वैशम्पायनः
विहारदेशं सम्प्राप्य नानाद्रुममनुत्तमम् ।
गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम् ॥
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः ।
माल्यैश्च विविधैर्युक्तं तथा वार्ष्णेयपाण्डवौ ॥
आविविशतुरापूर्णं रत्नैरुच्चावचैश्शुभैः ।
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः ।
यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ॥
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी ।
द्रौपदी च सुभद्रा च वासांस्याभरणानि च ॥
प्रायच्छतां महार्हाणि स्त्रीणां तास्स्म मदोत्कटाः ।
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथाऽपराः ॥
जहसुश्च परा नार्यः पपुश्चान्या वरासवम् ।
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् ॥
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ।
केचिन्माल्यानि चिन्वन्तीः केचिन्माल्यानि दध्रिरे ॥
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः ।
शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत् ॥
तस्मिंस्तदा वर्तमाने कुरुदाशार्हनन्दनौ ।
समीपं जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ॥
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ ।
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः ॥
तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च ।
बहूनि कथयित्वा तौ रेमाते जिष्णुमाधवौ ॥
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव ।
अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥
बृहत्सालप्रतीकाशः प्रतप्तकनकप्रभः ।
हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतस्समः ॥
तरुणादित्यसङ्काशश्चीरवासा जटाधरः ।
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ।
जगाम तौ कृष्णपार्थौ दिधक्षुः खाण्डवं वनम् ॥
उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम् ।
दृष्ट्वा जगाम मनसा पावकोऽयमिति प्रभुः ॥
अर्जनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् ।
लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ॥
ब्राह्मणः
ब्राह्मणो बहुभोक्ताऽस्मि भुञ्जेऽपरिमितं सदा ।
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छतम् ॥
वैशम्पायनः
एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ ।
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥
एवमुक्तस्स भगवानब्रवीत्तावुभौ ततः ।
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥
ब्राह्मणः
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् ।
यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ॥
इदमिन्द्रस्सदा दावं खाण्डवं परिरक्षति ।
न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥
वसत्यत्र सखा तस्य तक्षकः पन्नगस्सदा ।
सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥
तत्र भूतान्यनेकानि रक्ष्यन्तेऽस्य प्रसङ्गतः ।
तं निर्दग्धुं न शक्नोमि दावं शक्रस्य तेजसा ॥
स मां प्रज्वलितं दृष्ट्वा मेघैरद्भिः प्रवर्षति ।
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥
स युवाभ्यां सहायाभ्यामस्त्रविद्यां समागतः ।
दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥
युवां ह्युदकधारास्ता भूतानि च समन्ततः ।
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः ॥
जनमेजयः
किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति ।
रक्ष्यमाणं महेन्द्रेण नानासत्त्वसमायुतम् ॥
न ह्येतत्कारणं ब्रह्मन्नल्पं सम्प्रतिभाति मे ।
यद्ददाह सुसङ्क्रुद्धः खाण्डवं हव्यवाहनः ॥
एतद्विस्तरशो ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
खाण्डवस्य पुरा दाहो यथा समभवन्मुने ॥
वैशम्पायनः
हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम् ।
कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशनीम् ॥
पौराणश्श्रूयते तात राजा हरिहयोपमः ।
श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः ॥
यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन ।
ईंजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः ॥
तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप ।
