श्रीभगवान्-
सर्वैर्गुणैर्महाराज सम्राडसि न संशयः
जानतस्त्वेव ते सर्वं व्यक्तं वक्ष्याम्यशेषतः
जामदग्न्येन रामेण क्षत्रं यदवशेषितम्
तस्मादवराजके लोके यदिदं क्षत्रसञ्ज्ञितम्
कृतोऽयं किल सङ्कल्पः क्षत्रियैर्वसुधाधिपैः
निदेशवाग्भिस्तत् ते ह विदितं भरतर्षभ
ऐलं चेक्ष्वाकुवंश्यं च प्रकृतिं परिचक्षते
राजानश्श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि
ऐलवंश्यास्तु ते राजंस् तथैवेक्ष्वाकवो नृपाः
तानि चैकशतं विद्धि कुलानि भरतर्षभ
ययातेस्त्वेव वश्यानां विस्तरोऽतिगुणो महान्
भ्राजते वै महाराज चतुर्धा तद्यथादिशम्
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते
सोऽवनीं मध्यमां भुक्त्वा मिथो भेदेष्वमन्यत
चतुरङ्गबलो राजा यस्मिन्नेकशतं भवेत्
स साम्राज्यं जरासन्धः प्राप्तो भवति योगतः
तं स राजा महाराज संश्रितः किल सर्वशः
राजन् सेनापतिर्जातश् शिशुपालः प्रतापवान्
तमेव च महाराज शिष्यवत् समुपस्थितः
वक्रः करूशाधिपतिर् मायायोधी महाबलः
अपरौ च महात्मानौ महावीर्यपरिश्रुतौ
जरासन्धं समाश्रित्य तौ हंससिभकावुभौ
वक्रदन्तः करूशश्च कलभो मेघवाहनः
मूर्ध्नि दिव्यं मणिं बिभ्रद् यं तं भूतमणिं विदुः
मुरं च यवनं चैव शास्ति यो यवनावुभौ
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा
भगदत्तो महाराजो वृद्धस्तव पितुस्सखा
स चापि प्रणतस्तस्य कर्मणा चैव भारत
स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि
प्रतीच्यां दक्षिणस्यां च पृथिव्यीं पान्ति ये नृपाः
ते चापि प्रणतास्तस्य महात्मानो भयार्दिताः
मातुलो भवतश्शूरः पुरुजित् कुन्तिवर्धनः
स ते सन्नतिमानेकस् स्नेहतश्शत्रुतापनः
जरासन्धं गतस्त्वेव पुरा यो न हतो मया
पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः
आत्मानं प्रतिजानीते लोकेऽस्मिन् पुरुषोत्तमम्
आदत्ते सततं मोहाद् यस्स चिह्नं च मामकम्
वङ्गपुण्ड्रकिरातेषु राजा सबलवाहनः
पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः
चतुर्बाहुर्महाराज भोज इन्द्रसमो बली
विद्याभुजबलोद्योगैर् अजयत् पाण्ड्यकेरलान्
भ्राता तस्याकृतिश्शूरो जामदग्न्यसमो युधि
स भक्तो मागधं राजा भीष्मकः परवीरहा
प्रियाण्याचरतः प्रह्वान् अस्मान् सम्बन्धिनस्तथा
भजतो न भजत्यस्मान् अप्रियेषु व्यवस्थितः
न कुलं न बलं राजन्नाभिजात्यं तथाऽऽत्मनः
पश्यमानो यशो दीप्तं जरासन्धमुपाश्रितः
उदीच्यभोजाश्च वयं कुलान्यष्टाौ दशापि भो
जरासन्धभयादेव प्रतीचीं दिशमास्थिताः
शूरसेना भद्रकारा यौधास्साल्वाः पटच्चराः
सुस्थिराश्मविघट्टाश्च कुळिन्दाः कुन्तिभिस्सह
साल्वेयनां च राजाऽऽसीत् सामत्योनुचरैस्सह
दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु मालवाः
स उत्तरां दिशं चापि परित्यज्य भयार्दिताः
मत्स्यास्सन्न्यस्तपादाश्च पश्चिमां दिशमाश्रिताः
तथैव सर्वपञ्चाला जरासन्धभयार्दिताः
स्वराष्ट्रं सम्परित्यज्य विद्रुतास्सर्वतोदिशम्
अग्रतो ह्यस्य पाञ्चालास् तत्रानीके महात्मनः
विनिर्गते सारबले मागधेभ्यो गिरिव्रजात्
उग्रसेनसुतः कंसः पुरा निर्जित्य बान्धवान्
बार्हद्रथसुते देव्यावुपायच्छद्वृथामतिः
अस्तिप्रास्ती च ते नाम्ना सहदेवानुजेऽबले
बलेन तेन स्वज्ञातीनभिभूय वृथामतिः
श्रैष्ठ्यं प्राप्तस्स तस्यासीद् इति चापनयो महान्
भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना
ज्ञातित्राणमभीप्सद्भिर् अस्मत् सम्भावना कृता
