वैशम्पायनः
तौ रथाभ्यां सुयुक्ताभ्यां दावस्योभयतस्स्थितौ ।
दिक्षु सर्वासु भूतानां चक्राते कदनं तदा ॥
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः ।
पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥
छिद्रं न स्म प्रपश्यन्ति रथयोराशुविक्रमात् ।
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमे ॥
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः ।
उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥
दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे ।
स्फुटिताक्षा विशीर्णाश्च विप्लुताक्षा विचेतसः ॥
समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄंस्तथाऽपरे ।
त्यक्तुं न शेकुस्स्नेहेन तत्रैव निधनं गताः ॥
विकृतैर्दशनैरन्ये खमुत्पेतुस्सहस्रशः ।
तत्र तत्र विधून्वन्तः पुनरग्नौ प्रपेदिरे ॥
दग्धपक्षाक्षिचरणा विवेष्टन्तो महीतले ।
तत्र तत्र प्रदृश्यन्ते विनश्यन्तश्शरीरिणः ॥
जलस्थानेषु तप्तेषु क्वाथ्यमानेषु वह्निना ।
गतसत्वास्स्म दृश्यन्ते कूर्ममत्स्यास्सहस्रशः ॥
शरीरैस्सम्प्रदीप्तैश्च देहवन्त इवाग्नयः ।
अदृश्यन्त वने तत्र प्राणिनः प्राणिसङ्क्षये ॥
तांस्तथोत्पततः पार्थश्शरैः सञ्छिद्य खण्डशः ।
दीप्यमाने ततः प्रास्यत् प्रहसन् कृष्णवर्त्मनि ॥
ते शराचितसर्वाङ्गा निनदन्तो महारवान् ।
ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥
शरैरभ्याहतानां च दह्यतां च वनौकसाम् ।
विरावश्श्रूयते हि स्म समुद्रस्येव मथ्यतः ॥
वह्नेश्चापि प्रवृद्धस्य समुत्पेतुर्महार्चिषः ।
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥
ततो जग्मुर्महात्मानस्सर्व एव दिवौकसः ।
शरणं देवराजं तं सहस्राक्षं पुरन्दरम् ॥
देवाः
किमिदं मानवास्सर्वे दह्यन्ते कृष्णवर्त्मना ।
कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ॥
वैशम्पायन उवाच ।
तच्छ्रुत्वा वृत्रहा तेभ्यस्स्वयमेवान्ववेक्ष्य च ।
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥
महता मेघजालेन नानारूपेण वज्रभृत् ।
आकाशं तमसाऽऽस्तीर्य प्रववर्ष सुरेश्वरः ॥
ततोऽक्षमात्रा विसृजन्धाराश्शतसहस्रशः ।
अभ्यवर्षत् सहस्राक्षः पावकं खाण्डवं प्रति ॥
असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः ।
ख एव समशुष्यन्त न काश्चित्पावकं गताः ॥
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा ।
पुनरेवातिवर्षेण ववर्ष बलवृत्रहा ॥
सन्तताभिश्च धाराभिश्चण्डधूमसमाकुलम् ।
बभूव तद्वनं घोरं स्तनयित्नुसुघोषवत् ॥
तस्याभिवर्षतो धाराः खाण्डवं प्रत्यवारयत् ।
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥
शरैस्समन्ततस्सर्वं खाण्डवं चापि पाण्डवः ।
छादयामास तद्वर्षमपकृत्य ततो वनात् ॥
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः ।
सञ्छाद्यमाने गगने अस्यता सव्यसाचिना ॥
तक्षकस्तु न तत्रासीन्नागराजो महाबलः ।
दह्यमाने तु तस्मिंस्तु कुरुक्षेत्रे तदाऽभवत् ॥
अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली ।
स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥
न शशाक स निर्गन्तुं कौन्तेयशरपीडितः ।
मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते ।
ऊर्ध्वमभ्यगमत् सा तु पन्नगी पुत्रगृध्नुनी ॥
तस्यास्तीक्षेण भल्लेन पृथुधारेण पाण्डवः ।
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ॥
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् ।
मोहयामास तत्काले ह्यश्वसेनस्त्वमुच्यत ॥
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः ।
द्विधा त्रिधा च चिच्छेद खगतां भरतर्षभ ॥
शशाप तु ततः क्रुद्धो बीभत्सुर्जिह्मगामिनम् ।
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि ॥
ततो जिष्णुस्सहस्राक्षं खं वितत्येषुभिश्शतैः ।
योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ॥
देवराजोऽपि तं दृष्ट्वा संरब्धमिति फल्गुनम् ।
दिव्यास्त्रमसृजद्दीप्तं विततानाकुलं नभः ॥
ततो वायुर्महाघोरः क्षोभयामास सागरान् ।
वियत्स्थो जनयन्मेघाञ्जलधारामुचोऽतुलान् ॥
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमद्भुतम् ।
