्ते क्लिश्यमानास्तु पुण्डरीकाक्षमच्युतम्
भयेन कामादपरे गणशः पर्यवारयन्
स तु लब्ध्वा बलं राजन्नुग्रसेनस्य सम्मतः
वसुदेवात्मजस्सर्वैर् भ्रातृभिः सहितं पुनः
निर्जित्य युधि भोजेन्द्रं हत्वा कंसं महाबलः
अभ्यषिञ्चत्ततो राज्य उग्रसेनं विशाम्पते
ततश्श्रुत्वा जरासन्धो माधवेन हतं युधि
शूरसेनाधिपं चक्रे कंसपुत्रं तदा नृप
स सैन्यं महदुत्थाप्य वासुदेवं प्रगृह्य च
अभ्यषिञ्चत् सुतं तत्र सुताया जनमेजय
उग्रसेनं च वृष्णींश्च महाबलसमन्वितः
स तत्र विप्रकुरुते जरासन्धः प्रतापवान्
एतद्वैरं कौरवेय जरासन्धस्य माधवे
आशासितार्थे राजेन्द्र संरुरोध विनिर्जितान्
पार्थिवैस्तैर्नृपतिभिर् यक्ष्यमाणस्समृद्धिमान्
देवश्रेष्ठं महादेवं कृत्तिवासं त्रियम्बकम्
एतत् सर्वं यथावृत्तं कथितं भरतर्षभ
यथा तु स हतो राजा भीमसेनेन तच्छृणु
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः
उवाच वाग्मी राजानं जरासन्धमधोक्षजः
श्रीभगवान्-
त्रयाणां केन ते राजन् योद्धुं हि त्वरते मनः
अस्मदन्यतमोऽद्येह सज्जीभवतु को युधि
वैशम्पायनः-
एवमुक्तस्तु कृष्णेन युद्धं वव्रे महाद्युतिः
जरासन्धस्ततो राजा भीमसेनेन मागधः
धारयन्तं गदां दृष्ट्वा बलं श्रुत्वा च निर्वृतः
अर्जुनं वासुदेवं च वजयामास मागधः
मत्वा देवं गोप इति बालोऽर्जुन इति स्म ह
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः
कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना
सन्नह्यत जरासन्धः क्षत्रधर्ममनुव्रतः॥
अवमुच्य किरीटं स केशान् समनुमृज्य च
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः
उवाच च महाबाहुर् भीमं भीमपराक्रमः
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम्
वैशम्पायनः-
एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः
प्रत्युद्ययौ महातेजाश् शक्रं बलिरिवासुरः
ततस्सम्मन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली
भीमसेनो जरासन्धम् आससाद युयुत्सया
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा
आसीत्सुभीमसन्नादो वज्रपर्वतयोरिव
उभौ परमसंहृष्टौ बलेनातिबलावुभौ
अन्योन्यं तौ करतलैर् योधयामासतुर्भृशम्
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ
शिरोभिरिव तौ मेषौ वृक्षैरिव निशाचरौ
पदैरिव शुभावश्वौ तुण्डाभ्यां तित्तिराविव
तद्युद्धमुत्सार्य जनं भीममासीदुपह्वरे
बलिनोस्संयुगे राजन् वृत्रवासवयोरिव
आकर्षणं प्रकर्षणम् उत्कर्षणनिकर्षणे
विकर्षतां तथाऽन्योन्यं जानुभिश्चानुजघ्नतुः
ततश्शब्देन महता भर्त्सयन्तौ परस्परम्
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः
ततो भीमं जरासन्धो जघानोरसि मुष्टिना
भीमोऽपि तं जरासन्धं वक्षस्यभिजघान ह
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
बाहुभिस्समसज्जेतास् आयसैः परिघैरिव
कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि
तदा तद्युद्धमभवद् दिनानि दश पञ्च च
अनारतं दिवारात्रम् अविश्वान्तमवर्तत
घोरं विस्मापनतरम् अभूत् पञ्चदशेऽहनि
तद्युद्धमासीच्च तयोस् समवेतं महात्मनोः
पञ्चदश्यां निशायां तु प्रहीणात्माऽभवत् क्लमात्
जरासन्धं तदा क्लान्तं दृष्ट्वा विद्वाञ्जनार्दनः
उवाच भीमकर्माणं भीमं सम्बोधयन्निव
श्रीभगवान्-
क्लान्तश्शत्रुर्हि कौन्तेय शक्यं पीडयितुं भृशम्
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः
तस्मात् त्वयैव कौन्तेय पीडनीयो जनाधिपः
समवेतेन युध्यस्व बाहुभ्यां भरतर्षभ
वैशम्पायनः-
एवमुक्तस्तु कृष्णेन पाण्डवः परवीरहा
जरासन्धस्य तद्रन्ध्रं ज्ञात्वा चक्रे वधे मतिम्
ततस्तमजितं जेतुं जरासन्धं वृकोदरः
संरम्भाद्बलिनां मुख्यो जग्राह कुरुनन्दन