वैशम्पायनः-
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात् परम्
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः
युधिष्ठिरः-
भगवन् यमाहैतन्मदर्थं धर्मसंहितम्
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया
राजभिस्तु तथा कार्यं पुराणज्ञैर्न संशयः
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः
वैशम्पायनः-
एकमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च
मुहूर्तात् प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्
नारदं सुस्थमासीनम् उपासीनो युधिष्ठिरः
तं तु विश्रान्तमासीनं देवर्षिममितद्युतिम्
अपृच्छद्राजमध्ये तं प्रतिपूर्वमिदं तथा
युधिष्ठिरः-
भवान् सञ्चरल्ँलोकान् सदा नानाविधान् बहून्
ब्रह्मणा निर्मितान् पूर्वं प्रेक्षमाणो मनोजवः
ईदृशी भविता काचिद् दृष्टपूर्वा सभा क्वचित्
इतो वा श्रेयसी ब्रह्मंस् तन्ममाचक्ष्व पृच्छतः
वैशम्पायनः-
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्
पाण्डवं प्रत्युवाचेदं स्मयन् मधुरया गिरा
नारदः-
मानुषेषु न मे काचिद् दृष्टपूर्वा न च श्रुता
सभा मणिमयी राजन् यथेयं तव भारत
सभां तु पितृराजस्य वरुणस्य च धीमतः
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्
यदि ते श्रवणे बुद्धिर् वर्तते भरतर्षभ
वैशम्पायनः-
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः
युधिष्ठिरः-
नारदं प्रत्युवाचेदं सभामध्ये वय्वस्थितम्
सभाः कथय तास्सर्वाश् श्रोतुमिच्छामहे वयम्
किन्द्रव्यास्तास्सभा ब्रह्मन् किंविस्ताराः किमायताः
पितामहं च के तस्यां सभायां पर्युपासते
वासवं देवराजं च यमं वैवस्वतं च के
वरुणं च कुबेरं च सभायां पर्युपासते
एतत् सर्वं यथावत्तवं देवर्षे वदतस्तव
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः
वैशम्पायनः-
एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम्
क्रमेण राजन् दिव्यास्ताश् श्रूयन्तामिह नस्सभाः