वैशम्पायनः
शासनात्पुरुषेन्द्रस्य बलेन महता बली ।
गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः ॥
प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः ।
सम्बभूव तदा गोप्ता पुरस्य पुरवर्धनः ॥
प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः ।
निशम्य पुरनिर्घोषं स्वमनीकमचोदयत् ॥
सोऽभिपत्य तदाऽध्वानं ददर्श पुरुषर्षभम् ।
निःसृतं द्वारकाद्वारादंशुमन्तमिवाम्बुदात् ॥
सविद्युतमिवाम्भोदं प्रेक्ष्य बाणधनुर्धरम् ।
पार्थमासाद्य योधानां विस्मयस्समपद्यत ॥
उदीर्णरथनागाश्वमनीकमभिवीक्ष्य तत् ।
उवाच परमप्रीता सुभद्रा भरतर्षभम् ॥
सङ्गृहीतुमभिप्रायो दीर्घकालकृतो मम ।
युध्यमानस्य सङ्ग्रामे रथं तव नरर्षभ ॥
ओजस्तेजोद्युतिबलैरजितस्य महात्मनः ।
पार्थस्य वै सारथित्वे भवेथा इत्यशिक्षयन् ।
एवमुक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः ॥
अर्जुनः
चोदयाश्वानसंसक्तान्विश्न्तु विपृथोर्बलम् ॥
बहुभिर्युध्यमानस्य तावकानजिघांसतः ।
पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम ॥
वैशम्पायनः
एवमुक्ता तदा भद्रा पार्थेन भरतर्षभ ।
चुचोद चाश्वान्विस्रब्धा ततस्ते विविशुर्बलम् ॥
तदाहतमहावाद्यं समुदग्रध्वजायुतम् ।
अनीकं विपृथोर्हृष्टं पार्थमेवान्ववर्तत ॥
रथैर्बहुविधैर्हृष्टा सदश्वैश्च महाजवैः ।
किरन्तश्शरवर्षाणि परिवव्रुर्धनञ्जयम् ॥
तेषामस्त्राणि संवार्य दिव्यैरस्त्रैर्महास्त्रवित् ।
आवृणोन्महदाकाशं शरैः परपुरञ्जयः ॥
तेषां बाणान्महाबाहुर्विसृष्टान्सन्धितानपि ।
चिच्छेद निशितैर्बाणैश्शरांश्चैव धनूंषि च ॥
युगानीषावरूथानि यन्त्राणि विविधानि च ।
अजिघांसन्परान्पार्थश्चिच्छेद निशितैश्शरैः ॥
निर्धनुष्कान्विकवचान्विरथांश्च महारथान् ।
कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यतामित्यदर्शयत् ॥
सा दृष्ट्वा महदाश्चर्यं सुभद्रा पार्थमब्रवीत् ।
अवाप्तार्थाऽस्मि भद्रं ते याहि पार्थ यथासुखम् ॥
संसक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर्बलम् ।
त्वरमाणोऽभिनिष्क्रम्य स्थीयतामित्यभाषत ॥
तत्तु सेनापतेर्वाक्यं नात्यवर्तन्त यादवाः ।
सागरे मारुतोद्धूता वेलामिव महोर्मयः ॥
ततो रथवरात्तूर्णमवरुह्य नरर्षभः ।
अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे ॥
सोऽब्रवीत्पार्थमासाद्य दीर्घकालमिदं तव ।
निवासमभिजानामि शङ्खचक्रगदाधरात् ॥
न चास्त्यविदितं किञ्चिद्यद्यदाचितं त्वया ।
सुभद्रासम्प्रयोगेन प्रीतस्तव जनार्दनः ॥
प्राप्तस्य यतिलिङ्गेन द्वारकां तु धनञ्जय ।
विसृष्टा सर्ववृष्णीनामृषभेण च सोदरा ॥
त्वमिमां वीर दाशार्ही शचीमिव शचीपतिः ।
भक्तां गुणवतीं भद्रां सदा सत्कर्तुमर्हसि ।
बन्धुर्भव सुभद्राया गतिश्च त्वं धनञ्जय ॥
बन्धुमानसि रामेण महेन्द्रावरजेन च ॥
मामेव हि सदाऽकार्षीन्मन्त्रिणं मधुसूदनः ।
अन्तरेण सुभद्रां च त्वां च तात धनञ्जय ॥
इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम् ।
इदमेवानुयात्रं च निर्दिश्य गदपूर्वजः ।
अन्तर्द्वीपं तदा वीर यातो वृष्णिसुखावहः ॥
दीर्घकालावरुद्धं त्वां सम्प्राप्तं प्रियया सह ।
पश्यन्तु भ्रातरस्तत्र वज्रपाणिमिवामराः ॥
आगते तु दशार्हाणामृषभे शार्ङ्गधन्वनि ।
भद्रामनुगमिष्यन्ति रत्नानि च वसूनि च ॥
अरिष्टं गच्छ पन्थानं सुखी भव धनञ्जय ।
नष्टशोकैर्विशोकस्य सुहृद्भिस्सङ्गमोऽस्तु ते ॥
ततो विपृथुमामन्त्र्य पार्थः प्रीतोऽभिवाद्य च ।
कृष्णस्य मतमास्थाय कृष्णस्य रथमास्थितः ॥
