श्रीभगवान्-
जातस्य भारते वंशे तथा कुन्त्यास्सुतस्य च
या वै युक्ता मतिस्सेयम् अर्जुनेन प्रदर्शिता
न मृत्योस्समयं विद्म रात्रौ वा यदि वा दिवा
न चापि कञ्चिदमरम् अयुद्धेनापि शुश्रुमः
एतावदेव पुरुषैः कार्यं हृदयतोषणम्
नयेन विधिदृष्टेन यदुपक्रमते परान्
सुनयस्यानपायस्य संयोगे परमः क्लमः
संशयो जायतेऽसाम्ये साम्यं तु न भवेद्द्वयोः
ते वयं यत्नमास्थाय शत्रुदेशसमीपगाः
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थितः
व्यूढानीकस्तु बलवान् नोपयेद्बलवत्तरम्
इति बुद्धिमतां नीतिस् तन्ममापीह रोचते
अनवद्या ह्यसम्बाधाः दृष्ट्वा शत्रुं समीपतः
शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे
एको ह्येव श्रियं नित्यं बिभर्ति भरतर्षभः
अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः
अथवैनं निहत्याजौ शेषेणापि समाहताः
प्राप्नुयाम ततस्स्वर्गं ज्ञातित्राणपरायणाः
युधिष्ठिरः-
कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः
यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धश्शलभो यथा
श्रीभगवान्-
शृणु राजञ् जरासन्धो यद्वीर्यो यत्पराक्रमः
यथा ह्युपेक्षितोऽस्माभिर् बहुशः कृतकिलबिषः
अक्षौहिणीनां तिसृणां पतिः परमदर्पितः
राजा बृहद्रथो नाम मगधाधिपतिर्नृप॥
रूपवान् वीर्यसम्पन्नश् श्रीमानतुलविक्रमः
स्वराज्यं कारयामास मगधेषु गिरिव्रजे
नित्यं दीक्षाकृशतनुश् शतक्रतुरिवापरः
तेजसा सूर्यसदृशः क्षमया पृथिवीसमः
यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः
तस्य राज्येन संसक्तैर् गणैश्च र्भरतर्षभ
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः
स काशिराजस्य सुते यमजे भरतर्षभ
उपयेमे महावीर्यो रूपद्रविणसम्मते
तयोश्चकार समयं मिथस्स पुरुषर्षभः
नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा
ताभ्यां स शुशुभे राजा पत्नीभ्यां सहितस्तदा
प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः
तयोर्मध्यगतश्चापि रराज वसुधाधिपः
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः
विषयेषु निमग्नस्य तस्य यौवनमत्यगात्
न च वंशकरं पुत्रम् आसादयत पार्थिवः
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम्
स भार्याभ्यां सह तदा निर्वेदमगमद्भृशम्
राज्यं चापि परित्यज्य तपोवनमथाश्रयत्
वार्यमाणः प्रकृतिभिर् नृपभक्त्या विशाम्पते
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः।
शुश्राव तपसि श्रेष्ठम उदारं चण्डकौशिकम्
यदृच्छयाऽऽगतं तं तु वृक्षमूलमुपाश्रितम्
पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत्
बृहद्रथं च स ऋषिर् यथावत् प्रत्यनन्दत
उपविष्टश्च तेनाथ अनुज्ञातो महात्मना
तमपृच्छत् तदा विप्रः किमागमनमित्यथ
विप्रैरनुगतस्यैव पत्नीभ्यां सहितस्य च
स उवाच मुनिं राजा भगवन् नास्ति मे सुतः
अपुत्रस्य वृथा जन्म इत्याहुरमुनिसत्तम
तादृशस्य हि राज्येन वृद्धत्वे किं प्रयजनम्
सोऽहं तपश्चरिष्यामि पत्नीभ्यां सहितो वने
नाप्रजस्य मुने कीर्तिस् स्वर्गश्चैवाक्षयो भवेत्
एवमुक्तस्य राज्ञा तु मुनेः कारुण्यमागतम्
चण्डकौशिकः-
परितुष्टोऽस्मि ते राजन् वरं वरय सुव्रत
श्रीभगवान्-
ततस्सभार्यः प्रणतस् तमुवाच बृहद्रथः
पुत्रदर्शननैराश्याद् बाष्पगद्गदया गिरा
बृहद्रथः-
भगवन् राज्यमुत्सृज्य प्रस्थितस्य तपोवनम्
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे
