वैशम्पायनः-
एतस्मिन्नन्तरे राजन्मयो दैत्याधिपस्तथा
विधिवत् कल्पयामास सभां धर्मसुताय वै
अथाब्रवीन्मयः पार्थम् अर्जुनं जयतां वरम्
मयः-
आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम्
विश्रुतां त्रिषु लोकेषु पार्थ दिव्यां सभां तव
प्राणिनां विस्मयकरीं तव प्रीतिविवर्धिनीम्
पाण्डवानां च सर्वेषां करिष्यामि धनञ्जय
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति
यक्षमाणेषु सर्वेषु दानवेषु तदा मया
कृतं मणिमयं भाण्डं हैमं बिन्दुसरः प्रति
सभायां दानवेन्द्रस्य यदासीद्वृषपर्वणः
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत
ततस्सभां करिष्यामि पाण्डवाय महात्मने
मनः प्रह्लादजननीं सर्वरत्नविभूषिताम्
अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह
निहिता यौवनाश्वेन राज्ञा हत्वा रिपून् रणे
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा रणे
सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा
वारुणश्च महाशङ्खो देवदत्तस्सुघोषवान्
सर्वमेतत् प्रदास्यामि पाण्डवाय महात्मने
वैशम्पायनः-
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम्
अभ्युत्तरेण कैलासं मैनाकं पर्वतं प्रति
हिरण्यशृङ्गो नगराण् महामणिमयो गिरिः
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
द्रष्ट्वा भागीरथीं गङ्गाम् उवास बहुलास्समाः
यत्र वै सर्वभूतानाम् ईश्वरेण महात्मना
आहृताः क्रतवो मुख्यास् सहस्राणि शतानि च
यत्र यूपा मणिमया चैत्याश्चैव हिरण्मयाः
शोभार्थं विहितास्तत्र न त्वदृष्टार्थतः कृताः
यत्रेष्ट्वा च गतस्सिद्धिं सहस्राक्षश्शचीपतिः
यत्र भूतपतिस्सृष्ट्वा सर्वाल्ँलोकान् सनातनः
उपास्यते तिग्मतेजाः धृतो भूतैस्सहस्रशः
नरनारायणौ ब्रह्मा यमस्स्थाणुश्च पञ्चमः
उपासते यत्र परं सहस्रयुगपर्यये
यत्रेष्टं वासुदेवेन यज्ञैर्वर्षसहस्रकैः
श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये
सुवर्णमालिनो यूपास् तस्य चित्राश्च भास्वराः
ददौ यत्र सहस्राणाम् अर्बुदानि जनार्दनः
तत्र गत्वा स जग्राह गदां शङ्खं च भारत
तस्माद्गिरेरुपादाय शिलास्सुरुचिराश्शुभाः
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः
किङ्करैस्सह रक्षोभिर् अगृह्णात् सर्वमेव तत्
तदाहृत्य तु तां चक्रे पार्थयाप्रतिमां सभाम्
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम्
गदां च भीमसेनाय प्रददौ प्रवरां तदा
देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम्
यस्य चैव निनादेन सर्वलोकाश्चकम्पिरे
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य च
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः
सर्वर्तुगुणसम्पन्नां दिव्यरूपामलङ्कृताम्
तर्पयित्वा द्विजश्रेष्ठान् पायसेन सहस्रशः
दशकिष्कुसहस्राणि समन्तादायताऽभवत्
प्रभा चाग्नेर्यथाऽर्कस्य सोमस्य च यथैव ह
भ्राजमाना तथा दिव्या सा चित्रा परमा बभौ
प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा
नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता
आयता विपुला श्लक्ष्णा विमला विगतक्लमा
उत्तमद्रव्यसम्पन्ना मणिप्राकारमालिनी
बहुरत्ना बहुधना सुकृता विश्वकर्मणा
त्रिदशानां सुधर्मा वा ब्रह्मणो वाऽपि तादृशी
आसीद्रूपेण सम्पन्ना यां चक्रेऽप्रतिमां मयः
तां स्म दिव्यां मयेनोक्ता रक्षन्ति च वहन्त्यधः
सभामष्टसहस्राणि किङ्करा नाम राक्षसाः
अन्तरिक्षचरा घोरा महाकाया महाबलाः
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः
वैडूर्यपत्रविततां मणिनालां शुभाम्बुजाम्
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्
पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च शोभिताम्
सुखतीर्थामकलुषां सर्वर्तुसलिलां शुभाम्
मारुतेनैव चोद्भूतैर् मुक्ताबिन्दुभिराचिताम्
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः
दृष्ट्वा न सम्प्रजानन्ति तेऽज्ञानात् प्रपतन्त्युत
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः
आसन् नानाविधा नीलाश् शीतच्छाया मनोरमाः
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः
हंसकारण्डवोपेताश् चक्रवाकोपकूजिताः
जलजानां च माल्यानां स्थलजानां च सर्वशः
मारुतो गन्धमादाय पाण्डवान् स्म निषेवते
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः
निर्मितां धर्मराजाय मयो राज्ञे न्यवेदयत्