युधिष्ठिर उवाच
प्रायशो देवलोकास्ते कथिता वदतां वर
वैवस्वतसभायां वै यथावदनपूर्वशः
वरुणस्य सभायां च यथा नागास्सभासदः
दैत्येन्द्राश्चैव भूयिष्ठास् सरितस्सागरास्तथा
तथा धनपतेर्यक्षा राक्षसा गुह्यकाश्च ये
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः
पितामहसभायां तु कथितास्ते महर्षयः
सर्वे देवनिकायाश्च सर्वशास्त्राणि चैव ह
शक्रस्य तु सभायां तु देवास्सङ्कीर्तिता मुने
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः
एक एव तु राजर्षिः कथितास्ते महामुने
हरिश्चन्द्रस्सखा नित्यो देवेन्द्रस्य महात्मनः
केन कर्मविपाकेन हरिश्चन्द्रो द्विजर्षभः
तेषु राजसहस्रेषु प्रभयाप्यतिरोचते
किं कर्म तेनाचरितं नियमो वा यतव्रत
येनासौ सह शक्रेण मोदते सुमहायशाः
पितृलोकगतश्चैव त्वया विप्र पिता मम
दृष्टः पाण्डुर्महाभागः कथं त्वासीत् समागमः
अनागतमतिक्रान्तं तत् सर्वं त्वयि निष्ठितम्
किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम्
त्वत्तस्सर्वमिदं श्रोतुं परं कौतूहलं हि मे
नारदः-
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो
तत् तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः
इक्ष्वाकूणां कुले जातस् त्रिशङ्कुर्नाम पार्थिवः
अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः
तस्य सत्यवती नाम पत्नी केकयवंशजा
तस्यां गर्भस्समभवद् धर्मेण कुरुनन्दन
सा च काले महाभागा जन्ममासं प्रविश्य वै
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्
स वै राजा हरिश्चन्द्रस् त्रैशङ्कव इति स्मृतः
स राजा बलवानासीत्सम्राट् सर्वमहीक्षिताम्
तस्य सर्वे महीपालाश् शासनावनतास्स्थिताः
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्
शस्त्रप्रतापेन जिता द्वीपास्सप्त जनेश्वर
स निर्जित्य महीं कृत्स्नां सशैलवनकाननाम्
आजहार महाराज राजसूयं महाक्रतुम्
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया
द्विजानां परिवेष्टारस् तस्मिन् यज्ञे च तेऽभवन्
समाप्तयज्ञो विधिवद्धरिश्चन्द्रः प्रतापवान्
अभिषिक्तस्स शुशुभे साम्राज्येन नराधिपः
राजसूयेऽभिषिक्तस्तु समाप्तवरदक्षिणः
अददाद् द्रविणं प्रीत्या याचकानां युधिष्ठिर
यथोक्तं क्रतौ तस्मिंस् ततः पञ्चगुणाधिकम्
अतर्पयच्च वसुभिर् ब्राह्मणान् भरतर्षभ
यज्ञकालेऽथ सम्प्राप्तान् नानादिग्भ्यस्समागतान्
भक्ष्यैर्भोज्यैश्च पानैश्च यथाकालं तद्हृतैः
रत्नौघतर्पितैस्तुष्टैर्द् विजैश्च समुदाहृतम्
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिको भव
एतस्मात् कारणात् तात हरिश्चन्द्रो युधिष्ठिर
तेषु राजसहस्रेषु प्रभयाप्यतिरिच्यते
ये यजन्ते महीपाला राजसूयं महाक्रतुम्
सम्पराप्तास्ते महेन्द्रेण मोदन्ते सह भारत
ये चापि निधनं प्राप्तास् सङ्ग्रामेष्वपलायिनः
ते प्रप्तास्तां सभां राजन् मोन्दते सह भारत
तपसा ये च तीव्रेण त्यजन्तीह कलेबरम्
ते तत् स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः
पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरववर्धनः
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः
समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः
राजसूयं क्रतुश्रेष्ठम् आहरस्वेति भारत
तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव
गन्तारस्ते महेन्द्रस्य पूर्वे सर्वे पितामहाः
सकोलतां सुरेन्द्रस्य त्रैलोक्याधिपतेर्नृप
गन्तासि वै महेन्द्रस्य पूर्वैस्सर्वैस्सलोकताम्
बहुविघ्नस्तु कौन्तेय क्रतुरेष स्मृतो महान्
छिद्राण्यस्य तु वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः
युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम्
किञ्चिदेव निमित्तं च भवत्यत्र भयावहम्
एतत् ते सर्वमाख्यातं किं भूयः करवाणि ते
एतत् सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे
भव एधस्व मोदस्व धनैस्तर्पय च द्विजान्
एतत् ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति
वैशम्पायनः-
एवमाख्याय पार्थेभ्यो नारदो जनमेजय
जगाम तैर्वृतो राजन्नृषिभिर्यैस्समागतः
गते तु नारदे पार्थो भ्रातृभिस्सह कौरवः
राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत