वैशम्पायनः-
अथ तत्रोपविष्टेष्वृषिषु पार्थिवेषु च भारत
महत्सु चोपविष्टेषु गन्धर्वेषु च सर्वशः
वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः
इतिहासपुराणज्ञः क्रियाकल्पविशेषवित्
स्तुतिस्तोमग्रहस्तोभपदक्रमविभागवित्
न्यायविद्धर्मतत्त्वज्ञष् षडङ्गविदनुत्तमः
ऐक्ययोगत्वनानात्वसमवायविशारदः
शिक्षाक्षरविशेषज्ञः पुराकल्पविशेषवित्
आदिकल्पार्थवक्ता च कल्पसूत्रार्थतत्त्ववित्
ब्रह्मचर्यव्रतपरस् सभापोषविशारदः
वक्ता प्रगल्भो मेधावी स्मृतिमान् नयवित् कविः
परापरविभागज्ञः प्रमाणे कृतनिश्चयः
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्
उत्तरोत्तरवक्ता च ब्रुवतोऽपि बृहस्पतेः
धर्मकामार्थमोक्षेषु यथावत् कृतनिश्चयः
प्रत्यक्षदर्शी सर्वस्य तिर्यगूर्ध्वमधस्तथा
साङ्ख्ययोगविधानज्ञो निर्विवक्षुरुदारधीः
सन्धिविग्रहतत्त्वज्ञो यानासनविभागवित्
षाङ्गुण्यविधियुक्तश्च अर्थशास्त्रविशारदः
नृत्तगान्धर्ववेदी च सर्वस्याप्रतिमस्तथा
एतैश्चान्यैश्च बहुभिर् युक्तो गुणगणैर्मुनिः
लोकाननुचरन् सर्वान् आगमत् तां सभामृपिः
नारदस्सुमहातेजा ऋषिभिस्सहितस्तदा
पारिजातेन राजेन्द्र रैवतेन च धीमता
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः
सभास्थान् पाण्डवान् द्रष्टुं प्रीयमाणो मनोजवः
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैस्सह
अभ्यवादयत प्रीत्या विनयावनतस्तदा
जयाशीर्वचनेनाथ धर्मराजानमर्चयत्
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि
अर्चयामास रत्नैश्च सर्वकामैश्च पार्थिवः
तुतोष च यथावत् स पूजां प्राप्य युधिष्ठिरात्
सोऽर्चितः पाण्डवैस्सर्वैर्महर्षिर्वेदपारगः
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम्
नारदः-
कच्चिदर्थाश्च कल्प्यन्ते मनश्च न विहन्यते
सुखानि चानुभूयन्ते धर्मे च रमते मनः
कच्चिदाचरिता पूर्वैर् नरदेव पितामहैः
वर्तते वृत्तिरक्षीणा धर्मार्थसहिता नृषु
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा
उभौ वा प्रीतिसारेण न कामेन विबाधसे
कच्चिदर्थं च धर्मं च कामं च जयतां वर
विभज्य काले कालज्ञस् सदा वरद सेवसे
कच्चिद्राजगुणैष्षड्भिस् सप्तोपायांस्तथैव च
बलाबलं च सम्यक् च कार्यं दश परीक्षसे
कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर
तथा सन्धाय कर्माणि भारताष्टौ निषेवसे
कच्चित् प्रकृतयष्षट ते ह्यलुप्ता भरतर्षभ
आढ्याश्चैवाव्यसनिनस् स्वनुरक्ताश्च सर्वशः
कच्चिन्न तर्कैर्द्यूतैर्वा ये चाप्यपरिशङ्किताः
त्वया वा तव चामात्यैर् भिद्यते तव मन्त्रितम्
मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम्
कच्चित् सन्धिं यथान्यायं विग्रहं चोपसेवसे
कच्चिद्वृत्तिमुदासीनां मध्यमे वाऽनुवर्तसे
कच्चिदात्मसमा बुद्ध्या शुचयो विगतक्लमाः
कुलीनाश्चानुरक्ताश्च त्रयस्ते वीर मन्त्रिणः
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिस्सह
कच्चित् ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति
मन्त्रो विजयमूलं हि राज्ञो भवति भारत
सुसंवृतो मन्त्रैधरैर् अमात्यैश्शास्त्रकोविदैः
कच्चिन्निद्रावशं नैषि कच्चित् काले विबुद्ध्यसे
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित्
कच्चिदर्थान् विनिश्चित्य लघूपायान् महोदयान्
क्षिप्रमारभसे कर्तुं न दीर्घयसि तादृशान्
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्ते नरर्षभ
परोक्षं वा महाराज मध्यं ह्यत्र प्रशस्यते
सर्वथा पुनरुत्सृष्टास् संसृष्टा ह्यत्र कारणम्