सत्रे क्रियासमारम्भे दानेषु विविधेषु च ॥
तस्यैवं वर्तमानस्य कदाचित्कालपर्यये ।
सत्रमाहर्तुकामस्य संवत्सरशतं किल ।
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः ॥
स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः ॥
प्रणिपातेन सान्त्वेन दानेन च महायशाः ।
ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः ।
ते चास्य तमभिप्रायं न चक्रुरमितौजसः ॥
स चाश्रमस्थान्राजर्षिस्तानुवाच रुषाऽन्वितः ॥
यद्यहं पतितो विप्राश्शुश्रूषायां न च स्थितः ।
आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः ॥
तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमुत्तमाम् ।
अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः ॥
प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ ।
सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया ।
प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः ॥
अथवाऽहं परित्यक्तो भवद्भिर्द्वेषकारणात् ।
ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं द्विजोत्तमाः ॥
एतावदुक्त्वा वचनं विरराम स पार्थिवः ॥
यदा न शेकू राजानं याजनार्थं परन्तपाः ।
ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम् ॥
ऋत्विजः
तव कर्माण्यजस्रं वै वर्तन्ते पार्थिवोत्तम ।
ततो वयं परिश्रान्तास्सततं कर्मवाहिनः ।
श्रमादस्मात्परिश्रान्तांत्स त्वं नस्त्यक्तुमर्हसि ॥
बुद्धिमोहं समास्थाय त्वरासम्भावितोऽनघ ।
गच्छ रुद्रसकाशं त्वं स हि त्वां याजयिष्यति ॥
वैशम्पायनः
साधिक्षेपं वचश्श्रुत्वा सङ्क्रुद्धश्श्वेतकिर्नृपः ।
कैलासपर्वतं गत्वा तप उग्रं समास्थितः ॥
आराधयन्महादेवं नियतस्संशितव्रतः ।
उपवासपरो राजन्दीर्घकालमतिष्ठत ॥
कदाचिद्द्वादशे काले कदाचिदपि षोडशे ।
आहारमकरोद्राजा मूलानि च फलानि च ॥
ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः ।
षण्मासानभवद्राजा श्वेतकिस्सुसमाहितः ॥
तं तथा नृपशार्दूलं तप्यमानं महत्तपः ।
शङ्करः परमप्रीत्या दर्शयामास भारत ॥
शङ्करः
प्रीतोऽस्मि नरशार्दूल तपसा ते परन्तप ।
वरं वृष्णीष्व भद्रं ते यं त्वमिच्छसि पार्थिव ॥
वैशम्पायनः
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः ।
प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत ॥
श्वेतकिः
यदि मे भगवन्प्रीतस्सर्वलोकनमस्कृतः ।
स्वयं मां देवदेवेश याजयस्व सुरेश्वर ॥
वैशम्पायनः
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम् ।
उवाच भगवान्प्रीतस्स्मितपूर्वमिदं वचः ॥
रुद्रः
नास्माकमेतद्विषये वर्तते याजनं प्रति ।
त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना ॥
याजयिष्यामि राजंस्त्वां समयेन परन्तप ॥
समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः ।
सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम् ।
कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप ॥
वैशम्पायनः
एवमुक्तस्तु रुद्रेण श्वेतकिर्मनुजाधिपः ।
तथा चकार तत्सर्वं यथोक्तं शूलपाणिना ॥
पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरम् ॥
दृष्टैव स च राजानं शङ्करो लोकभावनः ।
उवाच परमप्रीतश्श्वेतकिं नृपसत्तमम् ॥
रुद्रः
तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा ।
याजनं ब्राह्मणानां तु विधिदृष्टं परन्तप ।
अतोऽहं त्वां स्वयं नाद्य याजयामि परन्तप ॥
ममांशस्तु क्षितितले महाभागो द्विजोत्तम ।
दुर्वासा इति विख्यातस्स हि त्वां याजयिष्यति ॥
मन्नियोगान्महातेजास्सम्भारास्सम्भ्रियन्तु ते ॥
वैशम्पायनः
एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम् ।
स्वपुरं पुनरागम्य सम्भारान्पुनरार्जयत् ।
ततस्सम्भृतसम्भारो भूयो रुद्रमुपागमत् ॥
सम्भृता मम सम्भाराः सर्वोपकरणानि च ।
त्वत्प्रसादान्महादेव श्वो मे दीक्षा भवेदिति ॥
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः ।
दुर्वाससं समाहूय रुद्रो वचनमब्रवीत् ॥
रुद्रः
एष राजा महाभागश्श्वेतकिर्द्विजसत्तम ।
एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम् ॥
वैशम्पायनः
बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह ॥
ततस्सत्रं समभवत्तस्य राज्ञो महात्मनः ।
यथाकामं यथोक्तञ्च सत्रं सुबहुदक्षिणम् ॥
तस्मिन्परिसमाप्ते तु राज्ञस्सत्रे महात्मनः ।
