वैशम्पायनः-
चतुर्भिर्भीमसेनाद्यैर् भ्रातृभिस्सहितैर्हितम्
एवमुक्तस्तदा पार्थो धर्मयैव मनो दधे
स राजसूयं राजेन्द्रः कुरूणामृषभः क्रतुम्
जगाम मनसा सद्य आहरिष्यन् युधिष्ठिरः
भूयस्त्वद्भुतवीर्यौजा धर्ममेवानुपालयन्
किं हितं सर्वलोकस्य धर्मराजो मनो दधे
स मन्त्रितृभिर्महाप्राज्ञैर् ऋत्विग्भिश्च महात्मभिः
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः
विराटद्रुपदाभ्यां च सात्यकेन च धीमता
युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता
द्रौपदेयैः परं शूरैर् मन्त्रयामास संवृतः
युधिष्ठिरः-
भवन्तो राजसूयस्य सम्राडर्हस्य सुक्रतोः
श्रद्दधानस्य तत्त्वेन ममावाप्तिः कथं भवेत्
वैशम्पायनः-
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचनाः
ऋषयो भ्रातरश्चैव तद्वाक्यं प्रत्यपूजयन्
मन्त्रिणः-
इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम्
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्
सामर्थ्ययोगौ सम्परेक्ष्य देशकालौ क्षयागमौ
विमृश्य सम्यक् च धिया कुर्वन् राजा न सीदति
वैशम्प्यनः-
एवमुक्तस्तु धर्मात्मा पुनरात्मानमात्मनि
सर्वैस्तैर्निश्चितमतिः काल इत्येव भारत
भूयो विममृशे पार्थो लोकात्महितकारणम्
न हि यज्ञसमारम्भः केवलात्मविवृद्धये
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्
सर्वलोकात् परं मत्वा जगाम मनसा हरिम्
अप्रमेयमनाद्यन्तं कामाज्जातमजं नृषु
पाण्डवस्तर्कयामास कर्मभिर्देवनिर्मितैः
नास्य किञ्चिदविज्ञेयं नास्य किञ्चिदकर्मजम्
नास्य किञ्चिद्भवेन्मोघं इति कृष्णममन्यत
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम्
दूतः-
धर्मराजो हृषीकेश धौम्यव्यासादिभिस्सह
पाञ्चालमात्स्यसहितैर् भ्रातृभिस्स्वैश्च सर्वशः
त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः
वैशम्पायनः-
इन्द्रसेनवचश्श्रुत्वा यादवप्रवरो बली
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्ष्यथाच्युतः
आमन्त्र्य वसुदेवं च बलदेवं च माधवः
इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा
व्यतीत्य देशान् विविधांस् त्वरावान्क् षिप्रवाहनः
इन्द्रप्रस्थगतं पार्थम् अभ्यगच्छज्जनार्दनः
स्वगृहे पितृवद्भ्रात्रा धर्मराजेन पूजितः
भीमेन च ततोऽपश्यत् स्वसारं प्रीतिमान् प्रभुः
प्रीत्या प्रियेण वै सख्या रेमे स सहितस्तदा
अर्जुनेन यमाभ्यां च शिष्यवत् समुपस्थितः
तं विश्रान्तं समे देशे क्षणिनं कल्पमच्युतम्
धर्मराजस्समागम्य ज्ञापयत् स्वं प्रयोजनम्
युधिष्ठिरः-
प्रार्थितो राजसूयो मे न वाऽसौ केवलेप्सया
प्राप्यते येन केनेह विदितं तव चाच्युत
यस्मिन् सर्वं सम्भवति यदा सर्वेश उच्यते
राहसूयाभिषेकाय तदा साम्राज्यमिष्यते
तं राजसूयं सुहृदः प्राप्यमाहुस्समेत्य माम्
तत्र मे निश्चिता बुद्धिस् तव कृष्ण गिरा भवेत्
केचिद्धि सौहृदादेव दोषं न परिचक्षते
अर्थहेतोस्तथा चान्ये प्रियमेव वदन्त्युत
प्रियमेव पतीक्षन्ते केचिन्नात्मनि यद्धितम्
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने
त्वं तु सर्वानतीत्यैतान् कामं क्रोधमतीत्य च
परमं नः क्षमं काले यथावद्वक्तुमर्हसि