नारदः-
कथयिष्ये सभां दिव्यां याम्यां राजन् निबोध मे
वैवस्वतस्य चार्थाय विश्वकर्मा चकार याम्
तैजस्विनी सभा राजन् बभूव शतयोजना
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव
अर्कप्रकाशा भ्राजिष्णुस् सर्वतः कामचारिणी
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्
न दैन्यं न च कार्पण्यं प्रतिकूलं न चाप्युत
सर्वे कामास्स्थितास्तस्यां ये दिव्या ये च मानुषाः
रसवन्तः प्रभूताश्च भक्ष्यभोज्याश्च भारत
पुण्यगन्धास्स्रजस्तत्र नित्यपुष्पफला द्रुमाः
रसवन्ति च तोयानि शीतान्युष्णानि चैव हि
वृक्षाश्च विविधास्तत्र नित्यपुष्पा मनोरमाः
शीतलानि च तोयानि मुख्योष्णानि च भारत
तस्यां राजर्षयः पुण्यास् तथा ब्रह्मर्षयोऽमलाः
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते
ययातिर्नहुषः पूरुर् मान्धाता सोमको नृगः
त्रसदस्युश्चैत्ररथः कृतवीर्यश्श्रुतश्रवाः
अरिपुण्ड्रस्सुविघ्नश्च कृतवेदः कृताकृतिः
प्रतर्दनः शिबिर्मात्स्यः पृथुलाक्षो बृहद्रथः
ऐलो मरुत्तः कुषिकस् साङ्काश्यस्साङ्कृतिर्भवः
शन्तनुश्च सदश्वोर्मी कार्तवीर्यश्च पार्थिवः
भरतस्तथैलस्सुरथस् सुनीथो निषधोऽनलः
दिवोदासोऽथ सुमना अम्बरीषो भगीरथः
व्यश्वस्सदश्वो वाध्र्यश्वः पञ्चहस्तः पृथुश्रवाः
ऋषभो वृषसेनश्च कूपश्च सुमहाबलः
पृषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः
औशीनरः पुण्डरीको ययातिर्भरतश्शुचिः
अंसोऽरिष्टश्च दैवाश्वो दुष्यन्तस्सृञ्जयो जयः
भागस्वरिस्सुनीथश्च निषधोऽथ निमी रथी
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः
कपोतरोमा तृणकः सहदेवार्जुनौ तथा
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः
अलर्कः कक्षसेनश्च गयो गौराश्व एव च
जामदग्न्यश्च रामश्च नाभागसगरौ तथा
भूरिद्युम्नो महाश्वश्च पृथाश्वो जनकस्तथा
वैन्यो राजा पारिषेणः पुरुजो जनमेजयः
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा
महाभुजो महाजानुर् मायासृष्टो हयोऽनघः
पद्माश्च मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्
अरिष्टनेमिः प्रद्युम्नः पृथुश्च जनबकस्तथा
शतं मत्स्या नृपतयश् शतं नीपाश्शतं गयाः
धृतराष्ट्राश्चैकशतम् अशीतिर्जनमेजयाः
शतं च ब्रह्मदत्तानां वैरिणो वैरिणस्तथा
शन्तनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव
ऋषड्भवश्शतरथो देवराजो जयद्रथः
वृषादर्विश्च राजर्षिर् धाम्ना सह समृद्धिना
अथापरे सहस्राणि ये गताश्शशबिन्दवः
इष्ट्वाऽश्वमेधैर्बहुभिर् महद्भिर्भूरिदक्षिणैः
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः
तस्यां सभायां राजर्षे वैवस्वतमुपासते
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च
यज्वानश्चैव सिद्धाश्च ये न योगशरीरिणः
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये
स्वधावन्तो बर्हिषदो मूर्तामूर्ताश्च ये स्मृताः
कालचक्रं च साक्षाच्च भगवान् हव्यवाहनः
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः
कालस्य नयने युक्ता यमस्य पुरुषाश्च ये
तस्यां शिंशुपपालाशास् तथा काशकुशादयः
उपासते यमं राजन् मूर्तिमन्तो निरामयाः
एते चान्ये च बहवः पितृराजसभासदः
अशक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा
असम्बाधा हि सा पार्थ रम्या कामगमा सभा
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा
प्रभासन्ती ज्वलन्ती च तेजसा स्वेन भारत
तामुग्रतपसो यान्ति सुव्रतास्सत्यवादिनः
शान्तास्सन्न्यासिनश्शुद्धाः पूताः पुण्येन कर्मणा
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः
चित्राङ्गदाश्चित्रमाल्यास् सर्वे ज्वलितकुण्डलाः
सुकृतैः कर्मभिः पुण्यैः पारिबर्हैश्च भूषिताः
गन्धर्वाश्च महात्मानश् शतशोऽप्सरसां गणाः
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः
पुण्याश्च गन्धाश्शब्दाश्च तस्यां पार्थ समन्ततः
दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः
शतं शतसहस्राणि धर्मिष्ठं तं प्रजेश्वरम्
उपासते महात्मानो रूपयुक्ता मनस्विनः
ईदृशी सा सभा राजन् पितृराज्ञो महात्मनः
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्