नारदः-
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा ।
निकुम्भो नाम दैत्येन्द्रस् तेजसा बलवानभूत् ॥
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ ।
सहान्योन्येन भुञ्जाते विनाऽन्योन्यं न गच्छताम् ॥
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ।
एकशीलसमाचारौ द्विधैवैकोऽभवच्च यौ ।
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिष्ठितौ ॥
त्रैलोक्यविजये यत्तौ समास्थायैकनिश्चयम् ।
दीक्षां कृत्वा गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः ॥
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ॥
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ।
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ॥
आत्ममांसानि जुह्वान्तौ पादाङ्गुष्ठाग्रविष्ठितौ ।
ऊर्ध्वबाहू ह्यनिमिषौ दीर्घकालं धृतव्रतौ ॥
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः ।
धूमं प्रमुमुचे विन्ध्यस् तदद्भुतमिवाभवत् ॥
ततो देवा भवन् भीता उग्रं दृष्ट्वा तयोस्तपः ।
ततस्तपोविघातार्थं देवा विघ्नानि चक्रिरे ॥
रत्नैः प्रलोभयामासुर् स्त्रीभिश्चोभौ पुनःपुनः ।
न च तौ चक्रतुर्भङ्गं व्रतस्य तु महाव्रतौ ।
अथ मायां पुनर्देवास् तयोश्चक्रुर्महात्मनोः ॥
भगिन्यो मातरो भार्यास् तयोर्बन्धुजनस्तथा ।
परीयमाना वित्रस्ताश् शूलहस्तेन रक्षसा ॥
स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ।
अभिभाष्य तु तास्सर्वास् तौ त्राहीति पुनः पुनः ॥
यदा क्षोभं न गच्छेताम् आर्तिं वैकतरस्तयोः ।
ततस्स्त्रियस्तास्सन्त्रस्तास् सर्वमन्तरधीयत ॥
ततः पितामहस्साक्षाद् अभिगम्य महासुरौ ।
वरेण च्छ्दयामास सर्वलोकपितामहः ॥
ततस्सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ ।
दृष्ट्वा पितामहं देवम् उभौ तौ प्राञ्जली तदा ॥
सुन्दोपसुन्दौ-
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा ।
आवयोस्तपसाऽनेन यदि प्रीतः पितामहः ॥
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ ।
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥
पितामहः-
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति ।
अन्यद्वृणीतं मृत्योश्च विधानममरैस्सह ॥
सुन्दोपसुन्दौ-
करिष्यावेदमिति यन्महदप्युत्थितं तपः ।
आवयोर्हेतुना फेन नामरत्वं विधीयते ॥
पितामहः-
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः ।
हेतुनाऽनेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥
सुन्दोपसुन्दौ-
त्रिषु लोकेषु यद्भूतं सर्वं स्थावरजङ्गमम् ।
सर्वस्मान्नौ भयं न स्याद् ऋतेऽन्योन्यात् पितामह ॥
पितामहः-
यत् प्रार्थितं यथोक्तं तत् काममेव ददामि वाम् ।
मृत्योर्विधानमेतच्च यथावद्वा भविष्यति ॥
नारदः-
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः ।
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥
लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तौ तावुभौ ।
अवध्यौ सर्वलोकस्य स्वयमेवावनिं गतौ ॥
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ ।
सर्वस्सुहृज्जनस्ताभ्यां प्रहर्षमुपजग्मिवान् ॥
ततस्तौ तु जटा भित्त्वा मौलिनौ सम्बभूवतुः ।
महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥
अकालकौमुदीं चैवं चक्रतुस्सार्वकालिकीम् ।
दैत्येन्दौ परमप्रीतौ तयोश्चैव सुहृज्जनः ॥
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति ।
पीयतां दीयतां चेति वाच आसन् गृहे गृहे ॥
तत्रतत्र महानादैर् उद्घुष्टतलनादितैः ।
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत् पुरम् ॥
तैस्तैर्विहारैर्बहुभिर् दैत्येन्द्राणां महौजसाम् ।
समास्सङ्क्रीडतां तेषाम् अहरेकमिवाभवत् ॥
उत्सवे वर्तमाने तु त्रैलोक्याकाङ्क्षिणावुभौ ।
मन्त्रयित्वा ततस्सेनां तावज्ञापयतां तदा ॥
सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः ।
कृत्वा प्रास्थानिकं यात्राम् असुरौ ययतुस्तदा ॥
गदापिट्टसधारिण्या शूलमुद्गरहस्तया ।
प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ॥
मङ्गलैस्स्तुतिभिश्चापि विजयं प्रति संहितौ ।
चारणैस्स्तूयमानौ तौ जग्मतुः परया मुदा ॥
तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ ।
देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ॥
तयोरागमनं ज्ञात्वा वरदानं च तत् प्रभोः ।
हित्वा त्रिविष्टपं जग्मुर् ब्रह्मलोकं ततस्सुराः ॥
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा ।
खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ ॥
अन्तर्भूमिगतान् नागाञ् जित्वा तौ तु महासुरौ ।
समुद्रवासिनीस्सर्वा म्लेच्छजातीर्विजिग्यतुः ॥
ततस्सर्वां महीं जेतुम् आरब्धावुग्रशासनौ ।
सैनिकांश्च समाहूय सुतीक्ष्णं वाचमूचतुः ॥
राजर्षयो महायज्ञैर् हव्यकव्यैर्द्विजातयः ।
तेजो बलं च देवानां वर्धुयन्ते श्रियं तथा ॥
तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् ।
सम्भूय सर्वैरस्माभिः कार्यस्सर्वात्मना वधः ॥
एवं सर्वान् समादिश्य पूर्वतीरे महोदधेः ।
क्रूरां मतिं समास्थाय जग्मतुस्सर्वतोदिशम् ॥
यज्ञैर्यजन्ति ये के चिद् याजयन्ति च ये द्विजाः ।
तान् सर्वानसुरौ दृष्ट्वा बलिनौ जघ्नतुस्ततः ॥
आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् ।
गृहीत्वा प्रक्षिपन्त्यप्सु विस्रब्धास्सैनिकास्तदा ॥
तपोधनैश्च ये शापा क्रुद्धैरुक्ता महात्मभिः ।
नाक्रामन्ति तयोस्तेन वरदानेन च प्रभो ॥
नाक्रामन्ति यदा शापा बाणा मुक्ताश्शिलास्विव ।
नियमांस्तु परित्यज्य विद्रवन्ति द्विजातयः ॥
पृथिव्यां ये तपस्सिद्धाश् शान्ता दमपरायणाः ।
तयोर्भयाद्दुद्रुविरे वैनतेयादिवोरगाः ॥
मथितैराश्रमैर्भग्नैर् विकीर्णैः कलशैस्स्रुवैः ।
शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ॥
ततो राजन्नदृश्यद्भिर् ऋषिभिश्च तपोधनैः ।
उभौ विनिश्चयं कृत्वा विकुर्वाणौ वधैषिणौ ॥
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ ।
सल्ँलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ॥
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ ।
तैरुपायैस्तु तान् क्रूरान् ऋषीन् दृष्ट्वा निजघ्नतुः ॥
निवृत्तनित्यस्वाध्याया प्रनष्टनृपतिद्विजा ।
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥
हाहाभूता भयार्ता च निवृत्तविपणापणा ।
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा ।
अस्थिकङ्कालसङ्कीर्णा बभूव ह्युग्रदर्शना ॥
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् ।
जगत् प्रतिभयाकारं दुष्प्रेक्ष्यमभवत् तदा ॥
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः ।
जग्मुर्विषादं तत् कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।
निस्सपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥
ततो देवर्षयस्सर्वे सिद्धाश्च परमर्षयः ।
जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत् ॥
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।
पितामहस्य भवनं जग्मुस्ते शोककातराः ॥
