वैशम्पायनः
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् ।
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ॥
वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः ।
मौक्षाश्च भगवद्भक्तास्सूताः पौराणिकाश्च ये ॥
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः ।
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ॥
एतैश्चान्यैश्च बहुभिस्सहायैः पाण्डुनन्दनः ।
पृथक्छ्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ॥
रमणीयानि चित्राणि वनानि च सरांसि च ।
सरितस्सागरांश्चैव देशानपि च भारत ।
पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः ॥
स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ॥
तस्य तत्राद्भुतं कर्म शृणु मे जनमेजय ।
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी ॥
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत ।
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ॥
तेषु प्रणीयमानेषु ज्वलितेषु हुतेषु च ।
कृतपुष्पोपहारेषु निरन्तरगतेषु च ॥
कृताभिषेकैर्विद्वद्भिर्नियतैस्सत्पथे स्थितैः ।
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ॥
तथा पर्याकुले तस्मिन्निवेशे पाण्डवर्षभः ।
अभिषेकाय कौन्तेयो गङ्गामवततार ह ॥
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् ।
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ॥
अपकृष्टो महाबाहुर्नागराजस्य कन्यया ।
अन्तर्जले महाराज उलूप्या कामयानया ॥
ददर्श पाण्डवस्तत्र पावकं सुसमाहितः ।
कौरव्यस्याथ नागस्य भवने परमार्चिते ॥
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः ।
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ॥
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा ।
प्रसहन्निव कौन्तेय इदं वचनमब्रवीत् ॥
अर्जुनः
किमिदं साहसं भीरु कृतवत्यसि भामिनि ।
कश्चायं सुभगे देशः का च त्वं कस्य वात्मजा ॥
उलूपी
ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।
तस्याहं दुहिता पार्थ उलूपी नाम पन्नगी ॥
साऽहं त्वामभिषेकार्थमवतीर्णं सरिद्वराम् ।
दृष्टवत्येव कौन्तेय कन्दर्पेणापि मूर्च्छिता ॥
तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन ।
अनन्यां नन्दयस्वाद्य प्रदानेनाऽऽत्मनो रहः ॥
अर्जुनः
ब्रह्मचर्यमिदं भद्रे मम द्वादशमासिकम् ।
धर्मराजेन चादिष्टो नाहमस्मि स्वयं वशः ॥
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि ।
अनृतं नोक्तपूर्वं च मया किञ्चन कर्हिचित् ॥
कथं च नानृतं च स्यात्तव चैव प्रियं भवेत् ।
अधर्मो मे न सिद्ध्येत तथा कार्यं भुजङ्गमे ॥
उलूपी
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् ।
यथा हि ते ब्रह्मचर्यमिति वस्समयः कृतः ॥
तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् ।
कृतवांस्तत्र धर्मार्थमत्र धर्मो न लुप्यते ॥
परित्राणं च कर्तव्यमार्तानां पृथुलोचन ।
कृत्वा मम परित्राणं तव धर्मो न लुप्यते ॥
त्वया कामप्रचाराय प्रेरितं न हि यन्मनः ।
तस्मात्तव प्रत्यवायो युज्यते न हि कुत्रचित् ॥
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः ।
स च ते धर्म एव स्याद्दत्वा प्राणान्ममार्जुन ॥
भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो ।
न करिष्यसि चेदेवं मृतां मामुपधारय ॥
प्राणदानान्महाबाहो चर धर्ममनुत्तमम् ।
शरणं च प्रपन्नाऽस्मि त्वामद्य पुरुषोत्तम ॥
दीनाननाथांश्च कौन्तेय परिरक्षसि नित्यशः ।
साऽहं शऱणमभ्येमि रोरवीमि च दुःखिता ॥
याचे त्वामभिकामाऽहं तस्मात्कुरु मम प्रियम् ।
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ॥
वैशम्पायनः
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया ।
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ॥
स नागभवने रात्रिं तामुषित्वा प्रतापवान् ।
पुत्रमुत्पादयामास स तस्यां सुमनोहरम् ।
इरावन्तं महाभागं महाबलपराक्रमम् ॥
विमलेऽभ्युदिते सूर्ये कौरव्यस्य निवेशनात् ।
निश्चक्राम तदा पार्थस्स्वमेव भवनं शुभम् ॥