वैशम्पायनः
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः ।
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान् महीक्षितः ॥
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् ।
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥
ते तया तैश्च सा वीरैः पतिभिस्सह पञ्चभिः ।
बभूव परमप्रीता नागैरिव सरस्वती ॥
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु ।
व्यवर्धन् कुरवस्सर्वे हीनदोषास्सुखान्विताः ॥
अथ दीर्घेण कालेन ब्राह्मणस्य विशाम्पते ।
कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥
ह्रियमाणे धने तस्मिन् ब्राह्मणः क्रोधमूर्छितः ।
आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ॥
ब्राह्मणः
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः ।
प्रगृह्य चास्मद्विषयादभिधावन्ति पाण्डवाः ।
ब्राह्मणस्याप्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते ॥
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाऽभिमन्यते ॥
ब्राह्मणस्वे हृते चोरैर्धर्मार्थौ च विलोपितौ ।
रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥
वैशम्पायनः
रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः ।
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ।
श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम् ॥
आयुधानि च यत्राऽऽसन्पाण्डवानां महात्मनाम् ।
कृष्णया सह तत्राऽऽसीद्धर्मराजो युधिष्ठिरः ॥
स प्रवेशाय चाशक्तो गन्तुमिच्छंश्च पाण्डवः ।
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ॥
आक्रन्देन च कौन्तेयश्चिन्तयामास दुःखितः ॥
ह्रियमाणे धने तस्मिन् ब्राह्मणस्य तपस्विनः ।
उपप्रेक्षणजोऽधर्मस्सुमहान् स्यान्महीपतेः ।
आस्रप्रमार्जनं तस्य कर्तव्यमिति निश्चयः ॥
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ।
नास्तिक्यं चापि सर्वेषामस्माकं स्यादधर्मजम् ॥
प्रतितिष्ठेत लोकेऽस्मिनधर्मश्चैव नो भवेत् ॥
अनापृच्छ्यैव राजानं गते मयि न संशयः ।
अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम ।
अधर्मो वै महानस्तु वने वा मरणं मम ।
शरीरस्यापि नाशात्तु धर्म एव विशिष्यते ॥
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः ।
अनुप्रविश्य राजानमभिवाद्य विनिस्सृतः ॥
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत ॥
अर्जुनः
ब्राह्मणाऽऽगम्यतां शीघ्रं यावत्परधनैषिणः ।
अदूराध्वगताः क्षुद्रास्तावद्गच्छावहे सह ।
यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥
वैशम्पायनः
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी ।
शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम् ॥
ब्राह्मणस्योपाकृत्य यशः पीत्वा च पाण्डवः ।
आजगाम पुरं वीरस्सव्यसाची धनञ्जयः ॥
सोऽभिवाद्य गुरून्सर्वास्तैश्चापि प्रतिनन्दितः ।
धर्मराजमुवाचेदं व्रतमादिश्यतां मम ॥
समयस्समतिक्रान्तो भवतो दर्शनान्मम ।
वनवासं गमिष्यामि समयो ह्येष नः कृतः ॥
इत्युक्तो धर्मरास्तु सहसा वाक्यमब्रवीत् ॥
युधिष्ठिरः
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ।
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमब्रवीत् ।
प्रमाणमस्मि यदि ते मत्तश्शृणु वचो मम ॥
अनुप्रवेशं यद्वीर कृतवांस्त्वं ममाप्रियम् ।
सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥
गुरोरनुप्रवेशेन नोपघातो यवीयसः ।
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकृत् ॥
निवर्तस्व महाबाहो कुरुष्व वचनं मम ।
न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥
अर्जुनः
न व्याजेन चरेद्धर्ममिति मे भवतश्श्रुतम् ।
न तस्माद्विचलिष्यामि सत्येनाऽऽयुधमालभे ॥
आज्ञा तु मम दातव्या भवता कीर्तिवर्धन ।
भवदाज्ञामृते किञ्चिन्न कार्यमिति निश्चितम् ॥
वैशम्पायनः
सोऽभ्यनुज्ञाय राजानं ब्रह्मचर्यादिदीक्षितः ।
वने द्वादश मासानां वासायोपजगाम ह ॥