पूर्वमेव तु पार्थाय कृष्णेन विनियोजितम् ।
सर्वरत्नसुसम्पूर्णं सर्वभोगसमन्वितम् ॥
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि ।
शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना ।
ज्वलनाग्निप्रकाशेन द्विषतां हर्षघातिना ॥
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।
गुप्तसेनानुयात्रेण रथमारोप्य माधवीम् ॥
रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ॥
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः ।
व्याक्रोशत्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ॥
ते समासाद्य सहितास्सुधर्मामभितः पुरीम् ।
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥
तेषां श्रुत्वा सभापालो भेरीं सन्नाहयत्तदा ।
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥
क्षोभितास्तेन शब्देन भोजवृष्ण्यन्धकास्तदा ।
अन्तर्द्वीपात्समुत्पेतुस्सहसा सहितास्तदा ।
अन्नपानमपाहाय समापेतुस्समन्ततः ॥
ततो जाम्बूनदाङ्गानि परार्ध्यास्तरणानि च ।
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः ।
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥
तेषां समुपविष्टानां देवानामुपसङ्गमे ।
आचख्यौ चेष्टितं जिष्णोस्सभापालस्सहानुगः ॥
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः ।
अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ॥
योजयित्वा रथानाशु नागानश्वास्तथैव च ।
कवचानाहरन् क्षिप्रं प्रासानाहरतेति च ॥
धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥
सूतान विचुक्रुशुः केचिद्रथान्योजयतेति च ।
स्वयं च तुरगान्केचित् निन्युर्हेमविभूषितान् ॥
रथेष्वानीयमानेषु कवचेषु महत्सु च ।
महास्कन्धे नृवीराणां तदासीत्तुमुलं महत् ॥
वनमाली ततः क्षीबः कैलासशिखरोपमः ।
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥
किमिदं चाकृतप्रज्ञास्तूष्णीम्भूते जनार्दने ।
अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः ॥
एष तावदभिप्रायमाख्यातु मम यद्धृदि ।
यदस्य सूचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥
ततस्ते वचनं श्रुत्वा ग्राह्यरूपं हलायुधात् ।
तूष्णीम्भूतास्ततस्सर्वे साधु साध्विति चाब्रुवन् ॥
समवाचस्तु निश्शब्दा बलदेवस्य धीमतः ।
पुनरेव सभामध्ये सर्वे ते समुपाविशन् ।
ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् ॥
बलदेवः
त्रैलोक्यनाथ भो कृष्ण भूतभव्यभविष्यकृत् ।
किमुवाऽत्रोपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत ।
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥
को हि तत्रैव भुक्त्वाऽन्नं भेत्तुमर्हति पापकृत् ।
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥
ईप्समानश्च सम्बन्धं कृतपूर्वं च मानयन् ।
को हि नाम भवेदर्थी साहसेन चरेद्बुधः ॥
सोऽवमत्य च नामास्मानवमत्य च केशवम् ।
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥
कथं हि शिरसो मध्ये कृतं तेन पदं मम ।
त्वया चेदभ्यनुज्ञातो मर्षयिष्यामि माधव ॥
न मर्षयिष्ये गोविन्द पादस्पर्शमिवोरगः ॥
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् ।
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ।
तमहं भ्राृतृभिस्सार्धं निहन्मि कुलपांसनम् ॥
वैशम्पायनः
रौहिणेयं गर्जमानं मेघदुन्दुभिनिस्स्वनम् ।
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तथा ॥