वैशम्पायनः
अर्जुनः
वृष्ण्यन्धकपुरात्तस्मादपयानं च पाण्डवः ।
विनिश्चित्य तदा पार्थस्सुभद्रामिदमब्रवीत् ।
शृणु भद्रे यथाशास्त्रं यथार्थमृषिभिः कृतम् ॥
कन्यायास्तु पिता भ्राता माता मातुल एव वा ।
पितुर्भ्राता गुरुश्चापि दातुं प्रभवतां गताः ॥
महोत्सवं पशुपतेर्द्रष्टुकामः पिता गतः ।
अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैस्सबान्धवैः ॥
मम चैव विशालाक्षि विदेशस्थास्तु बान्धवाः ।
तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमो भवेत् ॥
समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः ।
तासां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा ॥
वरमाहूय विधिना पित्रा दत्ता यथाऽर्थिने ।
सा पत्नी तु बुधैरुक्ता सा वश्या तु पतिव्रता ॥
भृत्यानां भरणार्थाय आत्मनः पोषणाय च ।
दाने गृहीता या नारी सा भार्येति बुधैर्मता ॥
धर्मतो वरयित्वा तु आनीय स्वं निवेशनम् ।
न्यायेन दत्ता तारुण्ये दाराः पितृकृता भवेत् ॥
जनयेद्या तु भर्तारं जाया इत्येव नामतः ॥
दाराः पत्नी च भार्या च जाया चेति चतुर्विधाः ।
चतस्र एवाग्निसाक्ष्याः क्रियायुक्ताश्च धर्मतः ॥
गान्धर्वेण विवाहेन रागात् पुत्रार्थकारणात् ।
आत्मनाऽनुगृहीता या वश्या सा तु प्रजावती ॥
गान्धर्वस्तु क्रियाहीनो रागादेव प्रवर्तते ।
सकामायास्सकामेन निर्मन्त्रो रहसि स्मृतः ।
मयोक्तमक्रियं चापि कर्तव्यं माधवि त्वया ॥
अयनं चैव मासश्च ऋक्षं पक्षस्तथा तिथिः ।
करणं च मुहूर्तं च लग्नसम्पत्तथाऽद्य वै ॥
विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम् ।
वैशाखश्चैव मासानां पक्षाणां शुभ्र एव च ॥
नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि ।
लग्नो हि मकरश्श्रेष्ठः करणानां बवस्तथा ॥
मैत्रो मुहूर्तो वैवाह्य आवयोश्शुभकर्मणि ।
सर्वसम्पदियं भद्रे अद्य रात्रौ भविष्यति ॥
भगवानस्तमभ्येति आदित्यस्तपतां वरः ।
नारायणो हि सर्वज्ञो न च बुध्येत विश्वकृत् ॥
धर्मसङ्कटमापन्ने किं नु कृत्वा शुभं भवेत् ॥
मनोभवेन कामेन मोहितं मां प्रलापिनम् ।
प्रतिवाक्यं च मे देवि किं न वक्ष्यसि माधवि ॥
वैशम्पायनः
अर्जुनस्य वचश्श्रुत्वा चिन्तयन्ती जनार्दनम् ।
नोवाच किञ्चिद्वचनं बाष्पदूषितलोचना ॥
रागोन्मादप्रलापी सन्नर्जुनो जयतां वरः ।
चिन्तयामास पितरं प्रविश्य च लतागृहम् ॥
चिन्तयानं तु कौन्तेयं ज्ञात्वा शच्या शचीपतिः ।
सहितो नारदाद्यैश्च मुनिसिद्धाप्सरोगणैः ।
अरुन्धत्या वसिष्ठेन ह्याजगाम कुशस्थलीम् ॥
चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः ।
निद्रयाऽपहृतज्ञानं रौहिणेयं विना तदा ॥
सहाक्रूरेण शिनिना सत्यकेन गदेन च ।
वसुदेवेन देवक्या आहुकेन च धीमता ॥
आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः ॥
पूजयित्वा तु देवेशं नारदाद्यैर्महर्षिभिः ।
कुशलप्रश्नमुक्त्वा तु देवेन्द्रेणाभियाचितः ।
वैवाहिकीं क्रियां कृष्णस्तथेत्येवमुवाच ह ॥
आहुको वसुदेवश्च सहाक्रूरस्ससात्यकिः ।
अभिप्रणम्य शिरसा पाकशासनमब्रुवन् ॥
देवदेव नमस्तेऽस्तु लोकनाथ जगत्पते ।
वयं धन्यास्स्म लोकेषु बान्धवैस्सहिताः प्रभो ॥
