वैशम्पायनः
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यस्स भारत ।
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥
अगस्त्यवनमासाद्य वसिष्ठस्य च पर्वतम् ।
भृगुतीर्थे च कौरव्यः कृतवाञ्शौचमात्मनः ॥
प्रददौ गोसहस्राणि यज्ञानुद्दिश्य दक्षिणाः ।
निवेशांश्च द्विजातिभ्यस्सोऽददात्कुरुसत्तमः ॥
हिरण्यबिन्दोस्तीर्थानि स्नात्वा पुरुषसत्तमः ।
दृष्टवान्पर्वतश्रेष्ठान् पुण्यान्यायतनानि च ॥
अवतीर्य नरश्रेष्ठो ब्राह्मणैस्सह भारत ।
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः ।
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् ।
महानदीं गयां चैव गङ्गामपि च भारत ॥
एवं तीर्थानि सर्वाणि पश्यमानस्तथाऽऽश्रमान् ।
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो धनं ददौ ॥
अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित् ।
जगाम तानि सर्वाणि पुण्यान्यायतनानि च ।
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ॥
कलिङ्गराष्ट्रद्वारे तु ब्राह्मणाः पाण्डवानुगाः ।
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः ।
सहायैरल्पकैश्शूरैः प्रययौ लवणार्णवम् ॥
स कलिङ्गानतिक्रम्य देशानायतनानि च ।
हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः ॥
शूर्पाकारमथाऽऽप्लुत्य सागरानूपमाश्रितः ।
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् ॥
गोदावर्यां ततस्स्नात्वा तामतीत्य महाबलः ।
कावेरीं तामथाऽऽसाद्य सङ्गमे सागरस्य ह ॥
स्नात्वा सम्पूज्य देवांश्च पितॄंश्च मुनिभिस्सह ।
समुद्रतीरेण शनैर्मणलूरुं जगाम ह ॥
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।
अत्र त्रयोदशे मासे मणलूरेश्वरं प्रभुम् ॥
अभिगम्य महाबाहुमभ्यगच्छन्महीपतिम् ॥
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ।
सर्वशास्त्रेषु नेतारं सर्वास्त्रज्ञमकल्मषम् ॥
धर्मे सत्ये दमे शौचे शौर्ये चैव विशेषतः ।
द्विजराजऋषीणां च धार्मिकाणां महास्थले ।
कीर्तने चोपमाभूतं क्षत्रधर्मविदुत्तमम् ॥
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ।
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ॥
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम् ।
अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ॥
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥
चित्रवाहनः
राजा प्रभाकरो नाम कुलेऽस्मिन्सम्बभूव ह ।
अपुत्रः प्रसवेनार्थी तपस्तेपे स चोत्तमम् ॥
उग्रेण तपसा तेन प्रणिपत्य प्रणम्य च ।
ईश्वरस्तोषितः पार्थ देवदेव उमापतिः ॥
स तस्मै भगवान्प्रादादेकप्रसवजं कुलम् ।
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ॥
तेषां कुमाराः पूर्वेषां सर्वेषां मम जज्ञिरे ।
कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥
पुत्रो ममायमिति मे भावना पुरुषोत्तम ।
पुत्रिकाहेतुविधिना सम्मता भरतर्षभ ॥
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया ।
एतच्छुल्कं भवत्वस्यां कुलकृज्जायतामिह ॥
एतेन समयेनेमां प्रतिगृह्णीष्व भारत ॥
वैशम्पायनः
स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च ।
मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम् ॥
उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह ॥