वैशम्पायनः
चारैस्सञ्चारिते तस्मिन्ननुज्ञातो धनञ्जयः ।
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् ।
कृष्णस्य मतमास्थाय प्रययौ भरतर्षभः ॥
वृत्तोत्सवे रैवतके वृष्णयोऽप्यगमन् पुरीम् ।
सुभद्राऽप्यथ शैलेन्द्रमभ्यर्च्य सह रैवतम् ॥
दैवतानि च सर्वाणि ब्राह्मणान् स्वस्ति वाच्य च ।
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति ॥
गतां रैवतकात् कन्यां प्रविष्टां द्वारकां प्रति ।
चिन्तयानस्ततो भद्रामुपविष्टश्शिलातले ॥
रमणीये वनोद्देशे बहुपादपसंवृते ।
सालतालाश्वकर्णैश्च बहुलैरर्जुनैस्तथा ॥
चम्पकाशोकपुन्नागैः केतकैः पाटलैस्तथा ।
कर्णिकारैरशोकैश्च अङ्कोलैरतिमुक्तकैः ॥
एवमादिभिरन्यैश्च संवृते स शिलातले ।
पुनः पुनश्चिन्तयानस्सुभद्रां भद्रभाषिणीम् ॥
यदृच्छया चोपपन्नान्वृष्णिवीरान्ददर्श सः ॥
बलदेवं च हार्दिक्यं साम्बं सारणमेव च ।
प्रद्युम्नं च गदं चैव चारुदेष्णं विडूरथम् ॥
भानुं च निशठं चैव विपृथुं पृथुमेव च ।
तथान्यांश्च बहून्पश्यन्हृदि शोकमधारयत् ॥
ततस्ते सहितास्सर्वे यतिं दृष्ट्वा समुत्सुकाः ।
वृष्णयो विनयोपेताः परिवार्योपतस्थिरे ॥
ततोऽर्जुनः प्रीतमनास्स्वागतं व्याजहार सः ।
आस्यतामास्यतां सर्वै रमणीये शिलातले ॥
इत्येवमुक्ता यतिना प्रीतास्ते यादवर्षभाः ।
उपोपविविशुस्सर्वे सुस्वागतमिति ब्रुवन् ॥
ततस्तेषु निविष्टेषु वृष्णिवीरेषु पाण्डवः ।
आकारं गूहमानस्तु कुशलप्रश्नमब्रवीत् ।
सर्वत्र कुशलं चोक्त्वा बलदेवोऽब्रवीदिदम् ॥
बलदेवः
प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि ॥
त्वया दृष्टानि पुण्यानि वदस्व वदतांवर ।
पर्वतांश्चैव तीर्थानि वनान्यायतनानि च ॥
वैशम्पायनः
तीर्थानां दर्शनं चैव पर्वतानां च भारत ।
आपगानां वनानां च कथयामास यादवे ॥
ताः कथाः कथयन्नेव कथान्ते जनमेजय ।
कथां धर्मसमायुक्तां वृष्णिवीरे न्यवेदयत् ।
श्रुत्वा धर्मकथां पुण्यां वृष्णिवीरोऽभ्यपूजयत् ॥
ततस्तु यादवास्सर्वे मन्त्रयन्ति स्म भारत ॥
अयं देशातिथिश्श्रीमान्यतिलिङ्गधरो द्विजः ।
आवासं कमुपाश्रित्य वसेत निरुपद्रवः ।
इत्येवमब्रुवंस्ते वै रौहिणेयं तु यादवाः ॥
ददृशुः कृष्णमायान्तं सर्वे यादवनन्दनम् ।
एहि केशव तातेति रौहिणेयो वचोऽब्रवीत् ॥
यतिलिङ्गधरो विद्वान्देशातिथिरयं द्विजः ।
वर्षरात्रनिवासार्थमागतो नः पुरं प्रति ॥
स्थाने यस्मिन्निवसति तन्मे ब्रूहि जनार्दन ॥
भगवान्
त्वयि स्थिते महाभाग परवानस्मि धर्मतः ।
स्वयं तु रुचिरे स्थाने वासयेर्यदुनन्दन ॥
वैशम्पायनः
सुप्रीतस्तेन वाक्येन परिष्वज्य जनार्दनम् ।
बलदेवोऽब्रवीद्वाक्यं चिन्तयित्वा महाबलः ॥
बलदेवः
आरामे तु वसेद्धीमांश्चतुरो वर्षमासकान् ।
कन्यागृहे सुभद्राया भुक्त्वा भोजनमिष्टतः ।
लतागृहेषु वसतामिति मे धीयते मतिः ॥
लब्धानुज्ञास्त्वया तत्र मन्यन्ते सर्वयादवाः ॥
वासुदेवः
बलवान्दर्शनीयश्च वाग्मी श्रीमान्बहुश्रुतः ।
कन्यापुरसमीपे तु न युक्तमिति मे मतिः ॥
गुरुश्शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः ।
त्वयोक्तं न विरुध्येहं करिष्यामि वचस्तव ।