कच्चिद्राजन् कृतान्येव कृतप्रायाणि वा पुनः
विदुस्ते वीर कर्माणि नारब्धव्यानि कानिचित्
कच्चित्कारणिकास्सर्वे सर्वशास्त्रेषु कोविदाः
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः
कच्चित् सहस्रैर्मूर्खाणाम् एकमिच्छसि पण्डितम्
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्श्रेयसं परम्
एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्
कच्चित् सर्वाणि दुर्गाणि धनधान्योदकायुधैः
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः
कच्चिदष्टादशान्येषां स्वपक्षे दश पञ्च च
त्रिभिस्त्रिभिरविज्ञातैर् वेत्सि तीर्थानि चारकैः
कच्चिद्द्विषामविज्ञातः कृतयज्ञश्च सर्वदा
नित्ययुक्तो रिपून् सर्वान् वीक्षसे रिपुसूदन
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः
अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः
हुतं च होष्यमाणं च काले वेदयते सदा
कच्चित् षडङ्गनिष्णातो ज्योतिषां प्रतिपाठकः
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्सदा
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः
अमात्यानुपधातीतान् पितृपैतामहाञ्शुचीन्
श्रेष्ठाञ्श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु
कच्चिन्नोग्रेण दण्डेन भृशमुद्विजितप्रजम्
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ
कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्शुचिः
कुलीनश्चानुरक्तश्च दक्षस्सेनापतिस्तव
कच्चिद् बलस्य ते मुख्यास् सर्वयुद्धविशारदाः
धृष्टापदाना विक्रान्तास् त्वया सत्कृत्य मानिताः
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम्
सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि
कालातिक्रमणादेते भक्तवेतनयोर्भृताः
भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थस्सुमहान् स्मृतः
कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः
कच्चित् प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि
कच्चिन्नैको बहूनर्थान् सर्वशस्साम्परायिकान्
अनुशास्ति यथाकामं कामात्मा शासनातिगः
कच्चित् पुरुषकारेण पुरुषः कर्म शोभयन्
लभते मानमत्यन्तं भृतो वा वेतनं त्वयि
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान्
यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे
कच्चिद्दारार्भकाणां ते तवार्थे मृत्युमीयुषाम्
व्यसने चाभ्युपेतानां बिभर्षि भरतर्षभ
कच्चिद्भयादुपगतं गृहं वा रिपुमागतम्
युधि वा विजितं पार्थ पुत्रवत् परिरक्षसि
कच्चित् त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते
समश्च नातिशङ्क्यश्च यथा पुत्रो यथा पिता
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम्
पार्ष्णिमूलं च विज्ञाय व्यवसायपुरोगमः
बलस्य च महाराज दत्त्वा वेतनमग्रतः
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः
पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान्
कच्चित् ते यास्यतश्शत्रून् पूर्वं यान्ति स्वनुष्ठिताः
साम दानं च भेदं च दण्डं च चतुरो गुणान्
कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशाम्पते
ततो विक्रमसे जेतुं जित्वा च परिरक्षसि
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः
बलमुख्यैस्सुनीता ते द्विषतः प्रतिबाधते
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप
अविहाय महाराज निहंसि समरे रिपून्
कच्चित् स्वपरराष्ट्रेषु बहवोऽधिकृतास्त्वया
अर्थं चैवानुतिष्ठन्ति रक्षन्ति च परस्परम्
कच्चित् तेऽभ्यवहार्याणि गात्रसंस्पर्शनानि च
घ्रेयाणि च महार्हाणि रक्षत्यविमना भिषक्
कच्चित् कोशश्च कोष्ठं च वाहनं परमायुधम्
आयश्च कृतकल्याणैस् तव भक्तैरनुष्ठितः
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते
रक्षस्यात्मानमेवाग्रे तांश्च तेभ्यो मिथश्च तान्
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च
प्रतिजानन्ति पूर्वाह्णे नित्यमायव्ययौ तव
कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः
पादभागैस्त्रिभिर्वाऽपि व्ययस्संशुद्ध्यते तव
कच्चिज्ज्ञातीन् गुरून् वृद्धान् वणिजश्शिल्पिनश्श्रितान्
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान्
कच्चिदायव्यये युक्तास् सर्वे गणकलेखकाः
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययौ तव
कच्चिदर्थेषु सम्प्रौढान् हितकामाननुप्रियान्
नापकर्षसि कर्मभ्यः पूर्वमज्ञाय किल्बिषम्
कच्चिद्विदित्वा पुरुषान् उत्तमाधममध्यमान्
त्वं कर्मस्वनुरूपेषु नियोजयसि नित्यशः
कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः
कच्चिन्न लुब्धाश्चौरैर्वा कुमारैर्विविधैरपि
त्वया वा पीड्यते राष्ट्रं कच्चित् तुष्टाः कृषीवलाः॥
कच्चिद्राष्ट्रे तटाकानि पूर्णानि च महान्ति च
भागशो विनिविष्टानि न कृषिर्देवमातृका
कच्चिद्बीजं च भक्तं च कर्षकायावसीदते
प्रतिगुञ्जाशतं वृद्ध्या ददास्यृणमनुग्रहम्
कच्चित् ते दयितास्सर्वे कृषिगोरक्षजीवनः
कच्चित् स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः
वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते
कच्चिच्छुचिकृतप्रज्ञाः पञ्च पञ्च स्वनुष्ठिताः
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत् कृताः
ग्रामवच्च कृता रक्षा ते च सर्वे त्वदर्पणाः
कच्चिद्बलेनानुगतास् समानि विषमाणि च
पुराणि चारास्साध्यक्षाश् चरन्ति विषये तव
कच्चित्स् स्त्रियस्सान्त्वयसि कच्चित् तात सुरक्षिताः
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे
कच्चिच्चारान्निशी श्रुत्वा तत्कार्यमनुचिन्त्य च
प्रियाण्यनुभवञ्शेषे विदित्वाऽभ्यन्तरं जनम्
कच्चिद्द्वौ प्रथमौ यामौ रात्रौ सुप्त्वा विशाम्पते
विचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे
कच्चिद्दर्शयसे नित्यं मनुष्यान् समलङ्कृतान्
उत्थाय काले कालज्ञैस् सह पाण्डव मन्त्रिभिः
कच्चिद्रक्ताम्बरधराः खड्गहस्तास्सकुण्डलाः
अभितस्त्वामुपासन्ते रक्षणार्थमरिन्दम
कच्चिद्दण्ड्येषु यमवत् पूज्येषु च विशाम्पते
परीक्ष्य वर्तसे सम्यग् अप्रियेषु प्रियेषु च
कच्चिच्छारीरमाबाधम् औषधैर्नियमेन च
मानसं वृद्धसेवाभिस् सदा पार्थापकर्षसि
कच्चिद्वैद्याश्चिकित्सायाम् अष्टाङ्गायां विशारदाः
सुहृदश्चानुरक्ताश्च शरीरे ते हितास्सदा
कच्चिन्न मोहान्मानाद्वा कामाद्वापि विशाम्पते
अर्थिप्रत्यर्थिनः प्राप्तान् नापास्यसि कथञ्चन
कच्चिन्न लोभाद्द्वेषाद्वा विस्रम्भात् प्रणयेन वा
वर्तमानो मनुष्याणां वृत्तिं त्वमनुरुध्यसे
कच्चिदर्थेषु सम्प्रौढान् अर्थकर्मविचक्षणान्
नापकर्षसि कर्मभ्यो ह्यर्थयुक्ता इतीव हि
कच्चित् पौरा न सहिता ये च ते राष्ट्रवासिनः
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन
कच्चित् ते दुर्बलश्शत्रुर् बलिनाऽपि निपीडितः
मन्त्रेण बलवान् कच्चित् त्वमुभाभ्यां तथा समः
कच्चित् सर्वेऽनुरक्ताश्च भूमिपालाः प्रधानतः
कच्चित् प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः
कच्चित्ते सर्ववैद्यैषु गुणेनाऽर्चा प्रवर्तते
