राक्षसी-
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्
साऽहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक
संश्लेषिते मया दैवात् कुमारत्वमुपागते
तव भाग्यैर्महाराज हेतुमात्रं त्वहं नृप
तस्य बालस्य यत् कृत्यं तत् कुरुष्व नराधिप
मम नाम्ना च लोकेऽस्मिन् ख्यात एव भविष्यति
श्रीभगवान्-
एवमुक्त्वा जरा राजंस् तत्रैवान्तरधीयत
सोऽपि गृह्य कुमारं तं प्राविशत् स्वपुरं नृप
तस्य बालस्य यत् कृत्यं तच्चकार नृपस्तदा
आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम्
तस्य नामाकरोत् तत्र प्रजापतिसमः पिता
जरया सन्धितो यस्माज् जरासन्धस्ततोऽभवत्
सोऽवर्धत महातेजा मागधाधिपतेस्सुतः
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः
एवं स ववृधे राजन् कुमारः पुष्करेक्षणः
कालेन महता चापि यौवनस्थो बभूव ह
कस्यचित्त्वथ कालस्य पुनरेव महातपाः
मगधेषूपजक्राम भगवांश्चण्डकौशिकः
तस्याऽऽगमनसंहृष्टः सामात्यस्सपुरःसरः
सभार्यस्सह पुत्रेण निर्जगाम बृहद्रथः
पाद्यार्घ्याचमनीयैस्तम् अर्चयामास भारत
स नृपो राष्ट्रसहितं राज्यं चास्मै न्यवेदयत्
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः
उवाच नृपतिं विप्रः प्रहृष्टेनान्तरात्मना
चण्डकौशिकः-
सर्वमेतन्मया राजन् विज्ञातं ज्ञानचक्षुषा
पुत्रस्तु तव राजेन्द्र यादृशोऽयं भविष्यति
अस्य वीर्यं प्रभावं च नानुयास्यन्ति पार्थिवाः
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः
सर्वमूर्धाभिषिक्तानाम् एष मूर्ध्नि ज्वलिष्यति
सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः
एनमासाद्य राजानस् समृद्धबलवाहनाः
विनाशमुपयास्यन्ति शलभा इव पावकम्
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः
एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः
शुभां शुभवतीं स्फीतां सर्वसस्यधरां धराम्
अस्याज्ञावशगास्सर्वे भविष्यन्ति नराधिपाः
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्
सर्वलोकेष्वतिबलस् स्वयं द्रक्ष्यति मागधः
श्रीभगवान्-
एवं ब्रुवन्नेव मुनिर् आह्निकार्थं महातपाः
विसर्जयामास नृपं बृहद्रथमनामयम्
प्रविश्य नगरीं चैव ज्ञातिसम्बन्धिभिर्वृतः
अभिषिच्य जरासन्धं मगधाधिपति तदा
बृहद्रथो नरपतिः परां निर्वृतिमाययौ
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः
पत्नीद्वयेनानुगतस् तपोवनगतोऽभवत्
तपोवनस्थे पितरि मातृभ्यां सह भारत
जरासन्धस्तु वीर्येण पार्थिवानकरोद्वशे
अथ दीर्घस्य कालस्य तपोवनगतो नृपः
पत्नीभ्यां सहितश्चापि तपस्तप्त्वा दिवं ययौ
जरासन्धोऽपि नृपतिर् यथोक्तं कौशिकेन तत्
वरप्रदानमखिलं प्राप्य राज्यमकारयत्
तस्यास्तां हंससिभकावशस्त्रनिधनावुभौ
मन्त्रे मतिमतां श्रेष्ठौ युद्धनीतिविशारदौ
हतश्चैव मया कंसस् तौ हंसडिभिकौ तथा
जरासन्धस्य दुहिता रोदते पार्श्वतः पितुः
ततो वैरं विनिर्बद्धं मम तस्य च भारत
भ्रामयित्वा शतगुणम् एकपातेन भारत
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात्
तिष्ठतो मथुरायां वै मम चाद्भुतकर्मणः
एकोनयोजनशते सा पपात गदा शुभा
न हि योधैस्तदा तस्य सम्यगध्वा निवेदतः
मया तौ कथितौ राजन् पूर्वमेव महाबलौ
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः
एवमेष तदा वीर बलिभिः कुकुरान्धकैः
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः