वैशम्पायनः
ततस्समुद्रे तीर्थानि दक्षिणे भरतर्षभ ।
अभ्यगच्छत्सुपुण्यानि रहितानि तपस्विभिः ॥
वर्जयन्ति स्म तीर्थानि तत्र पञ्च तु तापसाः ।
आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ॥
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् ।
करं धर्मप्लवं चैव हयमेधफलं च यत् ॥
भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ।
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः ॥
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ।
तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः ।
तीर्थान्येतानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥
तापसाः
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् ।
अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥
वैशम्पायनः
श्रुत्वा तु वचनं तेषां वार्यमाणस्तपोधनैः ।
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् ।
विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः ॥
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् ।
निजग्राह जले ग्राहश्शापमोक्षाय भारत ॥
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥
उत्कृष्ट एव तु ग्राहस्सोऽर्जुनेन तपस्विना ।
बभूव नारी कल्याणी सर्वाभरणभूषिता ॥
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ॥
तदद्भुततमं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ।
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥
अर्जुनः
का वै त्वमसि कल्याणि कुतो वाऽसि जलेचरी ।
किमर्थं च महत्पापमिदं कृतवती पुरा ॥
स्त्री
अप्सराऽस्मि महाबाहो देवारण्यविचारिणी ।
इष्टा धनपतेर्नित्यं वन्दा नाम महाबल ॥
मम सख्यश्चतस्रोऽन्यास्सर्वाः कामगमाश्शुभाः ।
ताभिस्सार्धं प्रयाताऽस्मि लोकपालनिवेशनम् ॥
ततः पश्याम वै सर्वा ब्राह्मणं संशितव्रतम् ।
रूपवन्तमधीयानमेकमेकान्तचारिणम् ।
तस्यैव तपसा राजंस्तद्वनं तेजसा वृतम् ॥
आदित्य इव तं देशं कृत्स्नमभ्यवभासयत् ॥
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् ।
अवतीर्णाऽस्मि तं देशं तपोविघ्नचिकीर्षया ॥
अहं च सौरभेयी च समीची बुद्बुदालसा ।
यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥
गायन्त्योऽथ हसन्त्यश्च नृत्यन्तो वै वराङ्गनाः ।
प्रेक्षणानि च कुर्वन्त्यो विवृतं कारयन्ति च ॥
अनिच्छन्तीरिवाङ्गानि हासभावविलासितैः ।
बाहूरुमूलदन्तानां दर्शनं वै वराङ्गनाः ।
कुर्वन्त्यो लोभयन्त्यश्च तं द्विजं परितश्श्रिताः ॥
स च नास्मासु कृतवान्मनो वीर कथञ्चन ।
नाकम्पत महातेजास्स्थितस्तपसि निर्मलः ॥
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ ।
ग्राहभूता जले यूयं चरिष्यथ शतं समाः ॥
ततो वयं प्रव्यथिताः सर्वा भारतसत्तम ।
याचाम शरणं विप्रं तं तपोधनमच्युतम् ॥
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः ।
अयुक्तं कृतवत्यश्च क्षन्तुमर्हसि नो द्विज ॥
एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन ।
यद्वयं संशितात्मानं प्रलोभयितुमागताः ॥
अवध्यास्तु स्त्रियस्सृष्टा मन्यन्ते धर्मचिन्तकाः ।
तस्माद्धर्मेण धर्मज्ञ नास्मन्हिंसितुमर्हसि ॥
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते ।
सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् ।
शरणं त्वां प्रपन्नास्स्म तस्मात्त्वं क्षन्तुमर्हसि ॥
एवमुक्तस्स धर्मात्मा ब्राह्मणश्शुभकर्मकृत् ।
