वैशम्पायनः-
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः
चिन्तयन् राजसूयाप्तिं न लेभे शर्म भारत
राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम्
यज्वनां कर्मभिः पुण्यैर् लोकप्राप्तिं समीक्ष्य च
हरिश्चन्द्रं च राजर्षि रोचमानं विशेषतः
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः
युधिष्ठिरस्ततः सर्वान् अर्चयित्वा सभासदः
प्रत्यर्चितश्च तैस्सर्वैर् यज्ञायैव मनो दधे
स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम्
आहर्तुं प्रवणं चक्रे मनस्सञ्चिन्त्य सोऽसकृत्
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन्
किं हितं सर्वलोकानां भवेदिति मनो दधे
अनुगृह्णात् प्रजास्सर्वास् सर्वधर्मभृतां वरः
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः
क्रियतां दीयतां देयं मुक्तकोपैर्बलं विना
साधुधर्मेति पार्थस्य नान्यच्छ्रूयत भाषितम्
एवं वृत्ते जगत् तस्मिन् पितरीवान्वरज्यत
न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता
परिग्रहान्नरेन्द्रस्य धर्मणामनुशासनात्
शत्रूणां क्षपणाच्चैव बीभत्सोस्सव्यसाचिनः
बलीनां सम्यगादानान्नकुलस्य यशस्विनः
धीमतस्सहदेवस्य धर्माणामनुशासनात्
अविग्रहा वीतभयास् स्वधर्मनिरताः प्रजाः
निकामवर्षी पर्जन्य आसीज्जनपदे तदा
वार्धुषी यज्ञसन्तानो गोरक्षं कर्षणं वणिक्
विशेषात् सर्ववर्णानां सञ्जज्ञे राजकर्मणि
अवर्षं चातिवर्षं च व्याधिपावकमूर्च्छनम्
सर्वमेतत् तदा नासीद् धर्मनित्ये युधिष्ठिरे
दस्युभ्यो राजतो वाऽपि परचक्रात् परस्परम्
राजवल्लभतश्चैव नाश्रूयत भयाकृतिम्
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम्
अभिहर्तुं नृपाः जग्मुर् नान्यैः कार्यैः पृथग्जनाः
धर्मैर्धनागमैस्तस्य ववृधे निचयो महान्
कामतोऽप्युपयुञ्जन्त अक्षयैर्लोकजैर्जनाः
स मन्त्रिणस्समानाय्य भ्रातॄंश्च वदतां वरः
राजसूयं प्रति तदा पुनः पुनरपृच्छत
ते पृच्छ्यमानास्सहिता वचोर्थ्यं मन्त्रिणस्तदा
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन्
मन्त्रिणः-
सर्वव्यापी सर्वगुणस् सर्वसाहश्च सर्वराट्
यस्मिन्नधिकृतस्सम्राड् यजमानो महायशाः
अनूचाना दश दिशः पितृतो मातृतस्तथा
अनुरक्ता यं प्रतिष्ठन्ते सोमहस्ता द्विजातयः
येनाभिषिक्तो नृपतिर् वारणावतमिच्छति
तेन राजा वसन् कृत्स्नं सम्राड्गुणमभीप्सते
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन
राजसूयस्य समयं मन्यन्ते सुहृदस्तव
तस्य यज्ञस्य समयस् स्वाधीनः क्षत्रसम्पदा
साम्ना षडग्नयो यस्मिंश् चीयन्ते शंसितव्रतैः
दर्वीहोमानुपादाय सर्वानाप्नोति यः क्रतून्
अभिषेकश्च यज्ञान्ते सर्वजित्तेन चोच्यते
वैशम्पायनः-
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्
अविचार्य महाराज राजसूये मनः कुरु
इत्येवं सुहृदस्सर्वे पृथक्च सह चाब्रुवन्
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते
धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा
श्रुत्वा सुहृद्वचः कल्यं जानंश्चाप्यात्मनः क्षमम्
सम्प्रशस्तक्रियारम्भः परीक्षामुपचक्रमे