वैशम्पायनः
अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे ।
अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः ॥
पुरस्तादेव पौराणां संशयस्समजायत ।
जानता वासुदेवेन वासितो भरतर्षभः ॥
लोकस्य विदितं ह्यासीत् पूर्वं विपृथुना यथा ।
सान्त्वयित्वाऽभ्यनुज्ञातो भद्रया सह सङ्गतः ॥
दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना ।
अर्हते पुरुषेन्द्राय पार्थायाऽऽयतलोचनाम् ॥
सत्कृत्य पाण्डवश्रेष्ठो जयेन जयतां वरः ।
भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम् ॥
श्रुत्वा तु पुण्डरीकाक्षस्सम्प्राप्तं स्वपुरोत्तमम् ।
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा ॥
यियासुः खाण्डवप्रस्थममन्त्रयत केशवः ।
पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः ॥
तथा विपृथुमक्रूरं सङ्कर्षणविडूरथौ ।
पित्रा च पुरुषेन्द्रेण पुरस्तादनुमोदितः ॥
सम्प्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः ।
अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम् ॥
ततस्तु यानान्यासाद्य दाशार्हपुरवासिनाम् ।
सिंहनादः प्रहृष्टानां क्षणेन समपद्यत ॥
योजयन्तस्सदश्वांस्तु यानयुग्यं रथांस्तथा ।
गजांश्च परमप्रीतास्समपद्यन्त वृष्णयः ॥’
वृष्ण्यन्धकमहामात्रैस्सह वीरैर्महारथैः ।
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः ॥
सैन्येन महता शौरिरभिगुप्तः परन्तपः ।
तत्र दानपरश्श्रीमाञ्जगाम स महायशाः ॥
अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः ।
अनाधृष्णिर्महातेजा उद्धवश्च महायशाः ।
साक्षाद्बृहस्पतेश्शिष्यो महाबुद्धिर्महायशाः ॥
सात्यकिश्च महेष्वासः कृतवर्मा महारथः ॥
प्रद्युम्नश्चैव साम्बश्च निशङ्कुश्शङ्कुरेव च ।
चारुदेष्णश्च विक्रान्तो झिल्लिर्विपृथुरेव च ॥
सारणश्च महातेजा गदश्च विदुषां वरः ।
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा ।
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥
अन्वाहारं समादाय पृथुवृष्णिपुरोगमाः ।
प्रययुस्सिंहनादेन सुभद्रामवलोककाः ।
ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः ।
पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन् ॥
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् ।
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयद्गृहात् ॥
ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं समृद्धिमत् ।
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥
चन्दनस्य रसैश्शीतैः पुण्यगन्धैर्निषेवितम् ।
दह्यताऽगुरुणा चैव देशे देशे सुगन्धिनम् ॥
सुसंहृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ।
प्रतिपेदे महाबाहुस्सह रामेण केशवः ॥
वृष्ण्यन्धकैस्तथा भोजैस्समेतः पुरुषोत्तमः ।
सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः ॥
विवेश भवनं राज्ञः पुरन्दरगृहोपमम् ॥
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि ।
मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥
तं प्रीयमाणो कृष्णस्तु विनयेनाभिपूजयन् ।
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः ।
प्रतिजग्राह सत्कारैर्यथाविधि यथोचितम् ॥
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् ।
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥
ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह ।
पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः ॥
हर्षादभिगतौ दृष्ट्वा सङ्कर्षणजनार्दनौ ।
बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत ॥
ततस्सङ्कर्षणाक्रूरावप्रमेयावदीनवत् ।
भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः ॥
प्रवालानि च हाराणि भूषणानि सहस्रशः ।
कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान् ॥
तथाऽऽभरणरत्नौघैर्दीप्तप्रभमजायत ।
शयनासनयानैश्च युधिष्ठिरनिवेशनम् ॥
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः ।
भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत ॥
ततो ददौ वासुदेवः कन्यार्थे धनमुत्तमम् ।
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् ।
चतुर्युजामुपेतानां सूतैः कुशलसम्मितैः ॥
सहस्रं प्रददौ कृष्णो गवां नियुतमेव च ।
उपपाद्य तु वश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ॥
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् ।
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥
सुवर्णकक्ष्याग्रैवेयसुवर्णाङ्कुशभूषितम् ।
कॢप्तानां पटुघण्टानां चारूणां हेममालिनाम् ॥
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ।
प्रददौ वासुदेवस्तु वसुदेवाज्ञया तदा ॥
बडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ।
ददौ जनार्दनः प्रीत्या सहस्रं हेममालिनाम् ॥
काम्भोजारट्टबाह्लीकसिन्धुजानां च भारत ।
सुवर्णकृतसन्नाहघण्टारावविनादिनाम् ॥
श्वेतचामरसञ्च्छन्नांत्सर्वशस्त्रैरलङ्कृतान् ।
जात्यश्वानां सहस्राणि पञ्चाशत्प्रददौ तदा ।
हयानां चन्द्रकाशानां श्यामकर्णं ददौ शतम् ॥
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् ।
शतान्यञ्जनकेशानां श्वेतानां पञ्च पञ्च च ॥
शिबिकानां सहस्रं च प्रददौ मधुसूदनः ॥
कृष्णानामपि चाश्वानां बाह्लीकानां जनार्दनः ।
ददौ शतसहस्रं वै कन्याधनमनुत्तमम् ॥
स्नापनाच्छादने चैव भोजने पाचने तथा ।
आदानोद्वासने चैव प्रेषणे यत्र कुत्र चित् ॥
अनुलेपने च गन्धानां पेषणे च विचक्षणम् ।
सर्वकर्मणि निष्णातं युक्तं च वयसाऽन्वितम् ॥
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ।
सुवर्णशतकीर्णानामरोगाणां सुवर्चसाम् ।
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥
कृताकृतस्य मुख्यस्य कनकस्य सुवर्चसः ।
महार्हभारान् दाशार्हः प्रददौ प्रयुतं तदा ॥
भूषणानां च मुख्यानां शतभारं ददौ धनम् ॥
मुक्ताहाराणि शुभ्राणि शतसङ्ख्यानि केशवः ।
प्रवालानां सहस्रं च तथा वै शयनासनान् ॥
सुवर्णपादपीठानां महार्हास्तरणांस्तथा ।
पर्यङ्काणां सहस्रं तु ददौ कन्याधनं तथा ॥
रामः पाणिग्राहणिकं ददौ पार्थाय लाङ्गली ।
प्रीयमाणो हलधरस्सम्बन्धं प्रेम कामयन् ॥
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् ।
महारथगजग्राहो महाश्वैश्शैवलाकुलः ।
पाण्डुसागरमाविद्धं प्रविवेश महानदः ।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्टिरः ।
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः ।
विजह्रुरमरावासे नराः सुकृतिनो यथा ॥
तत्र तत्र महापानैरासवैश्च महाधनैः ।
पीत्वा पीत्वा च मैरेयानुत्कृष्टतलनादितैः ।
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् ।
पूज्य पार्थान् पृथां चैव भद्रां च यदुपुङ्गवाः ॥
केशवेनाभ्यनुज्ञाता गन्तुकामाः पुरं प्रति ।
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति ॥
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ।
रामं पुरुस्कृत्य ययुर्यादवानां महारथाः ॥
रामस्सुभद्रां सम्पूज्य परिष्वज्य स्वसां तदा ।
न्यासेति द्रौपदीमुक्त्वा परिदाय महाबलः ॥
पितृष्वसायाश्चरणावभिवाद्य ययौ तदा ।
तस्मिन्काले पृथा प्रीता पूजयामास तं तथा ॥
स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः ।
ययौ द्वारवतीं रामो वृष्णिभिस्सह संयुतः ॥
वासुदेवस्तु पार्थेन तत्रैव सह भारत ।
चतुस्त्रिंशदहोरात्रं रममाणो महाबलः ॥
उवास नगरे रम्ये शक्रप्रस्थे महात्मना ।
व्यचरद्यमुनाकूले पार्थेन सह भारत ॥