श्रीभगवान्-
एतच्छ्रुत्वा मुनिर्ध्यानम् अगमत् क्षुभितेन्द्रियः
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत्
तस्योपविष्टस्य मुनेर् उत्सङ्गे निपपात ह
अमारुतमनाविद्धम् एकमाम्रफलं किल
तत् प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारकम्
उवाच च महाप्राज्ञस्तं राजानं महामुनिः
गच्छ राजन् कृतार्थोऽसि निवर्तस्व नराधिप
एष ते तनयो राजन् मा तप्सीस्त्वं तपोवने
प्रजाः पालय धर्मेण एष धर्मो महीक्षिताम्
यजस्व विविधैर्यज्ञैर् इन्द्रं तर्पय चेन्दुना
पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रममाव्रज
अष्टौ वरान् प्रयच्छामि तव पुत्रस्य पार्थिव
ब्रह्मण्यत्वमजेयत्वं युद्धेषु च तथा रतिम्
प्रियातिथेयतां चैव दीनानामन्ववेक्षणम्
तथा बलं च सुमहल्लोके कीर्तिं च शाश्वतीम्
अनुरागं प्रजानां च ददौ तस्मै स कौशिकः
अनुज्ञातस्स ऋषिणा पत्नीभ्यां सहितो नृपः
पौरैरनुगतश्चापि विवेश स्वपुरं पुनः
यथासमयमाज्ञाय तदा स नृपसत्तमः
द्वाभ्यामेकं फलं प्रादात् पत्नीभ्यां भरतर्षभ
मुनेश्च बहुमानेन कालस्य च विपर्ययात्
ततश्चाम्रं द्विधा कृत्वा भक्षयामासतुश्शुभे
भावित्वादपि चार्थस्य सत्यवाक्यात् तथा मुनेः
तयोस्समभवद्गर्भः फलप्राशनसम्भवः
दृष्ट्वा नरपतिश्श्रीमान् परां मुदमवाप ह
काले तु समनुप्राप्ते यथासमयमागते
प्रजायेतामुभे राजञ् शरीरशकले तदा
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजी
दृष्ट्वा शरीरशकले दुःखेनापततां स्त्रियौ
उद्विग्ने सहसा तत्र ते भगिन्यौ तदाऽबले
सजीवे प्राणिशकले तत्याजाते सुदुःखिते
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे
निष्क्रम्यान्तः पुरद्वारात् समुत्सृज्याशु जग्मतुः
दुकूलाभ्यां सुसञ्छन्ने पाण्डराभ्यामुभे तदा
अज्ञाते कस्यचित्त्वेव जहतुस्ते चतुष्पथे
ततो विविशतुर्धात्र्यौ पुनरन्तःपुरं तदा
कथयामासतुरुभे देवीभ्यां तु पृथक् पृथक्
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी
जग्राह मनुजव्याघ्र मांसशोणितभोजना
अत्तुकामा सुखवहे शकले सा तु राक्षसी
संयोजयामास तदा विधानबलचोदिता
ते समानीतमात्रे तु शकले पुरुषर्षभ
एकमूर्तिगते तत्र कुमारस्समपद्यत
ततस्सा राक्षसी राजन् विस्मयोत्फुल्ललोचना
न शशाक समुद्वर्तुं वज्रसारमयं शिशुम्
बालस्ताम्रतलां मुष्टिं कृत्वाऽऽस्ये निधाय सः
प्राक्रोशदतिसंरम्भात् सतोय इव तोयदः
तेन शब्देन सम्भ्रान्तस् सहसाऽन्तःपुरे जनः
निर्जगाम महाराजन् राज्ञा सह परन्तप
तेऽबले च परिम्लाने पथः पूर्णपयोधरे
विफले पुत्रलाभाय सहसैवाभ्यगच्छताम्
ते च दृष्ट्वा तथाभूते राज्ञस्तस्येष्टसन्ततिम्
तं च बालं सुबलिनं चिन्तयामास राक्षसी
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः
बालं बालमुपादातुं मेघलेखेव भास्करम्
कृत्वा सा मानुषं रूपम् उवाच मनुजाधिपम्
राक्षसी-
बृहद्रथ सुतस्तेऽयं मया दत्तः प्रगृह्यताम्
तव पत्नीद्वये जातो द्विजातिवरशासनात्
धात्रीजनपरित्यक्तो मयाऽयं परिरक्षितः
श्रीभगवान्-
ततस्ते भरतश्रेष्ठ काशिराजसुते उभे
तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्चताम्
ततस्स राजा संहृष्टस् सर्वं तदुपलभ्य वै
अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम्
का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी
कामं मे ब्रूहि कल्याणि देवता प्रतिभासि मे