प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥
ब्राह्मणः
विश्वं शतसहस्रं च सर्वमक्षय्यवाचकम् ।
परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम् ॥
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले ।
उत्तारयेज्जलात् कश्चित् स्थलं पुरुषसत्तमः ॥
तदा यूयं पुनस्सर्वं स्वरूपं प्रतिपत्स्यथ ।
अनृतं नोक्तपूर्वं मे भविताऽपि कदा चन ॥
तानि तीर्थानि सर्वाणि ततःप्रभृति चैव ह ।
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ॥
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ॥
वन्दा
ततोऽभिवाद्य तं विप्रं कृत्वा चापि प्रदक्षिणम् ।
विचिन्तया चापसृत्य तस्माद्देशात्सुदुःखिताः ॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् ।
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ॥
ता वयं चिन्तयित्वैव मुहूर्तादिव भारत ।
दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥
सम्प्रहृष्टास्स्म तं दृष्ट्वा देवर्षिममितद्युतिम् ।
अभिवाद्य च तं पार्थ स्थिता व्रीडितचेतनाः ॥
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् ।
श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ॥
नारदः
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै ।
पुण्यानि रमणीयानि तानि गच्छत मा चिरम् ॥
वन्दा
तत्राऽऽशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः ।
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥
इत्युक्त्वा नारदस्सर्वास्तत्रैवान्तरधीयत ॥
तस्मात्सर्वा वयं वीर निवसामोऽत्र नित्यशः ।
तदिदं सत्यमेवाद्य मोक्षिताऽहं त्वयाऽनघ ॥
एतास्तु मम ताः सख्यश्चतस्रोऽन्या ह्रदे स्थिताः ।
एता अपि महाबाहो मुनिशापाद्विमोक्षय ॥
वैशम्पायनः
तच्छ्रुत्वा पाण्डवश्रेष्ठस्सर्वा एव विशाम्पते ।
तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ॥
उत्थाय च जलात्सर्वाः प्रतिलभ्य स्वकं वपुः ।
तास्तदाऽप्सरसो राजन्नदृश्यन्त यथा पुरा ॥
तीर्थानि शोधयित्वाऽथ तथाऽनुज्ञाय ताः प्रभुः ।
चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ॥
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् ।
तं दृष्ट्वा पाण्डवो राजंश्चित्रवाहनमब्रवीत् ॥
चित्राङ्गदायाश्शुल्कं च गृह्णेमं बभ्रुवाहनम् ।
अनेन तु भविष्यामि ऋणान्मुक्तो जनाधिप ॥
चित्राङ्गदां पुनर्वाक्यमब्रवीत्पाकशासनिः ॥
अर्जुनः
इहैव भव भद्रे त्वं बभ्रुवाहनवर्धना ।
इन्द्रपस्थनिवासं मे त्वं तत्राऽऽगत्य रंस्यसे ॥
कुन्तीं युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ ।
आगता तत्र पश्येथा अन्यानपि च बान्धवान् ॥
बान्धवैस्सहिता भद्रे नन्दसे त्वमनिन्दिते ॥
धर्मे स्थितस्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।
जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति ॥
तत्राऽऽगच्छन्ति राजानः पृथिव्यां नृपसञ्ज्ञिताः ।
बहूनि रत्नान्यादाय आगमिष्यति ते पिता ॥
एकसार्थं प्रयाताऽसि चित्रवाहनसेनया ।
द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः ॥
बभ्रुवाहननाम्ना तु मम प्राणो बहिश्चरः ।
तस्माद्भरस्व पुत्रं वै पुरूवंशविवर्धनम् ॥
चित्रवाहनदायादं धर्मात्पौरवनन्दनम् ।
पाण्डवानां प्रियं पुत्रं तस्मात्पालय सर्वदा ॥
विप्रयोगेण सन्तापं मा कृथास्त्वमनिन्दिते ॥
वैशम्पायनः
चित्राङ्गदामेवमुक्त्वा सागरानूपमाश्रितः ।
स्थानं दूरं समाप्लुत्य दत्त्वा बहुधनं तदा ॥
केरलान्समतिक्रम्य गोकर्णमभितोऽगमत् ॥