युधिष्ठिरः-
सम्राड्गुणमभीप्सन् वै युष्मान् स्वार्थपरायणः
कथं प्रहिणुयाद्भीम बालान् केवलसाहसात्
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्
श्रमो हि वः परो जन्यात् किमु तत्र विचेष्टितम्
कथं जित्वा पुनर्यूयम् अस्मानसम्प्रतियास्यथ
अस्मिन्नर्थान्तरे युक्तम् अनर्थम् प्रतिपद्यते
यथावद्विमृशाम्येकस् तत् तावच्छ्रूयतां मम
सन्न्यासं रोचये साधु कार्यस्यास्य जनार्दन
प्रतिहन्ति मनो मेऽद्य राजसूयो दुराहरः
वैशम्पायनः-
पार्थः प्राप्य धनुश्श्रेष्ठम् अक्षय्यौ च महेषुधी
रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत
अर्जुनः-
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्
प्राप्तमेतन्मया राजन् दुष्प्रापं यदभीप्सितम्
कुले जन्म प्रशंसन्ति वैद्यास्साधु सुनिष्ठिताः
बलेन सदृशं नास्ति वीर्यं तु मम रोचते
कृतविद्यः कुले जातो निर्वीर्यः किं करिष्यति
क्षत्रियस्सर्वतो राजन् यस्य वृत्तिःपराजये
सर्वैरपि गुणैर्हीनो वीर्यवान् निस्तरेद्रिपून्
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति
द्रव्यभूता गुणास्सर्वे तिष्ठन्ति हि पराक्रमे
जयस्य हेतुस्सिद्धिर्हि कर्म दैवं च संश्रितम्
संयुक्तो हि बलैः कश्चित् प्रमादान्नेह युज्यते
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः
अबले विक्रमो यादृक् तथा मोहो बलान्विते
एतावुभौ महादोषौ नित्यं त्याज्यौ जयार्थिना
जरासन्धविनाशं च राज्ञां च परिमोक्षणम्
यदि कुर्याम यज्ञार्थे तदारम्भो महान् भवेत्
अनारम्भे हि नियतो भवेदगुणनिश्चयः
गुणान्निस्संशयाद्राजन् नैर्गुण्यं मन्यसे कथम्
कालोऽयं सुलभः पश्चान्मुनीनां शममिच्छताम्
साम्राज्यं तु भवेच्छन्तो वयं योत्स्यामहे परैः