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्
दत्वाऽक्रूराय सुतनुम् आहुकस्य सुतां तदा
हतौ कंससुनामानौ मया रामेण चाप्युत
हत्वा कंसं तथैवाजौ जरासन्धस्य बिभ्यतः
मया रामेण चान्यत्र ज्ञातयः परिपालिताः
भये तु समुपक्रान्ते जरासन्धे समुद्यते
मन्त्रोऽयं मन्त्रितो राजन् कुलैरष्टादशावरैः
अनारमन्तो निघ्नन्तो महास्त्रैश्शतघातिभिः
न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्वयम्
तस्याप्यमरसङ्काशौ बलेन बलिनां वरौ
नामभ्यां हंससिभकावित्यास्तां योधसत्तमौ
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान्
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः
न हि केवलमस्माकं यावन्तोऽन्येऽपि पार्थिवाः
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर
अष्टादश मया तस्य सङ्ग्रामा रोमहर्षणाः
दत्ता न च हतो राजञ् जरासन्धो महाबलः
अथ हंस इति ख्यात आसीत् कश्चिन्नराधिपः
नरोऽन्यस्स हतस्तस्य सङ्ग्रामेऽष्टादशावरे
हंसो हत इति प्रोक्तम् अथ केनापि भारत
तच्छ्रुत्वा सिभको राजन् यमुनाम्भस्यमज्जत
विना हंसेन लोकेऽस्मिन् नाहं जीवितुमुत्सहे
इत्येतां मतिमास्थाय सिभको निधनं गतः
तथा तु निहतं श्रुत्वा हंसः परपुरञ्जयः
प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत
ततो राजा जराजन्धश् श्रुत्वा च निधनं गतौ
स्वपुरं शूरसेनेभ्यः प्रययौ भरतर्षभ
ततो वयममित्रघ्नास् तस्मिन् प्रतिगते नृपे
पुनरानन्दितास्सर्वे मधुरायां वसामहे
यदा तु पुनरेवैनं राजन् राजीवलोचना
कंसभार्या जरासन्धं दुहिता मागधं नृपम्
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता
पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम
ततो वयं कुरुश्रेष्ठ तन्त्रपूर्वं सुमन्त्रितम्
संस्मरन्तो विमनसो व्यपयातास्म सर्वशः
पृथक्त्वेन द्रुता राजन् सङ्क्षिप्य विपुलां श्रियम्
अपयाता भयान् तस्य सबलज्ञातिबान्धवाः
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः
कुशस्थलीं पुरीं शून्यां रैवतेन निशेविताम्
पुनर्निवेश्य नन्दामो जरासन्धभयार्दिताः
तथैव दुर्गसंस्कारं देवैरपि दुरासदान्
स्त्रियोऽपि यस्यां युध्येयुः किम्पुनर्वृष्णिपुङ्गवाः
ते वयं सजना राजन् निवसामोऽकुतोभयाः
आलोक्य गिरिमुख्यं तम् अलभाम सुखं नृप
माधवा माधवीतीर्थम् आसाद्य सुखिनोऽभवन्
एवं वयं जरासन्धाद् अभितः कृतकिल्बिषाः
सामर्थ्यवन्तस्सम्बन्धाद् भवन्तं समुपाश्रिताः
त्रियोजनायतं सद्म वस्तीर्णं योजनाधिकम्
योजनान्ते शतद्वारं व्युत्क्रमक्रमतोरणम्
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः
अष्टादश सहस्राणि भ्रातरस्सन्ति नः कुले
आहुकस्य शतं पुत्रा एकैकं स्त्रिदशोपमाः
चारुदेष्णस्सह भ्रात्रा वक्रदेवोऽथ सात्यकिः
अहं च रौहिणेयश्च साम्बश्शौर्यसमा युधि
एवमेते रथास्सप्त राजन्नन्यान् निबोध मे
कृतवर्माप्यनाधृष्टिस् समीकस्समितिञ्जयः
कंसश्शङ्कुरनिरादश्च सप्त चैते महारथाः
प्रद्युम्नश्चानिरुद्धश्च भानुरक्रूरसारणौ
निशठश्च गदश्चैव सप्त चैते महारथाः
वितद्रुर्झल्लिबभ्रू च उद्धवोऽथ विडूरथः
वसुदेवोग्रसेन जिच्छं यमलोराजराजगुणान्वितः
प्रसेनजिच्च यमलो राजराजगुणान्वितः
स्यमन्तको मणिर्यस्य रुक्मं निस्रुवते बहु
पुत्रश्चान्धकभोजस्य वृद्धो राजा च ते दश
लोकसंहनना वीरा वीर्यवन्तो महारथाः
संस्मरन्तो मध्यदेशं वृष्णिवीरा गतज्वराः