वैशम्पायनः
तथा शैलनिपातेन धर्षिताः खाण्डवालयाः ।
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥
द्विपाः प्रभिन्नाश्शार्दूलाः सिंहाः केसरिणस्तथा ।
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा ॥
समुद्विग्ना विससृपुस्तथाऽन्या भूतजातयः ॥
तं दावं समुदैक्षन्त कृष्णं चाभ्युद्यतायुधम् ।
उत्पातितेन शब्देन त्रासिता इव चाभवन् ॥
स्वतेजोभास्वरं चक्रमुत्ससर्जातिवेगवत् ।
तेनार्ता जातयः क्षुद्रास्सदानवनिशाचराः ॥
निकृत्ताश्शतशस्सर्वा निपेतुरनले क्षणात् ॥
न्यपतन् राक्षसास्तत्र कृष्णचक्रविदारिताः ।
वसारुधिरसम्पृक्तास्सन्ध्यायामिव तोयदाः ॥
पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः ।
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥
क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामिततेजसः ।
हत्वाऽनेकानि सत्वानि पाणिमेति पुनः पुनः ॥
तथा तु निघ्नतस्तस्य सर्वभूतानि भारत ।
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥
समेतानां च देवानां दानवानां च सर्वशः ।
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ॥
तयोर्बलात्परित्रातुं तं च दावं यदा सुराः ।
ना शक्नुवञ्छमयितुं तदाऽभूवन्पराङ्मुखाः ॥
शतक्रतुस्तु सम्प्रेक्ष्य विमुखान्देवतागणान् ।
बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥
विनिवृत्तेषु देवेषु वागुवाचाशरीरिणी ।
शतक्रतुमभिप्रेक्ष्य तदा गम्भीरनिस्स्वना ॥
आकाशवाणी
न ते सखा सन्निहितस्तक्षको पन्नगोत्तमः ।
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन् समवस्थितैः ।
वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ।
नरनारायणावेतौ तावेतौ लोकभावनौ ॥
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥
नैतौ शक्यौ दुराधर्षौ विजेतुममरैरपि ।
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥
पूजनीयतमावेतावपि सर्वैस्सुरासुरैः ।
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः ॥
तस्मादितस्सुरैस्सार्धं गन्तुमर्हसि वासव ।
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥
वैशम्पायनः
इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः ।
क्रोधामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ॥
सम्प्रस्थितं महात्मानं सर्व एव दिवौकसः ।
त्वरितास्सहिता राजन्ननुजग्मुश्शतक्रतुम् ॥
देवराजं तदा यान्तं सह देवैरवेक्ष्य तु ।
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ ।
निर्विशङ्कौ पुनर्दावं दाहयामासतुस्तदा ॥
स मारुत इवाभ्राणि नाशयित्वाऽर्जुनस्सुरान् ।
व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ॥
न च स्म किञ्चिच्छक्तोऽभूत् भूतं निश्चरितुं ततः ।
सञ्छाद्यमानमिषुभिरस्यता सव्यसाचिना ॥
नाशकंश्चापि भूतानि महान्त्यपि रणेऽर्जुनम् ।
निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ॥
शतेनैकं च विव्याध शतं चैकेन पत्रिणा ।
व्यसवस्ते पतन्त्यग्नौ साक्षात्कालहता इव ॥
न चालभन्त ते शर्म रोधस्सु विषमेषु च ।
पितृदेवनिवासेषु सन्तापश्चोपजायते ॥
भूतसङ्घसहसस्राणि दीनाश्चक्रुर्महास्वनम् ।
रुरवो वारणाश्चैव तथैव मृगपक्षिणः ॥
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ।
अप्सु न व्यचरंश्चैव तथाऽन्ये मृगपक्षिणः ॥
न त्वर्जुनं महाबाहो नापि कृष्णं जगत्पतिम् ।
निरीक्षितुं च शक्नोति कश्चिद्योद्धुं कुतः पुनः ॥
एकायनगता येऽपि न्यविशंस्तत्र केचन ।
राक्षसान् दानवान् नागाञ्जघ्ने चक्रेण तान्हरिः ॥
ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः ।
पेतुरास्ये महाकायाः दीप्तस्य वसुरेतसः ।
समांसरुधिरौघैश्च मेदौघैश्च समीरिताः ॥
उपर्याकाशगो वह्निर्विधूम इव दृश्यते ।
दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः ॥
दीप्तोर्ध्वकेशः पिङ्गाक्षो विष्वक्प्राणभृतां वरः ॥
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः ।