ब्राह्मणेषु च विद्वत्सु तव नि श्श्रेयसं च तत्
कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः
यतमानस्तथा कर्तुं तस्मिन् कर्मणि वर्तसे
कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः
गुणवन्ति गुणोपेतास् तवाद्य कुरुसत्तम
कच्चित् क्रतूनेकांश्च वाजपेयांश्च सर्वशः
पौण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमादरात्
कच्चिद्द्विजान् गुरून् वृद्धान् दैवतांस्तापसांस्तथा
चैत्यवृक्षान् सुकल्याणान् ब्राह्मणांस्त्वं नमस्यसि
कच्चिदेषा च ते बुद्धिर् वृत्तिरेषा च तेऽनघ
आयुष्या च यशस्या च धर्मार्थशुभदर्शिनी
एतया वर्तमानस्य बुद्ध्या राज्यं न सीदति
निर्जित्य च महाराज सोऽनन्तं सुखमश्नुते
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि
अदृष्टशास्त्रकुशलैर् न लोभाद्वुध्यतेऽशुचिः
दुष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टस्सकारणैः
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ
व्यसने कच्चिदाढ्यस्य दरिद्रस्य च भारत
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्
अदर्शनं ज्ञानवतामालस्यमकृतज्ञताम्
एकचिन्तनमर्थानाम् अनर्थज्ञैश्च चिन्तनम्
निश्चितानामनारम्भं मन्त्रस्यापरिपालनम्
मङ्गलस्याप्रयोगं च प्रसङ्गं विषयेषु च
कच्चित् त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश
कच्चित् ते सफला वेदाः कच्चित् ते सफलं धनम्
कच्चित् ते सफला दाराः कच्चित् ते सफलं श्रुतम्
युधिष्ठिरः-
कथं वै सफला वेदाः कथं वै सफलं धनम्
कथं वै सफला दाराः कथं वै सफलं श्रुतम्
नारदः-
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्
रतिपुत्रफला दाराश् शीलवृत्तफलं श्रुतम्
वैशम्पायनः-
एतदाख्याय स मुनिर् नारदस्स महातपाः
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम्
नारदः-
कच्चिदभ्यागता दूराद् वणिजो लाभकारणात्
यथोक्तमेव हार्यन्ते शुल्कं शुल्कोपजीविभिः
कच्चित् ते पुरुषा राजन् पुरे राष्ट्रे च पालिताः
उत्पादयन्ति पुण्यानि उपाधाभिरवञ्चिताः
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः
नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम्
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च
नियुक्ताः कुश्लास्तेषु विभागज्ञाः कुलोचिताः
धर्मार्थं च द्विजातिभ्यो दीयेते मधुसर्पिषी
द्रव्योपकरणं किञ्चित् सर्वदा सर्वशिल्पिनाम्
चातुर्मास्यादधिकृते नियतं सम्प्रयच्छसि
कच्चित् कृतं च जानीषे कर्तारं च प्रशंससि
सतां मध्ये महाराज सत्करोषि च पूजयन्
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभि भो
कच्चिदभ्यस्यते शश्वद् गृहे ते भरतर्षभ
धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम्
कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ
विषयोगाश्च ते सर्वे विदिताश्शत्रुनाशनाः
कच्चिदग्निभयाच्चैव मृगव्यालभयात् तथा
रोगरक्षोभयाच्चापि स्वराष्ट्रं परिरक्षसि
कच्चिदन्धांश्च मूकांश्च पङ्गून् व्यङ्गांश्च मानवान्
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि
वैशम्पायनः-
एवं कुरूणामृषभो महात्मा श्रुत्वा वचो ब्राह्मविदुत्तमस्य
प्रणम्य पादावभिवाद्य हृष्टो राजाऽब्रवीन्नारदं देवरूपम्
एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा
उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च
नारदः-
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे
स विहृत्यैव सुसुखी शुक्रस्यैति सलोकताम्