जरिता
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम् ।
क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ॥
शार्ङ्गकाः
नापाहृतं वयं विद्मश्श्येनेनाखुं कथञ्चन ।
अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ॥
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम् ।
मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयः ॥
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते ।
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान् ॥
जरिता
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् ।
सञ्चरन्तं समादाय जहाराखुं बिलाद्बली ॥
तं पतन्तमहं श्येनं त्वरिता पृष्ठमन्वगाम् ।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात् ॥
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि ।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥
स यदा भक्षितस्तेन क्षुधितेन पतत्रिणा ।
तदाऽहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम् ॥
प्रविशध्वं बिलं पुत्रा विस्रब्धा नास्ति वो भयम् ।
श्येनेन मम पश्यन्त्या हृत आखुरसंशयम् ॥
शार्ङ्गकाः
न विद्महे वयं मातर्हृतमाखुमितः पुरा ।
अविज्ञाय न शक्ष्यामः प्रवेष्टं विवरं भुवः ॥
जरिता
अहं तमभिजानामि हृतं श्येनेन मूषिकम् ।
अत एव भयं नास्ति क्रियतां वचनं मम ॥
शार्ङ्गकाः
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः ।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् ।
पीड्यमाना स्मरस्यास्मान्का सती के वयं तव ॥
तरुणी दर्शनीयाऽसि समर्था भर्तुरेषणे ।
अनुगच्छस्व भर्तारं पुत्राँल्लप्स्यसि शोभने ॥
वयमग्निं समाविश्य लोकान्प्राप्स्यामहे शुभे ।
अथास्मान्न दहेदग्निरम्बाऽभूः पुनरेव नः ॥
वैशम्पायनः
एवमुक्ता ततश्शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे ।
जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ॥
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः ।
यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ॥
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः ।
व्यथिताः करुणा वाचश्श्रावयामासुरन्तिकात् ।
जरितारिस्ततो वाक्यं श्रावयामास पावकम् ॥
जरितारिः
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः ।
स कृच्छ्रकालं सम्प्रेक्ष्य व्यथां नैवैति कर्हिचित् ॥
यस्तु कृच्छ्रमसम्प्राप्तं विनावबुध्यते ।
स कृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत् ॥
शारिसृक्वः
वीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः ।
नमस्तेऽस्तु बहूनां हि भवत्येको गुणाधिकः ॥
स्तम्बमित्रः
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ।
ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ॥
द्रोणः
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् ।
सप्तजिह्वोऽनलः क्रूरो लेलिहानो विसर्पति ॥
वैशम्पायनः
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् ।
तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ॥
जरितारिः
आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम् ।
योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ॥
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च शाश्वताः ।
अर्चिषस्ते महावीर्य रश्मयस्सवितुर्यथा ॥
शारिसृक्वः
माता प्रपन्ना पितरं न विद्मः पक्षा जाता नै नो धूमकेतो ।
न नस्त्राता विद्यते वै त्वदन्यस्तस्मादस्मान् परिपाह्येकवीर ॥
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः ।
तेन नः परिरक्षेथाः पीडिताञ्छरणैषिणः ॥
त्वमेवैकस्तपसे जप्तवेदो नान्यस्तप्ता विद्यते गोषु देव ।
ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रेहि वै हव्यवाह ॥
स्तम्बमित्रः
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥
द्रोणः
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमा गतिः ।
मनीषिणस्त्वां यजन्ते बहुधा चैकधाऽपि च ॥
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह काले प्राप्ते पचसि पुनस्समिद्धः ।
त्वं सर्वस्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥
त्वमन्नं प्राणिनां भुङ्क्षे अन्तर्भूतो जगत्पते ।
नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥
सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान् रसांश्च ।
विश्वं चादाय पुनरुत्सृज्य काले सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥
त्वत्त एताः पुनश्शुक्र वीरुधो हरितच्छदाः ।
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः ॥
शोभनं सद्म तिग्मांशो वरुणस्य परायणम् ।
शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय ॥
पिङ्गलाक्ष हयग्रीव कृष्णवर्त्मन्हुताशन ।
परेण प्रेहि मुञ्चास्मान् सागरस्य गृहानिव ॥
वैशम्पायनः
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा ।
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥
अग्निः
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया ।
ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ॥
मन्दपालेन वै यूयं मम पूर्वं निवेदिताः ।
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥
तस्य तद्वचनं तस्य त्वया यच्चेह भाषितम् ।
उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते ॥
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन् स्तोत्रेण ते विभो ॥
द्रोणः
इमे मार्जारकाश्शुक्र नित्यमुद्वेजयन्ति नः ।
एतान्कुरुष्व दंष्ट्रासु हव्यवाट् त्वं सबान्धवान् ॥
वैशम्पायनः
तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान् ।
ददाह खाण्डवं सर्वं समिद्धो जनमेजय ॥