नारदः-
युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा
प्रमाणेन यथा याम्या शुभप्राकारतोरणा
अन्तस्सलिलमास्थाय विहिता विश्वकर्मणा
दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता
नीलपीतहरिच्छ्यामैस् सितैर्लोहितकैरपि
अवदातैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः
तथा शकुनयस्तस्यां नानावर्णा मृदुस्वराः
अनिर्देश्या वपुष्मन्तश् शतशोऽथ सहस्रशः
सा सभा सुखसंस्पर्शा नातिशीता न घर्मदा
शुभासनवती रम्या सिता वरुणसम्मता
तत्रास्ते वरुणो राजा वारुण्या सह भारत
दिव्यरत्नाम्बरधरो दिव्यरत्नविभूषितः
द्वितीयेन तु नाम्ना वै गौरीति भुवि विश्रुता
पत्न्या स वरुणो देवः प्रमोदति सुखी सुखम्
दिव्यमाल्याम्बरधरा दिव्यालङ्कारभूषिताः
आदित्यास्तत्र वरुणं जलेश्वरमुपासते
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ
गृणिनागश्च नागश्च मणिश्शङ्खनखस्तथा
कौरव्यस्स्वस्तिकश्चैव एलापत्रश्च वामनः
अपराजितश्च दोषश्च नन्दकः पूरणस्तथा
अभीकश्शिभिकश्श्वेतो भद्रो भद्रेश्वरस्तथा
मणिमान् पिणडकस्सारः कारकोटकधनञ्जयौ
प्रह्रादो मुषिकादश्च तथैव जनमेजयः
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः
अर्थो धर्मश्च कामश्च वसुः कपिल एव च
अनन्तश्च महानागो यं दृष्ट्वा स जलेश्वरः
अभ्यर्चयति सत्कारैर् आसनेन च तं विभुम्
वासुकिप्रमुखाश्चैव सर्वे प्राञ्जलयस्स्थिताः
अनुज्ञाताश्च शेषेण यथार्हमुपविश्य च
एते चान्ये च बहवस् सर्पास्तस्यां युधिष्ठिर
वैनतेयश्च गरुडो ये चान्ये परिचारिणः
उपासते महात्मानं वरुणं विगतज्वराः
बलिर्वैरोचनिश्चैव नरकः पृथिवीञ्जयः
प्रह्लादो विप्रचित्तिश्च कालकेयाश्च सर्वशः
सुमुखो दुर्मुखश्शङ्खस् सुमनास्सुमतिस्वनः
घटोदरो महापार्श्वः क्रथश्च पितरस्तथा
विश्वरूपस्स्वरूपश्च विरूपोश्च महाशिराः
दशग्रीवश्च वाली च मेघवासाश्च भारत
दोदम्भो विगदूभश्च प्रभवश्चेन्द्रतापनः
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः
स्रग्विणो मौलिनस्सर्वे सर्वे च चरितव्रताः
सर्वे लब्धवराश्शूरास् सर्वे विजितमृत्यवः
ते तस्यां वरुणं पार्थ धर्मपाशस्थितास्सदा
उपासते महात्मानं सर्वे दिव्यपरिच्छदाः
तथा समुद्राश्चत्वारो नदी भागीरथी च या
कालिन्दी विदिशा वेणा नर्मदा वेगवाहिनी
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती
इरावती वितस्ता च सिन्धुर्देवनदस्तथा
गोदावरी कृष्णवेणी कावेरी सरितां वरा
किम्बुदा च विशल्या च कौशिकी गोमती तथा
देविका च विपाका च तथा वैतरणी नदी
तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः
चर्मण्वती श्वेतनदी फल्गुनी च महानदी
सरयूश्चीरवल्केला कुलिशश्च सरिस्तथा
एताश्चन्याश्च सरितस् तीर्थानि च सरांसि च
ह्रदाश्च वरुणं देवं सभायां प्रयपासते
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर
पल्वलानि तटाकानि देहवन्त्यथ भारत
दिशश्चाथ मही चैव विदिशश्च महीधराः
उपासते महात्मानं सर्वे जलचरास्तथा
गीतवादित्रवादाश्च गन्धर्वाप्सरसां गणाः
स्तुवन्तस्तत्र वरुणं सभायां च समासते
महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः
कथयन्तस्सुमधुराः कथास्तेतु समासते
वारुणस्य महामन्त्री सुनाभः परिसेवते
पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते
एषा मया सम्प्रगीता वारुणी भरतर्षभ
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु