युधिष्ठिरः-
उक्तं त्वया बुद्धिमता त्वन्नान्यो वक्तुमर्हति
संशयानां विनिर्णेता कोऽन्यस्त्वत्तोऽस्ति नः पुमान्
गृहे गृहे हि राजानस् स्वस्य स्वस्य प्रियङ्कराः
न च साम्राज्यमाप्तास्ते सम्राट्छब्दो हि कृत्स्नभाक्
कथं परानुभावज्ञस् स्वयं शंसितुमर्हसि
परेण समवेतस्तु यः प्रशस्तस्स पूज्यते
विशाला विमला भूमिर् बहुरत्नसमाचिता
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह
हित्वा करान् यौवनाश्वः पालनाच्च भगीरथः
कार्तवीर्यस्तपोयोगाद् बलात्तु भरतो विभुः
ऋद्ध्या मरुत्तस्तान् पञ्च साम्राज्येनेति शुश्रुम
सर्वान् वंशाननुभृशं नैते सन्ति युगे युगे
शममेव परं मन्ये नित्यं मोक्षाद्भवेच्छमः
भीमः-
आरम्भे पारमेष्ठ्ये तु नाप्राप्यमिति मे मतिः
एवमेवाभिजानन्ति कुले जाता मनस्विनः
कश्चित् कदाचिदेतेषां भवेज्जेष्ठो जनार्दन
अनारम्भपरो राजा वल्मीक इव सीदति
दुर्बलश्चाप्युपायेन बलिनं योऽधयिष्यति
अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम्
जयेत् सम्यङ्नयो राजन् नीत्यर्थे हि पर्वर्तते
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये
मागधं साधयिष्यामो वयं त्रय इवाग्रयः
त्वद्बुद्धिबलमाश्रित्य सर्वं प्राप्स्यति धर्मराट्
जयोऽस्माकं हि गोविन्द येषां नाथो भवान् सदा
श्रीभगवान्-
अात्मनोऽर्थपरो बालो नानुबन्धमवेक्षते
तं विषक्तमथो घ्नन्ति बालमर्थपरायणम्
तस्माद् वंश्याननुमृशन्नेकमेव सतां युगे
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर
निग्राह्यलक्षणम्प्राप्तौ धर्मार्थनयलक्षणैः
बार्हद्रथं जरासन्धं तं विद्धि भरतर्षभ
न चैनं प्रतियुद्ध्यन्त कुलान्येकशतं नृपाः
तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः
रत्नभाजं हि राजन्या जरासन्धमुपासते
न च तुष्यति तेनापि बलेनानयमास्थितः
मूर्धाभिसिक्तं नृपतिं प्रधानं पुरुषं कुलात्
आदत्ते न च यो दृष्टोऽभागः पुरुषतः क्वचित्
एवं सर्वानतीत्यैको जरासन्धश्शतावरान्
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति
तण्डुलप्रस्थके राजा कपर्दिनमुपास्त सः
प्रोक्षितानां प्रसृष्टानां राज्ञां पशुपतेर्गृहे
पशूनामिव का प्रीतिर् जीविते भरतर्षभ
क्षत्रियश्शस्त्रमरणो यदा भवति सत्कृतः
ननु स्म मागधं सङ्ख्ये प्रतिबाधेम तं वयम्
षडशीतिस्समानीताश् शेषाश्चान्ये चतुर्दश
जरासन्धेन राजानस् ततः क्रूरं प्रपत्स्यते
प्राप्नुयात् स यशो दीप्तं तत्र यो विघ्नमाचरेत्
जयेद्यश्च जरासन्धं स सम्राण्णियतं भवेत्