वैशम्पायनः-
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः
गमनाय मतिं चक्रे पितुर्दर्शनलालसः
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः
अर्थ्यं तथ्यं हितं वाक्यं युक्तियुक्तमनुत्तमम्
उवाच भगवान् भद्रां सुभद्रां भद्रभाषिणीम्
तया स्वजनमानिन्या श्रावितो वचनानि च
सम्पूजितश्चाप्यसकृच् छिरसा चाभिवादितः
तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम्
ददर्शानन्तरं कृष्णो धौम्यं चापि जनार्दनः
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः
द्रौपदीं सान्त्वयित्वा च सुभद्रां परिदाय च
भ्रातनभ्यागमद्वीमान् पार्थेन सहितो वशी
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः
आमन्त्र्य च पृथां कृष्णां धौम्यं च पुरुषोत्तमः
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः
माल्यैरपि नमस्कारैर् गन्धैरुच्चावचैस्तथा
स कृत्वा सर्वकार्याणि प्रतस्थे पुष्करेक्षणः
उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद्विनिर्गतः
स्वस्ति वाच्यार्हतो विप्रान् दधिपुष्पफलाक्षतैः
वसु प्रदाय च ततः प्रदक्षिणमवर्तत
ततस्तु कृतमङ्गल्यो ब्राह्मणैर्वेदपारगैः
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्
गदाचक्रासिशार्ङ्गाद्यैर् आयुधैश्च समावृतम्
तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते
प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः
अपास्य चाशु यन्तारं दारुकं यन्तृसत्तमम्
अभीशून् प्रतिजग्राह स्वयं कुरुपतिस्तदा
उपारुह्यार्जुनश्चाऽपि चामरव्यजनं सितम्
रुक्मदण्डं बृहन्मूर्ध् निदुधावाभिप्रदक्षिणम्
तथैव भीमसेनोऽपि रथमारुह्य वीर्यवान्
छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्
वैडूर्यमणिदण्डं च चामीकरविभूषितम्
दधार तरसा भीमश् छत्रं तच्छार्ङ्गधन्वने
उपारुह्य रथं शीघ्रं चामरव्यजने सिते
नकुलस्सहदेवश्च धूयमानौ जनार्दनम्
स तथा भ्रातृभिस्सार्धं केशवः परवीरहा
अनुगम्यमानश्शुशुभे शिष्यैरिव गुरुः प्रियैः
अभिमन्युं च सौभद्रं वृद्धैः परिवृतस्तथा
रथमारोप्य निर्यातो धौम्यो ब्राह्मणपुङ्गवः
इन्द्रप्रस्थमतिक्रम्य क्रोशमात्रं महाद्युतिः
पार्थमामन्त्र्य गोविन्दः परिष्वज्य सहानुगम्
युधिष्ठरं पूजयित्वा भीमसेनं यमौ तथा
परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः
ततस्तैस्संविदं कृत्वा यथावन्मधुसूदनः
निवर्तयित्वा च तदा पाण्डवान् सपदानुगान्
स्वां पुरीं प्रययौ हृष्टः यथा पुरन्दर इवापरः
लोचनैरनुजग्मुस्ते तमादृष्टिपथात् पुनः
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्विताः
अतृप्तमनसामेव तेषां केशवदर्शने
क्षिप्रमन्तर्दधे शौरिश् चक्षुषां प्रियदर्शनः
अकामा इव पार्थाश्च गोविन्दगतमानसाः
निवृत्योपययुस्सर्वे स्वं पुरं भरतर्षभाः
निवृत्तो धर्मराजस्तु सह भ्रातृभिरच्युतः
सुहृज्जनवृतो राजा प्रविवेश पुरोत्तमम्
विसृज्य सर्वान् सुहृदो भ्रातॄन् पुत्रांश्च धर्मराट्
मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप
स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात्
केशवोऽपि मुदा युक्तः प्रविवेश पुरोत्तमम्
दारुकेण च सूतेन सहितो देवकीसुतः
पूज्यमानो यदुश्रेष्ठैर् उग्रसेनोद्धवादिभिः
आहुकं पितरं वृद्धं मातरं च यशस्विनीम्
अभिवाद्य बलं चैव स्थितः कमललोचनः
प्रद्युम्नसाम्बनिशठांश् चारुदेष्णं गदं तथा
अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः
स वृद्धैरभ्यनुज्ञातो रुक्मिण्या भवनं ययौ
स तत्र भवने दिव्ये प्रमुमोद सुखी सुखम्