वैशम्पायनः
इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान् ।
शासनाद्धृतराष्ट्रस्य राज्ञश्शान्तनवस्य च ॥
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् ।
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥
स समं धर्मकामार्थान्सिषेवे भरतर्षभ ।
त्रीनिवात्मसमान्बन्धून् बन्धुमानिव मानयन् ॥
तेषां समविभक्तानां क्षितौ देहवतामिव ।
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः ।
रक्षितारं शुभा वर्णा लेभिरे तं जनाधिपम् ॥
अधिष्ठानवती लक्ष्मीः परायणवती मही ।
बन्धुमानखिलो लोकस्तेनाऽऽसीत्पृथिवी क्षिता ॥
भ्रातृभिस्सहितो राजा चतुर्भिरधिकं बभौ ।
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे ।
बृहस्पतिसमा मुख्याः प्रजापतिमिवाध्वरे ॥
धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले ।
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ।
न तु केवलदैवेन प्रजा भावेन रेमिरे ॥
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥
न ह्ययुक्तं न चापथ्यं नानृतं न च विप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥
स हि सर्वस्य लोकस्य हितमात्मन एव च ।
चिकीर्षस्सुमहातेजा रेमे भरतसत्तम ॥
तथा तु मुदितास्सर्वे पाण्डवा विगतज्वराः ।
अजयत्पृथिवीपालांस्त्रासयन्तस्स्वतेजसा ।
ततः कतिपयाहस्सु बीभत्सुः कृष्णमब्रवीत् ॥
अर्जुनः
उष्णानि कृष्ण वर्तन्ते गच्छाव यमुनां प्रति ॥
सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन ।
सायाह्ने विनिवर्तावो रोचतां ते जनार्दन ॥
वासुदेवः
कुन्तीसुत ममाप्येष रोचते यद्वयं जले ।
सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥
वैशम्पायनः
आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत ।
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥
विहरन्खाण्डवप्रस्थे काननेषु च माधवः ।
पुष्पितोपवनां रम्यां ददर्श यमुनां नदीम् ॥
आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत् ।
ददर्श स तु तं देशं सहितस्सव्यसाचिना ॥
ऋक्षगोमायुसङ्गुष्टं हंससारसनादितम् ।
शाखामृगगणैर्जुष्टं निकेतं सर्वरक्षसाम् ॥
द्वीपिगोमायुसिंहर्क्षवराहरुरुवारणैः ।
नानामृगसहस्रैश्च पक्षिभिश्च समावृतम् ॥
मानार्हं तच्च सर्वेषां देवदानवरक्षसाम् ।
आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः ॥
वेणुशाल्मलितल्लिङ्गैरुपेतं वेत्रसंवृतम् ।
शाकपद्मकतालैश्च शतशाखैश्च रौहिणैः ॥
निरुद्देशं समप्रख्यमावृतं गजसंस्थितैः ।
गुल्मैः कीचकवेणूनामाशीविषनिषेवितम् ॥
विगतार्कं महाभोगविततद्रुमसङ्कटम् ।
स्नुहीवेत्रकुलिङ्गाक्षैर्हिन्तालैश्च समावृतम् ॥
व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः ।
रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम् ॥
देवेशस्सर्वभूतेशस्सर्वलोकविभागवित् ।
पीताम्बरधरो देवस्तद्वनं बहुधा चरन् ॥
सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः ।
खाण्डवस्य विनाशं तं ददर्श मधुसूदनः ॥