शुभाशुभस्य विज्ञाने नान्योऽस्ति भुवि कश्चन ॥
बलदेवः
अयं देशातिथिश्श्रीमान्सर्वधर्मविशारदः ।
धृतिमान्विनयोपेतस्सत्यवाग्विजितेन्द्रियः ॥
यतिलिङ्गधरो ह्येष को विजानाति मानसम् ।
त्वमिमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम् ॥
निवेदय सुभद्रायै मद्वाक्यपरिचोदितः ।
भक्ष्यैर्भोज्यैश्च पानैश्च अन्नैरिष्टैश्च पूजय ॥
वैशम्पायनः
स तथेति प्रतिज्ञाय सहितो यतिना हरिः ।
कृत्वा तु संविदं तेन प्रहृष्टः केशवोऽभवत् ॥
पर्वते तौ विहृत्यैव यथेष्टं कृष्णपाण्डवौ ।
तां पुरीं प्रविवेशाथ गृह्य हस्ते च पाण्डवम् ॥
प्रविश्य च गृहं रम्यं सर्वभोगसमन्वितम् ।
पार्थमावेदयामास रुक्मिणीसत्यभामयोः ॥
हृषीकेशवचश्श्रुत्वा ते उभे चोचतुर्भृशम् ॥
मनोरथो महानेष हृदि नः परिवर्तते ।
कदा द्रक्ष्याम बीभत्सुं पाण्डवं गृहमागतम् ।
इति चिन्तयमानानां पार्थो दुःखमपानुदत् ॥
प्राप्तमज्ञातरूपाभिरुत्तमाभिरपूजयन् ॥
स तं प्रियातिथिं श्रेष्ठं समीक्ष्य यतिमागतम् ।
सोदर्यां भगिनीं कृष्णस्सुभद्रामिदमब्रवीत् ॥
भगवान्
अयं देशातिथिर्भद्रे संयतो व्रतवानृषिः ।
प्राप्नोतु सततं पूजां तव कन्यापुरे वसन् ॥
आर्येण च परिज्ञातः पूजनीयो यतिस्सदा ।
तस्माद्भरस्व वार्ष्णेयि भक्ष्यैर्भोज्यैर्यतिं सदा ॥
एष यद्यदृषिर्ब्रूयात्कार्यमेव न संशयः ।
सखीभिस्सहिता भद्रे भवास्य वशवर्तिनी ॥
पुराऽपि यतयो भद्रे ये भैक्षार्थमनुव्रताः ।
ते बभूवुर्दशार्हाणां कन्यापुरनिवासिनः ॥
तेभ्यो भोज्यानि भक्ष्याणि यथाकालमतन्द्रिताः ।
कन्यापुरगताः कन्याः प्रयच्छन्ति यशस्विनि ॥
वैशम्पायनः
सा तथोक्ताऽब्रवीत्कृष्णं करिष्यामि यथाऽऽस्थ माम् ।
तोषयिष्यामि वृत्तेन कर्मणा च द्विजर्षभम् ॥
एवमेतेन रूपेण कञ्चित्कालं धनञ्जयः ।
उवास भक्ष्यैर्भोज्यैश्च भद्रया परमार्चितः ॥
तस्य सर्वगुणोपेतां वासुदेवस्य सोदराम् ।
पश्यतस्सततं भद्रां प्रादुरासीन्मनोभवः ॥
गूहयन्निव चाकारमालोक्य वरवर्णिनीम् ।
दीर्घमुष्णं विनिश्वास पार्थः कामवशं गतः ॥
न कृष्णां रूपतो मेने वासुदेवस्य सोदराम् ।
प्राप्तां हृदीन्द्रसेनां वा साक्षाद्वा वरुणात्मजाम् ॥
अतीतसमये काले सोदर्याणां धनञ्जयः ।
न सस्मार सुभद्रायाः कामाङ्कुशनिवारितः ॥
क्रीडारतिपरां भद्रां सखीजनशतैर्वृताम् ।
प्रीयते स्मार्जुनः पश्यन्स्वाहामिव हुताशनः ॥
पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः ।
समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा ॥
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता ।
उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा ॥
क्रुद्धमत्तप्रलापश्च वृष्णीनामर्जुनं प्रति ।
पौरुषे चोपमां कृत्वा प्रावर्तन्त धनुष्मताम् ॥
अन्योन्यकलहे चापि विवादे चापि वृष्णयः ।
अर्जुनोऽपि न मे तुल्यः कुतस्त्वमिति तेऽब्रुवन् ॥
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रवन् ।
अर्जुनस्य समो वीर्ये भव तात धनुर्धरः ।
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम् ॥
सत्यसन्धस्य रूपेण चातुर्येण च मोहिता ।