वायव्यमेवाभिमन्त्र्य अस्त्रं प्रति विशारदः ।
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् ॥
जलधाराश्च ताश्शोषं जग्मुर्नेशुश्च विद्युतः ।
क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः ॥
शुभशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः ।
प्रजज्वालाथ सोऽर्चिष्मान्स्वनादैः पूरयन्दिशः ॥
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः ।
समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा ।
प्रहर्तुकामास्सम्पेतुराकाशात्कृष्णपाण्डवौ ॥
तथैवोरगसङ्घाश्च पाण्डवस्य समीपतः ।
उत्सृजन्तो विषं घोरं विचेरुर्ज्वलिताननाः ॥
तांश्चकर्त शरैः पार्थस्सरोषान् दृश्य खेचरान् ।
विविशुश्चापि तं दीप्तं देहाभावाय पावकम् ॥
ततस्सुरास्सगन्धर्वा यक्षराक्षसपन्नगाः ।
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः ॥
अयःकणकचक्रासिमुसलोद्यतपाणयः ।
कृष्णपार्थौ जिघांसन्तः क्रोधसम्मूर्च्छितौजसः ॥
तेषामपि प्रहरतां शस्त्रवर्षं च मुञ्चताम् ।
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैश्शरैः ॥
कृष्णश्च सुमहातेजाश्चक्रेणारिविघातिना ।
दैत्यदानवसङ्घानां चकार कदनं महत् ॥
अपरे तु शरैर्विद्धाश्चक्रवेगेरितास्तथा ।
वेलामिव समासाद्य व्यवेष्टन्त महौजसः ॥
ततश्शक्रोऽतिसङ्क्रुद्धस्त्रिदशानां महेश्वरः ।
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत् ॥
अशनिं गृह्य तरसा वज्रं चोद्यम्य चाहवे ।
निघ्नतेति च तौ प्राह सुराञ्छत्रुनिषूदनः ॥
ततस्समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् ।
जगृहुस्सर्वशस्त्राणि स्वानि स्वानि ततस्तथा ॥
कालदण्डं यमो राजन् गदां चैव धनेश्वरः ।
पाशांश्च तत्र वरुणस्त्रिशूलं च तथा शिवः ॥
स्कन्दश्शक्तिं समादाय तस्थौ मेरुरिवाचलः ।
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि ॥
जगृहे च धनुर्धाता मुसलं तु जयस्तथा ।
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः ॥
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वथम् ।
प्रगृह्य परिघं घोरं विचचारार्यमाऽपि च ॥
मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यवस्थितः ।
पूषा भगश्च सङ्क्रुद्धस्सविता च विशाम्पते ॥
आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रवन् ।
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः ।
विश्वे देवास्तथा साध्या दीप्यमानास्स्वतेजसा ॥
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ ।
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ॥
तत्राद्भुतान्यदृश्यन्त निमित्तानि महावने ।
युगान्तसमरूपाणि भूतोत्पातानि भारत ॥
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैस्सहाच्युतौ ।
अभीतौ युधि दुर्धर्षौ तस्थतुस्सज्जकार्मुकौ ॥
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्तदा ।
वारयेतां सुसङ्क्रुद्धौ शरैर्वज्रोपमैस्तदा ॥
असकृद्भग्नसङ्कल्पास्सुराश्शरबहुक्षताः ।
भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ॥
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च ।
आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः ॥
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे ।
बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः ।
भूय एव तदा वीर्यं जिज्ञासुस्सव्यसाचिनः ॥
तच्छैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥
विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः ।
भूयस्संवर्धयामास तद्वर्षं देवराडपि ॥
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः ।
विलयं गमयामास हर्षयन्पितरं तथा ॥
समुत्क्षिप्य तु पाणिभ्यां मन्दराच्छिखरं महत् ।
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥
ततोऽर्जुनो वेगवद्भिर्ज्वलितानलसन्निभैः ।
बाणैर्विध्वंसयामास गिरेश्शृङ्गं सहस्रशः ॥
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ ।
सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥
तेन चापतता देशे शैलेन महता भृशम् ।
भूय एव ततस्तत्र प्राणिनां प्राणसंक्षयः ॥