ततो ददृशुरासीनं सह देवैः पितामहम् ।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात् परिवारितम् ॥
तत्र विष्णुर्महादेवस् तत्राग्निर्वायुना सह ।
चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥
वैखानसा वालखिल्यास् सोमपाश्च मरीचिपाः ।
अजाश्चैवाजमीढाश्च तेजोगर्भास्तपस्विनः ॥
ऋषयस्सर्व एवैते पितामहमुपागमन् ॥
ततोऽभिगम्य सहितास् सर्व एव महर्षयः ।
सुन्दोपसुन्दयौः कर्म सर्वमेवाशशंसिरे ॥
यथा हृतं यथा चैव कृतं येन क्रमेण च ।
न्यवेदयंस्ततस्सर्वम् अखिलेन पितामहम् ॥
ततो देवगणास्सर्वे ते चैव परमर्षयः ।
तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥
ततः पितामहश्श्रुत्वा सर्वेषां तद्वचस्तदा ।
मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ॥
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ।
सृज्यतां प्रार्थनीयेन रूपेण स्त्रीत्यथाब्रवीत् ॥
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य वै ।
निर्ममेऽपि च तां दिव्यां चिन्तयित्वा प्रयत्रतः ॥
त्रिषु लोकेषु यत् किञ्चिद् भूतं स्थावरजङ्गमम् ।
समानयद्दर्शनीयं तत्तद्यत्रात् ततस्ततः ॥
तिलशश्चैव रत्नानि तस्या गात्रे न्यवेशयत् ।
तां रत्नसङ्घातमयीम् असृजद्देवरूपिणीम् ॥
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा ।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमा भुवि ॥
न तस्यास्सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा ।
निर्मितं सर्वगात्रेषु यत्र दृष्टिर्न सज्जते ॥
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती ।
पितामहमुपातिष्ठत् किं करोमीति चाब्रवीत् ॥
प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै वरं ददौ ।
कान्तत्वं सर्वभूतानां स्वश्रियाऽनुपमं वपुः ॥
सा तेन वरदानेन कर्तुश्च क्रियया तदा ।
जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥
तिलं तिलं समादाय रत्नानां यद्विनिर्मिता ।
तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥
पितामहः-
गच्छ सुन्दोपसुन्दाभ्याम् असुराभ्यां तिलोत्तमे ।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥
त्वत्कृते दर्शानादेव रूपसम्पत्कृते च वै ।
विरोधस्स्याद्यथा ताभ्याम् अन्योन्यं तु तथा कुरु ॥
नारदः-
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् ।
चकार मण्डलं सा वै विबुधानां पितामहम् ॥
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः ।
देवाश्चैवोत्तरेणासन् सर्वतस्त्वृषयोऽभवन् ॥
कुर्वन्त्यां तु तदा तस्यां मण्डलं तत्प्रदक्षिणम् ।
ब्रह्मा विष्णुश्च भगवान् तृणीकृत्यावतिष्टते ॥
इन्द्रस्स्थाणुश्च भगवान् धैर्यं कृत्वा व्यवस्थितौ ॥
द्रष्टुकामस्य रुद्रस्य गतायां पार्श्वतस्ततः ।
अन्यदञ्चितपक्ष्माक्षं पश्चिमं निस्सृतं मुखम् ॥
गतायाश्चोत्तरं पार्श्वम् उत्तरं निस्सृतं मुखम् ।
पृष्ठतः परिवर्तन्त्या दक्षिणं निस्सृतं मुखम् ॥
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः ।
रक्तानां च विशालानां सहस्रं सर्वतोऽभवत् ॥
एवं चतुर्मुखस्स्थाणुर् महादेवोऽभवत् पुरा ।
तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥
तथा देवनिकायानाम् ऋषीणां चैव सर्वशः ।
मुखान्यपि प्रवर्तन्ते येन याति तिलोत्तमा ॥
तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम् ।
सर्वेषामेव भूयिष्ठम् ऋते देवं पितामहम् ॥
गच्छन्त्यां च तया देवास् सर्वे च परमर्षयः ।
कृतमित्येव तत् कार्यं मेनिरे रूपसम्पदा ