वैशम्पायनः
उक्तवन्तो यदा वाक्यमसकृत् सर्ववृष्णयः ।
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥
वासुदेवः
मयोक्तं न श्रुतं पूर्वं सहितैस्सर्वयादवैः ।
अतिक्रान्तमतिक्रान्तं न निवर्तति कर्हि चित् ।
शृणुध्वं सहितास्सर्वे मम वाक्यं सहेतुकम् ॥
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् ।
सम्मानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः ॥
अर्थान् धर्मांश्च वः पार्थो मन्यते सात्वतां सदा ।
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥
प्रदानमपि कन्यायाः पशुवत्को नु मंस्यति ।
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥
एतान्दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः ।
क्षत्रियाणां तु वीर्येण प्रशस्तं हरणं बलात् ।
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥
उचितश्चैव सम्बन्धस्सुभद्रा च शयस्विनी ।
एतस्यास्सदृशः पार्थः प्रसह्य हृतवानतः ॥
भरतस्यान्वये जातं शत्रुशातनमद्य वै ।
कुन्तिभोजात्माजापुत्रं का बुभूषेत नार्जुनम् ॥
न च पश्यामि यः पार्थं विक्रमेण पराजयेत् ।
अपि सर्वेषु लोकेषु सदेवमनुजेष्वपि ।
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः ॥
मम शस्त्राण्यशेषेण तूणी चाक्षयसायकौ ।
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥
तमभिद्रुत्य सान्त्वेन परमेण धनञ्जयम् ।
हृष्टास्सर्वे निवर्तव्यं ममैषा परमा मतिः ॥
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् ।
विनश्येद्वो यशस्सद्यो न तु सान्त्वे पराजयः ॥
पितृष्वसायाः पुत्रो मे सम्बन्धं नार्हति द्विषाम् ॥
वैशम्पायनः
तच्छ्रुत्वा वासुदेवस्य तथा कर्तुं जनाधिप ।
उद्योगं कृतवन्तस्ते भेरीं सन्नाद्य यादवाः ॥
अर्जुनस्तु तदा श्रुत्वा भेरीसन्नादनं महत् ।
अर्जुनस्त्वरमाणस्तु सुभद्रामभ्यभाषत ॥
अर्जुनः
आयान्ति वृष्णयस्सर्वे ससुहृज्जनबान्धवाः ।
त्वदर्थं योद्धुकामास्ते मदरक्तान्तलोचनाः ॥
प्रमत्तानशुचीन्मूढान्सुरामत्तान्नराधमान् ।
वमनं पानशीलांस्तान्करिष्यामि शरोत्तमैः ।
उताहो वा मदोन्मत्तान्नयिष्यामि यमक्षयम् ॥
वैशम्पायनः
एवमुक्त्वा प्रियां पार्थो न्यवर्तत महाबलः ॥
निवर्तमानं दृष्ट्वैव सुभद्रा त्रस्ततां गता ।
एवं मा वद पार्थेति पादयोः पतिता तदा ॥
सुभद्रा
सुभद्रा तु कलिर्जाता वृष्णीनां निधनाय च ।
एवं ब्रुवन्ति पौरास्ते जनवादं जनाः प्रभो ॥
मम शोकं वर्धयन्ति तस्मात्पापं न चिन्तय ।
परिवादभयान्मुक्ता त्वत्प्रसादाद्भवाम्यहम् ॥
वैशम्पायन
एवमुक्तस्ततः पार्थः प्रियया भद्रया तदा ।
गमनाय मतिं चक्रे पार्थस्सत्यपराक्रमः ॥
स्मितपूर्वं तदाऽऽभाष्य परिष्वज्य प्रियां तदा ।
उत्थाप्य च पुनः पार्थो याहि याहीति चाब्रवीत् ॥
ततस्सुभद्रा त्वरिता रश्मींत्सङ्गृह्य पाणिना ।
चोदयामास जवनाञ्छीघ्रमश्वान्कृतत्वरा ॥
ततस्तु कृतसन्नाहा वृष्णिवीरास्समाहिताः ।
प्रत्यानयार्थं पार्थस्य जवनैस्तुरगोत्तमैः ।
राजमार्गमनुप्राप्ता दृष्ट्वा पार्थस्य विक्रमम् ॥
प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च ।
अर्जुनस्य शरान्दृष्ट्वा विस्मयं परमं गताः ॥
केशवस्य वचस्तथ्यं मन्यमानास्तु यादवाः ।
अतीत्य तं रैवतकं श्रुत्वा तु विपृथोर्वचः ॥
अर्जुनेन कृतं श्रुत्वा गन्तुकामास्तु वृष्णयः ।
श्रुत्वा दीर्घं गतं पार्थं न्यवर्तन्त नराधिपाः ॥
पुरोद्यानमतिक्रम्य विशालं च गिरिव्रजम् ।
सानुमुञ्जावतं चैव वनान्युपवनानि च ॥
पुण्येष्वानर्तराष्ट्रेषु वापीपद्मसरांसि च ।
प्राप्य धेनुमतीतीर्थमश्वरोधसरः प्रति ॥
प्रेक्षावर्तं ततश्शैलमम्बुदं च नगोत्तमम् ।
आराच्छृङ्गमथाऽऽसाद्य तीर्त्वा कारवतीं नदीम् ॥
प्राप्य साल्वेयराष्ट्राणि निषादानप्यतीत्य च ।
देवापृथुपुरं पश्यन् सर्वतस्सुसमाहितः ॥
तमतीत्य महाबाहुर्देवारण्यमपश्यत ।
पूजयामासुरायान्तं देवारण्ये महर्षयः ॥
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च ।
अतीत्य च तदा पार्थः सुभद्रासारथिस्तदा ॥
कौरवं विषयं प्राप्य विशोकः समपद्यत ॥
सोदर्याणां महाबाहुस्सिंहाशयमिवाशयम् ।
आरादुपवनोपेतां दाशार्हप्रतिमां पुरीम् ॥
क्रोशमात्रे पुरस्यासीद्गोष्ठं पार्थस्य शोभनम् ।
तत्राभीयात् स बीभत्सुर्निविष्टो यदुकन्यया ॥
अर्जुनः
ततस्सुभद्रां सत्कृत्य पार्थो वचनमब्रवीत् ।
गोपालिकानां वेषेण गच्छ त्वं वृजिनं पुरम् ।
कामव्याहारिणी कृष्णा रोचतां ते वचो मम ॥
दृष्ट्वा तु परुषं ब्रूयात्सह तत्र मया गताम् ।
अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत् ॥
यत्तु सा प्रथमं ब्रूयान्न तस्यास्ति निवर्तनम् ।
तस्मान्मानं च दर्पं च व्यपनीय स्वयं व्रज ॥
वैशम्पायनः
सुभद्रा
तस्य तद्वचनं श्रुत्वा सुभद्रा प्रत्यभाषत ।
एवमेतत्करिष्यामि यथा त्वं पार्थ भाषसे ॥
वैशम्पायनः
सुभद्रावचनं श्रुत्वा सुप्रीतः पाकशासनिः ।
गोपालान्स समानीय त्वरितो वाक्यमब्रवीत् ॥
अर्जुनः
तरुण्यस्सन्ति यावन्त्यस्ताः सर्वा व्रजयोषितः ।
आगच्छन्तु गमिष्यन्त्या भद्रया सह सङ्गताः ॥
वैशम्पायनः
इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम् ।
एतच्छ्रुत्वा तु गोपालैरानीता व्रजयोषितः ॥
ततस्ताभिः परिवृतां व्रजस्त्रीभिरनिन्दिताम् ।
सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम् ॥
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥
साऽधिकं तेन रूपेण शोभमाना यशस्विनी ।
गोपालिकामध्यगता प्रययौ वृजिनं पुरम् ॥
ततः पुरवरश्रेष्ठमिन्द्रप्रस्थं यशस्विनी ।
त्वरिता खाण्डवप्रस्थमाससाद विवेश च ॥
सा गृहश्रेष्ठमासाद्य वीरपत्नी यशस्विनी ।
ववन्दे पृथुताम्राक्षी पृथां भद्रा पितृष्वसाम् ॥
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना ।
ववन्दे द्रौपदीं भद्रा प्रेष्याऽहमिति चाब्रवीत् ॥
प्रत्युत्थाय तु तां देवीं कृष्णा कृष्णसहोदरीम् ।
सस्वजे चाभवत्प्रीता निस्सपत्नोऽस्तु ते पतिः ।
वीरसूर्भव भद्रे त्वं भव भर्तृप्रिया तथा ॥
ओजसा निर्मिता बह्वीरुवाच परमाशिषः ।
तथैव मुदिता भद्रा तामुवाच तथास्त्विति ॥
ततस्सुभद्रां वार्ष्णेयी परिष्वज्य शुभाननाम् ।
अङ्के निवेश्य मुदिता वासुदेवं प्रशस्य च ॥
ततः किलकिलाशब्दः क्षणेन समपद्यत ।
हर्षादानर्तयोधानामासाद्य वृजिनं पुरम् ॥
देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः ।
पृष्ठतोऽनुययुः पार्थं पुरुहूतमिवामराः ॥
गोभिरुष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः ।
ददृशुर्यानमुख्यानि दाशार्हपुरवासिनाम् ॥
ततः पुरवरे यूनां प्रहर्षस्समजायत ।
प्रवासादागतं पार्थं दृष्ट्वा स्वमिव बान्धवम् ।
सोऽभिगम्य नरश्रेष्ठो दाशार्हगणसंवृतः ।
पौरैः पुरवरैः प्रीत्या परया चाभिनन्दितः ॥
प्राप्य चान्तःपुरद्वारमवरुह्य रथोत्तमात् ।
ववन्दे धौम्यमासाद्य मातरं च धनञ्जयः ॥
स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनञ्जयः ।
यमाभ्यां वन्दितो हृष्टस्सस्वजे तौ ननन्द च ॥
ब्राह्मणप्रमुखांत्सर्वान्भ्रातृभिस्सह सङ्गतः ।
यथार्हं मानयामास पौरजानपदानपि ॥
तत्रस्थान्यनुयातानि प्रदाय गुरवे वधूम् ।
पूजयाञ्चक्रुरासाद्य कुन्तीपुत्रं युधिष्ठिरम् ॥
पुरस्तादेव तेषां तु स महात्मा महायशाः ।
पूजनार्होऽभवद्राजा यथा वै गदपूर्वजः ॥
पाण्डवेन यथार्हं ते पूजार्हेण सुपूजितः ।
न्यविशन्ताभ्यनुज्ञाता राज्ञा तुष्टा यशस्विना ॥
तामदीनामदीनार्हां सुभद्रां प्रीतिवर्धिनीम् ।
साक्षाच्छ्रियममन्यन्त पार्थाः कृष्णसहोदराम् ॥
गुरूणां श्वशुराणां च देवराणां तथैव च ।
सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया ॥
ततस्ते हृष्टमनसः पाण्डवेया महारथाः ।
युधिष्ठिरमुखाः प्रीता बभूवुर्जनमेजय ॥
कुन्ती च परमप्रीता कृष्णा च सततं तथा ॥