चारणातिथिसङ्घानां गदस्य च निशम्य सा ॥
अदृष्टे कृतभावाऽभूत्सुभद्रा भरतर्षभे ॥
कीर्तयन्ददृशे यो यः कथञ्चित्कुरुजाङ्गलम् ।
तं तमेव सदा भद्रा बीभत्सुं स्माभिपृच्छति ॥
अभीक्ष्णाशः परिप्रश्नाद् अभीक्ष्णश्रवणात्तथा ।
प्रत्यक्ष इव भद्रायाः पाण्डवस्समपद्यत ॥
भुजौ भुजगसङ्काशौ ज्याघातेन किणीकृतौ ।
पार्थोऽयमिति पश्यन्त्या निस्संशयमजायत ॥
यथारूपं हि शुश्राव सुभद्रा भरतर्षभम् ।
तथारूपमवेक्ष्यैनं परां प्रीतिमवाप सा ।
सा कदाचिदुपासीनं पप्रच्छ कुरुनन्दनम् ॥
सुभद्रा
कथं देशाः कथं शैला नानाजनपदाः कथम् ।
सरांसि सरितश्चैव वनानि च कथं यते ॥
दिशः काश्च कथं प्राप्ताश्चरता भवता सदा ॥
वैशम्पायनः
स तथोक्तस्तदा भद्रां बहुनर्मानृतं ब्रुवन् ।
उवाच परमप्रीतस्तस्या बहुविधाः कथाः ॥
निशम्य विविधं तस्य लोके चरितमात्मनः ।
कथापरिगतो भावः कन्यायास्समपद्यत ॥
पर्वसन्धौ तु कस्मिंश्चित्सुभद्रा भरतर्षभम् ।
रहस्येकान्तमासाद्य हर्षमाणाऽभ्यभाषत ॥
सुभद्रा
यतिना चरता लोकान्खाण्डवप्रस्थवासिनी ।
कश्चिद्भगवता दृष्टा पृथाऽस्माकं पितृष्वसा ॥
भ्रातृभिः प्रीयते सर्वैः कच्चिदार्यो युधिष्ठिरः ।
कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः ॥
निवृत्तसमयः कच्चिदपराधाद्धनञ्जयः ।
नियमे कामभोगानां वर्तमानः प्रिये रतः ॥
क्व नु पार्थश्चरत्यद्य बह्वीर्दुर्वसतीर्वसन् ।
सुखोचितो ह्यदुःखार्हो दीर्घबाहुररिन्दमः ।
कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवताऽर्जुनः ॥
वैशम्पायनः
निशम्य वचनं तस्यास्तामुवाच हसन्निव ॥
अर्जुनः
आर्या पृथा कुशलिनी सहपुत्रा सहस्नुषा ।
प्रीयते पश्यती पुत्रान्खाण्डवप्रस्थ आसते ॥
अनुज्ञातश्च मात्रा च सोदर्यैश्च धनञ्जयः ।
द्वारकामावसत्येको यतिलिङ्गेन पाण्डवः ।
पश्यन्ती सततं कस्मान्नाभिजानासि माधवि ॥
वैशम्पायनः
निशम्य वचनं तस्य वासुदेवसहोदरी ।
निश्वासबहुला तस्थौ क्षितिं विलिखती तदा ॥
ततः परमसंहृष्टस्सर्वशस्त्रभृतां वरः ।
अर्जुनोऽहमिति प्रीतस्तामुवाच धनञ्जयः ॥
यथा तव गतो भावश्श्रवणान्मयि भामिनि ।
त्वद्गतः सततं भावस्तथा शतगुणो मम ॥
प्रशस्तेऽहनि धर्मेण भद्रे स्वयमहं वृतः ।
सत्यवानिव सावित्र्या भविष्यामि पतिस्तव ॥
एवमुक्त्वा ततः पार्थः प्रविवेश लतागृहम् ॥
ततस्सुभद्रा ललिता लज्जाभावसमन्विता ।
मुमोह शयने दिव्ये शयाना न तथोचिता ॥
कन्यापुरे च संवृत्तं ज्ञात्वा दिव्येन चक्षुषा ।
शशास रुक्मिणीं कृष्णो भोजनादिकमर्जुने ॥
तदाप्रभृति तां भद्रां चिन्तयन्वै धनञ्जयः ।
आस्ते स्म स तदाऽऽरामे कार्श्येनेव सहाभिभूः ॥
सुभद्राऽपि न च स्वस्था पार्थं प्रति बभूव सा ।
कृशा विवर्णवदना चिन्ताशोकपरायणा ॥
निश्वासपरमा भद्रा मानसेन मनस्विनी ।
न शय्यासनभोगेषु रतिं विन्दति केन चित् ॥
देवकी
न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना ।
एवं शोकपरां भद्रां देवकी वाक्यमथाब्रवीत् ।
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने ॥
निवेदयिष्ये त्वां रामे कृष्णे चैव नरर्षभे ।
पश्चाज्जानामि ते वार्तां मा शोकं कुरु माधवि ॥
