वैशम्पायनः
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च ।
सर्वाणि चानुपूर्व्येण जगामामितविक्रमः ॥
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च ।
तानि गत्वा स सर्वाणि प्रभासमुपजग्मिवान् ॥
चिन्तयामास रात्रौ तु गदेन कथितां कथाम् ।
सुभद्रायाश्च माधुर्यरूपसम्पद्गुणानि च ॥
प्राप्तुं तां चिन्तयामास कोऽत्रोपायो भवेदिति ॥
वेषवैकृतमापन्नः परिव्राजकरूपधृक् ॥
कुकुरान्धकवृष्णीनामज्ञातो वेषधारणात् ।
भ्रममाणश्चरन्भैक्षं परिव्राजकवेषवान् ॥
येन केनाप्युपायेन प्रविश्य च गृहं महत् ।
दृष्ट्वा सुभद्रां कृष्णस्य भगिनीमेकसुन्दरीम् ॥
वासुदेवमतं ज्ञात्वा करिष्यामि हितं शुभम् ॥
एवं विनिश्चयं कृत्वा दीक्षितो वै तदाऽभवत् ॥
त्रिदण्डी मुण्डितः कुण्डी अक्षमालाऽङ्गुलीयकः ।
योगभारं वहन्पार्थो वटवृक्षस्य कोटरम् ॥
प्रविशन्नेव बीभत्सुर्वृष्टिं वर्षति वासवे ।
चिन्तयामास देवेशं केशवं क्लेशनाशनम् ॥
प्रणतार्तिहरं शम्भुं मायारूपेण वञ्चकम् ॥
केशवश्चिन्तितं ज्ञात्वा दिव्यज्ञानेन दृष्टवान् ॥14505
शयानश्शयने धन्ये सत्यभामासहायवान् ।
केशवस्सहसा राजञ्जहास च ननन्द च ॥
पुनः पुनस्सत्यभामा चाब्रवीत्पुरुषोत्तमम् ॥
सत्यभामा
भगवंश्चिन्तयाऽऽविष्टः शयने शयितस्सुखम् ।
भवान्बहुप्रकारेण जहास च पुनः पुनः ॥
श्रोतव्यं यदि वा कृष्ण प्रसादो यदि चेन्मयि ।
वक्तुमर्हसि लोकेश तच्छ्रोतुं कामये ह्यहम् ॥
श्रीभगवान्
पितृष्वसायाः पुत्रो मे भीमसेनानुजोऽर्जुनः ।
तीर्थयात्रां गतः पार्थः कारणात्समयात्तदा ॥
तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः ।
सुभद्रां चिन्तयानस्तु तदर्थे चापि मां पुनः ॥
चिन्तयन्नेव तां भद्रां यतिरूपधरोऽभवत् ॥
यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम् ।
येन केनाप्युपायेन दृष्ट्वा तु वरवर्णिनीम् ॥
वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम् ।
एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः ॥
छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे ।
योगभारं वहन्नेव मानसं दुःखमाप्तवान् ॥
ईदृशं मां विजानाति माधवो यदि मां स्मरन् ।
किञ्चिद्व्याजमवष्टभ्य यायात्कतिपयैर्जनैः ॥
तद्भावं प्रविचिन्त्यैव हसितं मे सुलोचने ।
नास्त्यन्यन्मा विशङ्केथाश्शपे सत्येन मे शुभे ॥
वैशम्पायनः
भ्रातरं वोऽभि पश्येति सत्यभामामदर्शयत् ।
तत उत्थाय शयनात्प्रस्थितो मधुसूदनः ॥
प्रभासं समनुप्राप्तं बीभत्सुमपराजितम् ।
तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ॥
चारणनां तु वचनादेकाकी स जनार्दनः ।
ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः ॥
ददृशाते तदाऽन्योन्यं प्रभासे कृष्णपाण्डवौ ॥
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं पथि ।
आस्तां प्रियसखायौ तौ नरनारायणावृषी ।
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत ॥
वासुदेवः
वैशम्पायनः
किमर्थं पावनानीह तीर्थान्यनुचरस्युत ॥
ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा ॥
श्रुत्वाऽथोवाच वार्ष्णेयस्त्वेवमेतदिति प्रभो ॥
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ ।
महीधरं रैवतकं वासायैवाभिजग्मतुः ॥
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् ।
पुरुषास्समलञ्चक्रुरुपजह्रुश्च भोजनम् ॥
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः ।
सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥
अभ्यनुज्ञातवांत्सर्वानर्चयित्वा च पाण्डवः ।
सत्कृतं शयनं दिव्यमभ्यगच्छत्सहाच्युतः ॥
स कथां कथयन्नेव निद्रया जनमेजय ।
कौन्तेयोऽपि हृतस्तस्मिञ्शयने सत्यविक्रमः ॥
मधुरेण स गीतेन वीणाशब्देन चानघ ।
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ॥
स कृत्वाऽवश्यकार्याणि वार्ष्णेये नाभिनन्दितः ।
वार्ष्णेयं समनुज्ञाय ततो वासमरोचयत् ।
तथेत्युक्त्वा वासुदेवो भोजनं वै शशास ह ॥
यतिरूपधरं पार्थं विसृज्य सहसा हरिः ।
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥
अलङ्कृता द्वारका तु बभूव जनमेजय ॥
दिदृक्षवश्च गोविन्दं द्वारकावासिनो जनाः ।
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥
क्षणार्धमपि वार्ष्णेया गोविन्दविरहाक्षमाः ।
कौतूहलसमाविष्टा भृशमुत्प्रेक्ष्य संस्थिताः ॥
अवलोकेषु नारीणां सहस्राणि शतानि च ।
भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥
स तथा सत्कृतस्सर्वैर्भोजवृष्ण्यन्धकात्मजैः ।
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥
कुमारैस्सर्वशो वीरस्सत्कारेणाभिवादितः ।
समानवयसस्सर्वानाश्लिष्य स पुनः पुनः ।
कृष्णस्स्वभवनं रम्यं प्रविवेश महाद्युतिः ॥
प्रवासादागतं देव्यः सर्वाः कृष्णमपूजयन् ॥