बभूव मुदितस्सद्यः परां निर्वृतिमागतः ॥
तथाऽसुरं मयं नाम तक्षकस्य निवेशनात् ।
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ॥
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः ।
देहवान् वै जटी भूत्वा नदन् स्म जलदो यथा ।
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य विष्ठितः ॥
स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् ।
अभिधायार्जुनेत्येवं मयश्चुक्रोश पाण्डवम् ॥
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः ।
प्रत्युवाच मयं पार्थो जीवयन्निव भारत ॥
यं न भेतव्यमित्याह मयं पार्थो दयापरः ॥
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् ।
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥
तद्वनं पावको धीमान्दिनानि दश पञ्च च ।
ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात् ॥
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च ।
अश्वसेनं मयं चैव चतुरश्शार्ङ्गकांस्तथा ॥
जनमेजयः
किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते ।
तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे ॥
नागस्याप्यश्वसेनस्य दानवस्य मयस्य च ।
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकाणां न कीर्तितम् ॥
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गकाणामनाशनम् ।
कीर्तयस्वाग्निसम्मर्दे कथं ते न विनाशिताः ॥
वैशम्पायनः
यदर्थं शार्ङ्गकानग्निर्न ददाह तथा गते ।
तत्ते सम्यग्यथावृत्तं कीर्तयिष्यामि भारत ॥
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः ।
आसीन्महर्षिश्श्रुतवान्मन्दपाल इति श्रुतः ॥
मार्गं समास्थितो राजन्नृषीणामूर्ध्वरेतसाम् ।
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥
स गत्वा तपसः पारं देहमुत्सृज्य भारत ।
जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि ।
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥
मन्दपालः
किमर्थमावृता लोका मयेह तपसाऽर्जिताः ।
किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम् ॥
देवाः
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् ।
फलमेतस्य तपसः कथयध्वं दिवौकसः ।
ऋणिनो मानवा ब्रह्मन् सर्वे जायन्ति तच्छृणु ॥
ब्रह्मचर्येण यज्ञेन प्रजया च न संशयः ।
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः ॥
तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा ।
त इमे प्रसवस्यार्थे तव लोकास्समावृताः ।
प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ॥
पुन्नाम्नो नरकात्पुत्रस्त्रायते हि पुरा मतम् ।
तस्मादपत्यं सन्ताने यतस्व ब्रह्मसत्तम ॥
वैशम्पायनः
स एवमुक्तो धर्मात्मा मन्दपालो महानृषिः ।
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥
स चिन्तयन्नभ्यगच्छत्प्रबलप्रसवान्खगान् ।
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥
स तस्यां जनयामास चतुरश्शार्ङ्गकानृषीन् ।
तानपास्य च तत्रैव जगाम लपितां प्रति ।
बालान्स तानण्डगतान्सह मात्रा मुनिर्वने ॥
तस्मिन्गते महाभागे लपितां प्रति भारत ।
अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ॥
तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने ।
नाजहात् पुत्रकानार्तान् जरिता खाण्डवे नृप ॥
बभार चैतान्सञ्जातान्स्वप्रीत्या स्नेहवद्द्विज ॥
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः ।
मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥
तं सङ्कल्पं विदित्वाऽग्नेर्ज्ञात्वा बालांश्च पुत्रकान् ।
महर्षिर्मन्दपालोऽसौ वह्निं स्तोतुं प्रचक्रमे ॥
सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ।
पुत्रान् प्रति वदन् भीतो लोकपालं महौजसम् ॥
मन्दपालः
त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट् ।
त्वमन्तस्सर्वभूतानां गूढश्चरसि पावक ॥
त्वामेकमाहुर्मुनयस्त्वामेवाऽऽहुस्त्रिधा पुनः ।
