जनमेजयः-
वैशम्पायनः-
अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा
किं चकार महातेजास् तन्मे ब्रूहि द्विजोत्तम
शृणु राजन्नवहितश् चरितं पूर्वकस्य ते
मोक्षयित्वा मयं तत्र पार्थश्शस्त्रभृतां वरः
गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ
दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि
रथध्वजपताकाश्च श्वेताश्वैस्सह वीर्यवान्
एतानि पावकात् प्राप्य मुदा परमया युतः
तस्थौ पार्थो महावीर्यस् तदा सह मयेन सः
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ
पाण्डवेन परित्रातस् तत्कृतं प्रत्यनुस्मरन्
प्राञ्जलिश्श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः
मयः-
अस्माच्च कृष्णात् सङ्क्रुद्धात् पावकाच्च दिधक्षतः
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते
अहं हि विश्वकर्मा वै असुराणां परन्तप
तस्मात्ते विस्मयं किञ्चित् कुर्यामन्यैस्सुदुष्करम्
वैशम्पायनः-
एवमुक्तो महावीर्यः पार्थो मायाविनं मयम्
ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन् वाक्यमब्रवीत्
अर्जुनः-
कृतमेतत् त्वया सर्वं स्वस्ति गच्छ महासुर
प्रीतिमान् भव नो नित्यं प्रीतिमन्तो वयं च ते
प्राप्तोकारादर्थं हि नाहरामीति मे व्रतम्
मयः-
ऋतमेतत् त्वयि वचो यदात्थ पुरुषर्षभ
प्रीतिपूर्वमहं किञ्चित् कर्तुमिच्छामि तेऽर्जुन
अहं हि विश्वकर्मा वै दानवानां महाकविः
सोऽहं वै त्वत्कृते किञ्चित् कर्तुमिच्छामि पाण्डव
दानवानां पुरा पार्थ प्रासादा हि मया कृताः
रम्याणि सुखदर्शानि भोगार्थानि सहस्रशः
उद्यानानि च रम्याणि सरांसि विविधानि च
विचित्राणि च वस्त्राणि रथाः कामगमास्तथा
नगराणि विशालानि साट्टप्राकारवन्ति च
वाहनानि च मुख्यानि विचित्राणि सहस्रशः
बिलानि रमणीयानि सुखयुक्तानि वै भृशम्
एतत् कृतं मया सर्वं तस्मादिच्छामि फल्गुन
अर्जुनः-
प्राणकृच्छ्राद्विनिर्मुक्तम् आत्मानं मन्यसे मया
एवं गते न शक्ष्यामि किञ्चित् कारयितुं त्वया
न चापि तव सङ्कल्पं मोघमिच्छामि दानव
कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि
मयः-
वासुदेव मया कर्तुं किमिच्छसि शुभानन
वैशम्पायनः-
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ
मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति
चोदयामास तं कृष्णस् सभा वै क्रियतामिति
श्रीभगवान्-
धर्मराजस्य दयितां यादृशीमिह मन्यसे
यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः
मनुष्यलोके कृत्स्नेऽस्मिंस् तादृशीं कुरु वै सभाम्
यत्र द्विव्यानभिप्रायान् पश्येम विहितांस्त्वया
आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम्
सर्वर्तुगुणसम्पन्नां दिव्यरूपामलङ्कृताम्
वैशम्पायनः-
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा
विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे
सर्वमेत् तथाऽऽवेद्य दर्शयामासतुर्मयम्
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत् तदा
आसनं कल्पयामास पूजयामास च प्रभुः
स च तां प्रतिजग्राह मयस्सत्कृत्य सत्क्रियाम्
ततस्तु सत्कृतस्तेन कथयामास भारत
स पूर्वदेवचरितं तदा तत्र विशाम्पते
कथयामास दैतेयः पाण्डुपुत्रेषु भारत
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य च
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्
अभिप्रायेण पार्थस्य कृष्णस्य च महात्मनः
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः
तर्पयित्वा द्विजश्रेष्ठान् पायसेन सहस्रशः
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्
दशकिष्कुसहस्राणि मापयामास सर्वशः