वैशम्पायनः
ततः कतिपयाहस्सु तस्मिन्रैवतके गिरौ ।
वृष्ण्यन्धकानामभवत् सुमहानुत्सवो नृप ॥
तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः ।
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥
प्रसादै रत्नचित्रैश्तु गिरेस्तस्य समन्ततः ।
स देशश्शोभितो राजन्दीपवृक्षैश्च शोभितः ॥
वादित्राणि च तत्रा स्म वादकास्समवादयन् ।
ननृतुर्नर्तकाश्चैव जगुर्गीतानि गायकाः ॥
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः ।
यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ॥
पौराश्च पादचारेण यानैरुच्चावचैस्तथा ।
सदारास्सानुयात्राश्च शतशोऽथ सहस्रशः ॥
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः ।
अनुगम्यमानो बहुभिर्वैरचरत्तत्र भारत ॥
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् ।
उपगीयमानो गन्धर्वैस्स्त्रीसहस्रसहायवान् ॥
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ ।
दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ॥
अक्रूरस्सारणश्चैव गदो भानुर्विडूरथः ।
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ ।
हार्दिक्य कृतवर्मा च ये चान्ये नानुकीर्तिताः ॥
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक् पृथक् ।
तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा ॥
वासदेवो ययौ तत्र सह स्त्रीभिर्गुणान्वितः ।
दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत ॥
तदा कौतूहले तस्मिन्वर्तमाने महोत्सवे ।
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥
तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम् ।
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत ।
तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥
अब्रवीत्पुण्डरीकाक्षः प्रसहन्निव भारत ।
वनेचरस्य किमिदं कामेनाऽऽलोड्यते मनः ॥
ममैषा भगिनी पार्थ सारणस्य सहोदरी ।
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥
अर्जुनः
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा ।
रूपेणैव च सम्पन्ना किमिवैषा न मोहयेत् ॥
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् ।
यदि स्यान्मम वार्ष्णेय महिषीयं स्वसा तव ॥
देवबृन्दस्सदा त्वां तु स्मृत्वा विजयतेऽसुरान् ।
तव सन्दर्शनात् स्वामिन्नप्राप्यं न हि तत् किमु ॥
प्राप्तौ तु क उपायोऽस्यास्तं ब्रवीहि जनार्दन ।
आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ॥
वासुदेवः
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ ।
स च संशयितः पार्थ स्वभावस्स्यान्निमित्ततः ॥
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते ।
विवाहहेतुः कन्यानामिति धर्मविदो विदुः ॥
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम ।
यतिरूपधरस्त्वं तु यदा कालविपाकता ।
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥
वैशम्पायनः
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् ।
शीघ्रगान् पुरुषान् राजन् प्रेषयामासतुस्तदा ॥
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै ।
श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः ॥
भीमसेनस्तु तच्छ्रुत्वा कृतकृत्योऽभ्यमन्यत ।
इत्येवं मनुजैस्सार्धमुक्त्वा प्रीतिमुपेयिवान् ॥