वैशम्पायनः
मन्दपालोऽपि कौरव्य चिन्तयानस्सुतान्सदा ।
उक्तवानप्यशीतांशुं स नैव स्म न तप्यते ।
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् ॥
मन्दपालः
कथं नु शक्ताः पतने लपिते मम पुत्रकाः ।
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति ॥
असमर्था विमोक्षाय भविष्यन्ति ममाऽऽत्मजाः ॥
कथं नु शक्ता त्राणाय माता तेषां तपस्विनी ।
भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥
कथं सञ्चरणेऽशक्तान् पतने च ममाऽऽत्मजान् ।
सन्तप्यमाना भीता वा गमनायाभिधावती ॥
जरितारिः कथं पुत्रश्शारिसृक्वः कथं च मे ।
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥
वैशम्पायनः
लालप्यमानं तमृषिं मन्दपालं तथा वने ।
लपिता प्रत्युवाचेदं सासूयमिव भारत ॥
लपिता
न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि ।
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥
दावाग्नेः परिदत्ताश्च त्वया हि मम सन्निधौ ।
प्रतिश्रुतं तथा तेन ज्वलनेन महात्मना ॥
लोकपालोऽनृतां वाचं न च वक्ता कथञ्चन ।
समर्थस्त्वं च वक्ता वै न हि ते स्वस्ति मानसम् ॥
तामेव तु ममामित्रां चिन्तयन्परितप्यसे ।
ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराऽभवत् ॥
न हि पक्षवता भाव्यं निस्स्नेहेन सुहृज्जने ।
पीड्यमान उपस्प्रष्टुं शक्यो नाऽऽत्मा कथञ्चन ॥
गच्छ त्वं जरितामेव यस्यार्थे परितप्यसे ।
चरिष्याम्यद्य चैवैका यथा कापुरुषे रता ॥
मन्दपालः
नाहमेवं चरे लोके यथा त्वमभिमन्यसे ।
अपत्यहेतोर्विचरे तच्च कृच्छ्रतरं मम ॥
भूतं हित्वा भविष्यं वै यो रमेत स मन्दधीः ।
अवमत्य तथा लोकान् यथेच्छसि तथा कुरु ॥
एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् ।
द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ॥
वैशम्पायनः
तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः ।
जगाम पुत्रकानेव जरिता पुत्रगृद्धिनी ॥
सुतान्कुशलिनः सर्वान् विमुक्ताञ्जातवेदसः ।
रोरूयमाणान्कृपणान् सुतान् दृष्टवती वने ॥
न श्रद्धेयं ततस्तेषां दर्शनं सा पुनः पुनः ।
एकैकशश्च पुत्रांस्तान्क्रोशमानाऽन्वपद्यत ।
जरिता तु परिष्वज्य पुत्रस्नेहाच्चुचुम्ब ह ॥
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत ।
अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥
गुरुत्वान्मन्दपालस्य तपसश्च विशेषतः ।
अभिवादयामहे सर्वे जातपक्षाः प्रसादतः ॥
एवमुक्तवतां तेषां प्रतिनन्द्य महातपाः ।
परिष्वज्य च तान्सर्वान् मूर्ध्न्युपाघ्राय बालकान् ॥
पुत्रस्पर्शात्तु या प्रीतिस्तामवाप स गौतमः ॥
लालप्यमानमेकैकं जरितां च पुनः पुनः ।
उच्यते वचनं किञ्चिन्न स्म तैस्साध्वसाधु वा ॥
मन्दपालः
ज्येष्ठस्सुतस्ते कतमस्तदनुज्येष्ठ एव च ।
मध्यमः कतमः पुत्रः कनीयान्कतमश्च ते ॥
वैशम्पायनः
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे ।
कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ।
एवं जरां तु तां पत्नीं मन्दपालस्तदाऽस्पृशत् ॥
जरिता
किं नु ज्येष्ठसुते कार्यं किमनन्तरजेन वा ।
किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥
यत्र मां सर्वतो हीनामुत्सृज्यासि गतः पुरा ।
तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥
मन्दपालः
न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् ।
सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥
सुव्रता चापि कल्याणी सर्वलोकपरिश्रुता ।
अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ॥
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् ।
सप्तर्षिमध्यगं विप्रमवमेने च तं मुनिम् ॥
अपध्याता च सा तेन ततो धूम्रारुणाकृतिः ।
लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव पश्यति ॥
अपत्यहेतोस्सम्प्राप्तं तथा त्वमपि मामिह ।
इष्टमेवं गतं हित्वा सा तथैव च वर्तसे ॥
न वै भार्येति विश्वासः कार्यः पुंसा कथञ्चन ।
न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥
वैशम्पायनः
ततस्ते सर्व एवैनं पुत्रास्सम्यगुपासते ।
स च तानात्मजान् राजन्नाश्वासयितुमारभत् ॥
मन्दपालः
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया ।
अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ॥
अग्नेर्वचनमादाय मातुर्धर्मज्ञतां च वः ।
युष्माकं च परं वीर्यं पूर्वं नाहमिहागतः ॥
न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति ।
ऋषीन्वेद हुताशोऽपि ब्रह्मैतद्विदितं च वः ॥
वैशम्पायनः
एवमाश्वास्य पुत्रांश्च भार्यामादाय भारत ।
मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥
भगवानापि तिग्मांशुस्समिद्धः खाण्डवं वनम् ।
ददाह परमप्रीतः कृष्णाभ्यां परिरक्षितः ॥
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः ।
अगच्छत् परमां तृप्तिं दर्शयामास चार्जुनम् ॥
ततोऽन्तरिक्षाद्भगवानवतीर्य शतक्रतुः ।
मरुत्परिवृतः पार्थं माधवं चाब्रवीदिदम् ॥
इन्द्रः
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् ।
वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ॥
वैशम्पायनः
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः ।
प्रदातुं तच्च शक्रस्तु ददौ कालं च कर्म च ॥
इन्द्रः
यदा प्रसन्नो भगवान्महादेवो भविष्यति ।
तदा तुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन ।
तपसा महता चापि तव दास्यामि तानहम् ॥
आग्नेयानि च सर्वाणि वायव्यानि धनञ्जय ।
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥
वैशम्पायनः
वासुदेवोऽपि पार्थेन प्रीतिं वव्रे च शाश्वतीम् ।
ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ॥
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् ।
अहोभिरेकविंशद्भिर्विरराम सुतर्पितः ॥
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च ।
युक्तः परमया प्रीत्या तावुवाच विशाम्पते ॥
अग्निः
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् ।
अनुजानामि वां वीरौ भविता यत्र वाञ्छितम् ॥
एवं तौ समनुज्ञातौ पावकेन महात्मना ।
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥
परिक्रम्य ततस्सर्वे त्रयोऽपि भरतर्षभ ।
रमणीये नदीकूले सहितास्समुपाविशन् ॥