त्वामष्टधा कल्पयित्वा यज्ञवाटमकल्पयन् ।
त्वया सृष्टमिदं सर्वं वदन्ति परमर्षयः ॥
त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन ॥
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविहितां गतिम् ।
गच्छन्ति सह पत्नीभिस्सुतैरपि च शाश्वतीम् ॥
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः ।
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते ।
तवैव कर्म विहितं भूतं सर्वं चराचरम् ॥
त्वयाऽऽपो विहिताः पूर्वं त्वयि सर्वमिदं जगत् ।
त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ॥
त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः ।
त्वमश्विनौ यमौ मित्रस्सोमस्त्वमसि चानिलः ॥
वैशम्पायनः
एवं स्तुतस्तदा तेन मन्दपालेन पावकः ।
तुतोष तस्य नृपते मुनेरमिततेजसः ।
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् ।
सन्दहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः ।
खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ॥
वैशम्पायनः
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः ।
बभूवुः परमोद्विग्ना नागच्छन्त परायणम् ॥
निशम्य पुत्रकान्बालान्माता तेषां तपस्विनी ।
जरिता पुत्रशोकार्ता विललाप सुदुःखिता ॥
जरिता
अयमग्निर्दहन्कक्षमित आयाति भीषणः ।
जगत्सन्दीपयन्भीमो मम दुःखविवर्धनः ॥
इमे च मां कर्षयन्तीह शिशवो मन्दचेतसः ।
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः ॥
त्रासयंश्चायमायाति लेलिहानो महीरुहान् ।
अशक्तिमत्वाच्च सुता न शक्तास्सरणे मम ॥
आदाय तानशक्ताऽस्मि पुत्रांस्तरितुमन्ततः ।
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे ॥
कं तु त्यजाम्यहं पुत्रं कमादाय व्रजाम्यहम् ।
किं नु मे स्यात् कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् ॥
चिन्तयानाऽपि मोक्षं वै नाधिगच्छामि किञ्चन ।
छादयित्वा हि वो गात्रैः करिष्ये मरणं सह ॥
जरितारौ कुलं ह्येतज्ज्येष्ठे त्वेवं प्रतिष्ठितम् ।
शारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः ॥
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः ॥
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ।
सहैव चरितुं बालैर्न शक्नोमि तपोवनात् ।
कमुपादाय शक्येयं गन्तुं कष्टाऽऽपदुत्तमा ॥
वैशम्पायनः
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ।
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदाऽनलात् ॥
शार्ङ्गकाः
एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुश्च स्वमातरम् ।
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् ॥
अस्मास्विह विनष्टेषु भवितारस्सुतास्तव ।
त्वयि मातर्विनष्टायां न नस्स्यात्कुलसन्ततिः ॥
अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः ।
तद्वै कर्तुं परं कामो मातरेष भवेत्तव ॥
मा वै कुलविनाशाय स्नेहं कार्षीस्सुतेषु ते ।
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥
जरिता
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः ।
तदाविशध्वं त्वरिता वह्नेरत्र न नो भयम् ॥
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः ।
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥
तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुसञ्चयम् ।
रोचतामेष वो योगो विमोक्षाय हुताशनात् ॥
शार्ङ्गकाः
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् ।
पश्य मातर्भयमिदं न शक्ष्याम निषेवितुम् ॥
कथमग्निर्न नो हन्यात्कथमाखुर्न भक्षयेत् ।
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥
बिल आखोर्विनाशस्स्यादग्नेराकाशचारिणाम् ।
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥
गर्हितं मरणं नस्स्यादाखुना न तदा बिले ।
शिष्टदृष्टः परित्यागश्शरीरस्य हुताशने ॥
अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः ॥