कृतप्रसादास्तु वयं तव वाक्येन विश्वजित् ॥
एवमुक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः ।
महेन्द्रशासनात्सर्वे सहिताश्च महर्षिभिः ।
विवाहं कारयामासुश्शक्रपुत्रस्य शास्त्रतः ॥
अरुन्धती शची देवी रुग्मिणी देवकी तथा ।
दिव्यस्त्रीभिश्च सहिताः क्रियां भद्रां प्रयोजयन् ॥
महर्षिः काश्यपो होता सदस्या नारदादयः ।
पुण्याशिषः प्रयोक्तारस्सर्वे ह्यासंस्तदाऽर्जुने ॥
अभिषेकं ततः कृत्वा महेन्द्रः पाकशासनिम् ।
लोकपालैस्तु सहितस्सर्वदेवैरभिष्टुतः ॥
किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः ।
भूषयित्वा तदा पार्थं द्वितीयमिव वासवम् ॥
पुत्रं परिष्वज्य तदा प्रीतिमाप पुरन्दरः ॥
शची देवी तदा भद्रामरुन्धत्यादिभिस्तथा ।
कारयामास वैवाह्यमङ्गलं यादवस्त्रियः ।
सहाप्सरोभिर्मुदिता भूषणैश्चाभ्यभूषयन् ॥
पौलोमीमिव मन्यन्ते सुभद्रां देवयोषितः ।
ततो विवाहो ववृधे स्फीतस्सर्वगुणान्वितः ॥
तस्याः पाणिं गृहीत्वाऽसौ मन्त्रहोमपुरस्कृतः ।
यथा तस्यैव हि पिता शच्या इव शतक्रतुः ॥
सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना ॥
पार्थस्य सदृशी भद्रा रूपेण वयसा तथा ।
सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः ।
इत्यूचुश्च तदा देवाः प्रीतास्सेन्द्रपुरोगमाः ॥
एवं निवेश्य देवास्तु गन्धर्वैस्साप्सरोगणैः ।
आमन्त्र्य यादवांत्सर्वे विप्रजग्मुर्यथागतम् ॥
यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा ।
वासुदेवस्तदा पार्थमुवाच यदुनन्दनः ॥
भगवान्
द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ ।
मामकं रथमारुह्य शैब्यसुग्रीवयोजितम् ॥
सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश ॥
यादवैस्सहितः पश्चादागमिष्यामि भारत ।
यतिवेषेण नियतो वस त्वं वीरसत्तम ॥
वैशम्पायनः
एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः ।
कृतोद्वाहस्तदा पार्थः कृतकार्योऽभवत्तदा ।
तस्यां चोपगतो भावः पार्थस्य सहसा गतः ॥
स तया युयुजे वीरो भद्रया भरतर्षभः ।
अभिनिष्पन्नया रामस्सीतयेव समन्वितः ॥
स हि जिष्णुर्विजज्ञे तां ह्रीं श्रियं सन्नतिक्रियाम् ।
द्वादशानां वरस्त्रीणां रूपेणासदृशीं सतीम् ॥
स प्रकृत्या श्रिया दीप्तस्सन्दिदीपे तयाऽधिकम् ।
उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः ॥
सा तु तं मनुजव्याघ्रमनुरक्ता मनस्विनी ।
कन्यापुरगता भूत्वा तत्परा समपद्यत ॥
वैशम्पायनः
वृष्ण्यन्धकपुरात्तत्र अपयानं धनञ्जयः ।
विनिश्चित्य तया पार्थस्सुभद्रामिदमब्रवीत् ॥
अर्जुनः
द्विजानां गुणमुख्यानां यथार्हं प्रतिपादय ।
भोज्यैर्भक्ष्यैश्च कामैश्च स्वपुरीं प्रतियास्यताम् ॥
आत्मनश्च समुद्दिश्य महाव्रतसमापनम् ।
गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम् ॥
तेजोबलजवोपेतैश्श्लक्ष्णैर्हयवरोत्तमैः ।
शैब्यसुग्रीवसंयुक्तं रथं तूर्णमिहानय ॥
क्रीडार्थमिह भाषित्वा सखीभिस्सुभगे सह ।
क्षिप्रमादाय पर्येहि सह सर्वायुधानि च ॥
अनुकर्षन्तपताकाश्च तूणीरांश्च धनूंषि च ।
सर्वान् रथवरे कुर्यास्सोत्सेधाश्च महागदाः ॥