वैशम्पायनः
एवमुक्त्वा तु सा माता भद्रायाः प्रियकारिणी ।
निवेदयामास तदा भद्रामानकदुन्दुभेः ॥
रहस्येकासना तत्र भद्राऽस्वस्थेति चाब्रवीत् ।
आरामे तु यतिश्श्रीमानर्जुनस्सोऽथ नश्श्रुतः ॥
अक्रूराय च कृष्णाय आहुकाय च सात्यकेः ।
निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः ॥
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तदा ।
निवेदयित्वा कृष्णाय मन्त्रयामास नैकधा ॥
इदं कार्यमिदं कृत्यमिदमेवं विनिश्चितम् ॥
अक्रूरश्चोग्रसेनश्च सत्यकेन गदेन ह ।
पृथुश्रवाश्च कृष्णश्च सहिताश्शिनिना मुहुः ॥
रुक्मिणी सत्यभामा च देवकी रेवती तथा ।
वसुदेवेन सहिताः पुरोहितमते स्थिताः ।
विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत ॥
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत ।
विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः ॥
उमासखस्य देवस्य ब्रह्मविश्वेशरूपिणः ।
महादेवस्य पूजार्थं व्याजेन मधुसूदनः ॥
नगरे घोषयामास हितार्थं सव्यसाचिनः ॥
इतश्चतुर्थेऽहनि च अन्तर्द्वीपं च गम्यताम् ।
सदारैस्सानुयात्रैश्च सपुत्रैस्सहबान्धवैः ।
गन्तव्यं सर्ववर्णैश्च गन्तव्यं सर्वयादवैः ॥
एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः ॥
ततस्सर्वदशार्हाणामन्तर्द्वीपे नरर्षभ ।
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः ॥
कृष्णरामाहुकाक्रूराः प्रद्युम्नश्शिनिसात्यकी ।
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः ॥
युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैस्सह ।
समुद्रं प्रययुर्नौभिस्सर्वे पुरनिवासिनः ॥
ततस्त्वरितमागत्य दाशार्हगणपूजितम् ।
सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात् ॥
कृत्यवान्द्वादशाहानि स्थाता स भगवानिह ।
तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं प्रति ॥
तमुवाच हृषीकेशः कस्त्वदन्यो विशेषतः ।
तमृषिं प्रत्युपस्थातुमिह नार्हति मानवः ॥
त्वमेवास्मन्मतेनास्य महर्षेर्वशवर्तिनी ।
कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च ॥
तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम् ।
संविधानपरा भद्रे भव त्वं वशवर्तिनी ॥
वैशम्पायनः
एवमादिश्य भद्रां च रक्षां च मधुसूदनः ।
ययौ शङ्खप्रणादेन भेरीणां च महास्वनैः ॥
ततस्तद्द्वीपमासाद्य दानधर्मपरायणाः ।
उग्रसेनमुखास्सर्वे विजह्रुः कुकुरान्धकाः ॥
सप्तयोजनविस्तार आयतो दशयोजनम् ।
बभूव स महाद्वीपस्सपर्वतमहावनः ॥
सेतुपुष्करिणीजालैराक्रीडस्सर्वसात्वताम् ।
वापीपल्वलसङ्घैश्च काननैश्च मनोरमैः ॥
वासुदेवेन च द्वीपस्स सर्वैः कुकुरान्धकैः ।
बभूव परमोपेतस्त्रिविष्टप इवामरैः ॥
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः ।
उग्रसेनमुखास्सर्वे विजह्रुः कुकुरान्धकाः ॥
विचित्रमाल्याभरणाश्चित्रगन्धानुलेपनाः ।
विहाराभिमुखास्सर्वे यादवाः पानगर्विताः ।
सुनृत्तगीतवादित्रै रममाणास्तदाऽभवन् ॥
तत्र याते दशार्हाणामृषभे शार्ङ्गधन्वनि ।
सुभद्रोद्वाहनं पार्थः प्राप्तकालममन्यत ॥