दुर्वाससाऽभ्यनुज्ञाता विप्रतस्थुस्स्म याजकाः ।
ये तत्र दीक्षितास्सर्वे सदस्याश्च महौजसः ॥
सोऽपि राजा महाभागः स्वपुरं प्राविशत्तदा ॥
ततो भगवतो वह्नेर्विकारः समजायत ।
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत् ॥
स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः ।
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम् ।
तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत् ॥
अग्निः
तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते ।
इच्छेयं त्वत्प्रसादेन आत्मनः प्रकृतिं स्थिराम् ॥
वैशम्पायनः
एतच्छ्रुत्वा तु वचनं भगवांन्सर्वलोककृत् ।
हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव ॥
ब्रह्मा
त्वया द्वादशवर्षाणि वसोर्धाराकृतं हविः ।
उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत् ॥
तेजसा विप्रहीणत्वात्सहसा हव्यवाहन ।
मा गमस्त्वं यथा वह्ने प्रकृतिस्थो भविष्यसि ॥
अरुचिं नाशयिष्ये ते समयं प्रतिपद्य तु ॥
पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम् ।
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम् ॥
तत्र सर्वाणि सत्त्वानि निवसन्ति विभावसो ।
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि ॥
मत्प्रसादाद्रुचिस्सम्यक् त्वयि वह्ने भविष्यति ।
गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्विषात् ॥
वैशम्पायनः
एतच्छुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम् ।
उत्तमं जवमास्थाय प्रदुद्राव हुताशनः ॥
आगम्य खाण्डवं दावमुत्तमं जवमास्थितः ।
सहसा प्रज्वलत्यग्निः क्रुद्धो वायुसमीरितः ॥
प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः ।
परमं यत्नमातिष्ठन्पावकस्य प्रशान्तये ॥
करैस्तु करिणः शीघ्रं जलमादाय सत्वराः ।
सिषिचुः पावकं क्रुद्धाश्शतशोऽथ सहस्रशः ॥
बहुशीर्षास्ततो नागाश्शिरोभिर्जलसन्ततिम् ।
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः ॥
तथैवान्यानि सत्त्वानि नानाप्रहरणोद्यमैः ।
विलयं पावकं शीघ्रमनयन्भरतर्षभ ॥
अनेन तु प्रकारेण भूयो भूयश्च प्रज्वलन् ।
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः ॥
स तु नैराश्यमापन्नस्सदा ग्लानिसमन्वितः ।
पितामहमुपागच्छत्सङ्क्रुद्धो हव्यवाहनः ॥
तच्च सर्वं यथान्यायं ब्रह्मणे स न्यवेदयत् ।
उवाच चैनं भगवान्मुहूर्तं स विचिन्त्य तु ॥
ब्रह्मा
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ ।
खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः ॥
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो ।
सम्प्राप्तौ मानुषौ लोके कार्यार्थं हि दिवौकसाम् ॥
अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते ।
तावेतौ सहितावेहि खाण्डवस्य समीपतः ॥
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च ।
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि ॥
तौ तु सत्त्वानि सर्वाणि यत्नतो वारयिष्यतः ।
देवराजं च सहितौ तत्र मे नास्ति संशयः ॥
वैशम्पायनः
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः ।
कृष्णपार्थावुपागम्य यमर्थं प्रत्यभाषत ।
तं ते कथितवानस्मि पूर्वमेव नृपोत्तम ॥
तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम् ।
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ॥
अर्जुनः
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च ।
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥
धनुर्मे नास्ति भगवन्बाहुवीर्येण सम्मितम् ।
कुर्वतः समरे यत्नं वेगं यद्विषहेत वै ॥
शरैस्त्वदर्थे बहुभिरक्षयैः क्षिप्रमस्यतः ।
न हि वोढुं रथश्शक्तः शरान्मम यथेप्सितान् ॥
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः ।
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् ।
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥
उपायं कर्मणस्सिद्धौ भगवन्वक्तुमर्हसि ।
निवारयेयं येनेन्द्रं वर्षमाणं महाशनिम् ॥
पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक ।
करणानि समर्थानि भगवन्दातुमर्हसि ॥
वैशम्पायनः
एवमुक्तस्स भगवान्धूमकेतुर्हुताशनः ।
चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥
आदित्यमुदके देवं निवसन्तं जलेश्वरम् ॥