वैशम्पायनः
अर्जुनेनैवमुक्ता सा सुभद्रा भद्रभाषिणी ।
जगाम नृपतेर्वेश्म सखीभिस्त्वरिता सह ॥
क्रीडार्थमिति तत्रस्थान् रक्षिणो वाक्यमब्रवीत् ॥
रथेनानेन यास्यामि महाव्रतसमापनम् ।
शैब्यसुग्रीवयुक्तेन सायुधेन च शार्ङ्गिणः ॥
सुभद्रयैवमुक्ते तु जनाः प्राञ्जलयोऽभवन् ।
रथेनानेन भद्रे त्वं यथेष्टं क्रियतामिति ॥
योजयित्वा रथवरं कल्याणैरभिभाष्य ताम् ।
यथोक्तं सर्वमारोप्य आयुधानि च भामिनी ।
क्षिप्रमादाय कल्याणी सुभद्राऽर्जुनमब्रवीत् ॥
सुभद्रा
रथोऽयं रथिनां श्रेष्ठ आनीतस्तव शासनात् ।
स्वस्ति याहि यथाकामं कुरून्कौरवनन्दन ॥
वैशम्पायनः
निवेद्य तु रथं भर्तुः सुभद्रा भद्रसम्मता ।
ब्राह्मणानां तदा हृष्टा ददौ सा विविधं वसु ॥
स्नेहवन्ति च भोज्यानि प्रददावीप्सितानि च ।
यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च ॥
तर्पिता विविधैर्भक्ष्यैस्तान्यवाप्य वसूनि च ।
ब्राह्मणास्स्वगृहं जग्मुः प्रयुज्य परमाशिषः ॥
सुभद्रया तु विज्ञप्तः पूर्वमेव धनञ्जयः ।
रश्मिप्रग्रहणे पार्थ न मेऽस्ति सदृशो भुवि ॥
तस्मात्सा पूर्वमारुह्य रश्मीञ्जग्राह माधवी ।
सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान् ॥
व्यत्ययित्वा तु तल्लिङ्गं समुच्छ्रितमहाधनुः ।
आरुरोह रथश्रेष्ठं शुक्लवासा धनञ्जयः ॥
महेन्द्रदत्तं मकुटं तथा ह्याभरणानि च ।
अलङ्कृत्य तु कौन्तेयः प्रयातुमुपचक्रमे ॥
ततः कन्यापुरे घोषस्तुमुलः समपद्यत ॥
दृष्ट्वा रथगतं पार्थं खड्गबाणधनुर्धरम् ।
अभीशुहस्तां सुश्रोणीमर्जुनेन रथे स्थिताम् ।
ऊचुः कन्यापुरे कन्या वासुदेवसहोदराम् ॥
कन्याः
सर्वे कामास्समृद्धास्ते सुभद्रे भद्रभाषिणि ।
वासुदेवप्रियं लब्ध्वा भर्तारं वीरमर्जुनम् ॥
सर्वसीमन्तिनीनां त्वं श्रेष्ठा कृष्णसहोदरे ।
यस्मात्सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः ॥
उपपन्नस्त्वया वीरस्सर्वलोकमहारथः ।
स्वस्ति याहि गृहं भद्रे सुहृद्भिस्सङ्गमोऽस्तु ते ॥
वैशम्पायनः
एवमुक्ता प्रहृष्टाभिस्सखीभिः प्रतिनन्दिता ।
भद्रा भद्रजवोपेतानश्वान्पुनरचोदयत् ॥
ततश्चामरहस्ताऽत्र सखी कुब्जाङ्गनाऽभवत् ॥
ततः कन्यापुरद्वारि सुघोषमभिनिस्सृतम् ।
ददृशुस्तं रथश्रेष्ठं जना जीमूतनिस्वनम् ॥
सुभद्रासङ्गृहीतस्य रथस्य महतो रवम् ।
मेघस्वनमिवाकाशे शुश्रुवुः पुरवासिनः ॥
सुभद्रया च सम्पन्ने तिष्ठन् रथवरेऽर्जुनः ।
प्रबभौ परयोपेतः कैलास इव गङ्गया ॥
पार्थस्सुभद्रासहितो विरराज महारथः ।
पार्थस्यैव पिता शक्रो यथा शच्या समन्वितः ॥
सुभद्रां प्रेक्ष्य धर्मेण ह्रियमाणां यशस्विनीम् ।
चक्रुः किलकिलाशब्दमासाद्य बहवो जनाः ॥
दाशार्हाणां कुलस्य श्रीस्सुभद्रा भद्रभाषिणी ।
अभिकामा सकामेन पार्थेन सह गच्छति ॥
अथापरे तु सङ्क्रुद्धा गृह्णीत घ्नत मा चिरम् ।
इति संवार्यमाणानां सन्नादस्सुमहानभूत् ॥
स तेन जनघोषेण वीरो गज इवार्दितः ।
ववर्ष शरवर्षाणि न तु कञ्चन रोषयत् ॥
मुमोच निशितान्बाणान्दीप्यमानान्स्वतेजसा ।
प्रासादवरसङ्घेषु हर्म्येषु भवनेषु च ॥
क्षोभयित्वा पुरश्रेष्ठं गरुत्मानिव सागरम् ।
प्रेक्षन् रैवतकद्वारं निर्ययौ भरतर्षभः ॥