स च सञ्चिन्तितं ज्ञात्वा दर्शयामास पावकम् ।
तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ।
चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥
अग्निः
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ये ।
तत् प्रयच्छोभयं शीघ्रं त्वमस्मै सव्यसाचिने ॥
दिव्यैरश्वैस्समायुक्तं रथं च कपिलक्षणम् ।
कार्यं च सुमहत्पार्थो गाण्डीवेन करिष्यति ॥
वैशम्पायनः
चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ।
ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥
तदद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् ।
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथिनम् ॥
सर्वायुधमहामात्रं परसैन्यप्रधर्षणम् ।
एकं शतसहस्रेण सम्मितं राष्ट्रवर्धनम् ॥
चित्रमुच्चावचैर्वर्णैश्शोभितं श्लक्ष्णमव्रणम् ।
देवगन्धर्वऋषिभिः पूजितं शाश्वतीः समाः ॥
प्रादाच्चैव धनूरत्नमक्षय्यौ च महेषुधी ॥
रथं च दिव्याश्वयुजं कपिप्रवरलक्षणम् ।
उपेतं कामगैरश्वैर्गान्धर्वैर्हेममालिभिः ॥
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ।
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः ॥
भानुमन्तं महाघोषं सर्वभूतमनोहरम् ।
ससर्ज यं सुतपसा भुवने भुवनप्रभुः ॥
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ।
यं स्म सोमस्समारुह्य दानवानजयत्प्रभुः ॥
नवमेघप्रतीकाशं ज्ललन्तमिव च श्रिया ।
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा बभौ ।
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ॥
तस्यां तु वानरो दिव्यस्सिंहलाङ्गूललक्षणः ।
निर्दहन्निव तत्र स्थस्संस्थितो मूर्ध्न्यशोभत ॥
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च ।
नादेन परसैन्यानां येषां संज्ञा प्रणश्यति ॥
स तं नानापताकाभिश्शोभितं रथसत्तमम् ।
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।
आरुरोह तदा पार्थो विमानं सुकृती यथा ॥
तच्च दिव्यं धनुश्श्रेष्ठं ब्रह्मणा निर्मितं पुरा ।
गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः ॥
हुताशनं नमस्कृत्य ततस्तदतिवीर्यवान् ।
जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह ।
येऽशृण्वन्कूजितं तस्य तेषां वै व्यथितं मनः ॥
लब्ध्वा रथं धनुश्चैव तथाऽक्षय्ये महेषुधी ।
बभूव कल्यः कौन्तेयः प्रहृष्टस्साह्यकर्मणि ॥
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः ।
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥
अब्रवीत्पावकश्चैनमेतेन मधुसूदन ।
अमानुषानपि रणे विजेष्यसि न संशयः ॥
अनेन त्वं मनुष्याणां देवानामपि चाहवे ।
रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा ॥
भविष्यसि न सन्देहः प्रवरारिनिवारणे ॥
तवैतच्चक्रमस्त्रं यत् सुदर्शनं नाम नामतः ।
तच्चास्मिन्नर्पय विभो दैत्यघाते यथा पुरा ॥
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु ।
हत्वाऽप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ॥
वरुणश्च ददौ तस्मै गदामशनिनिस्स्वनाम् ।
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ॥
ततः पावकमब्रूतां प्रहृष्टावर्जुनाच्युतौ ।
अर्जुनाच्युतौ
कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥
कल्यौ स्वो भगवन्योद्धुमपि सर्वैस्सुरासुरैः ।
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सता ॥
अर्जुनः
चक्रमस्त्रं हि वार्ष्णेयो विसृजन्युधि वीर्यवान् ।
त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥
गाण्डीवं धनुरादाय तथाऽक्षय्ये महेषुधी ।
अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥
सर्वतः परिवार्यैनं नादेन महता प्रभो ।
कामं सम्प्रज्वलाद्यैव कल्यौ स्वस्साह्यकर्मणि ॥
यदि खाण्डवमेष्यति प्रमादात्सगणो वा परिरक्षितुं महेन्द्रः ।
शरताडितखण्डकुण्डलानां कदनं द्रक्ष्यति देववाहिनीनाम् ॥
वैशम्पायनः
एवमुक्तस्स भगवान्दाशार्हेणार्जुनेन च ।
तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तथा ।
ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ॥
परिगृह्य समाविष्टस्तद्वनं मनुजर्षभ ।
मेघस्तनितनिर्घोषस्सर्वभूतानि निर्दहन् ॥
दह्यतस्तस्य च बभौ रूपं दावस्य भारत ।
मेरोरिव महीध्रस्य काञ्चनस्य महाद्युतेः ॥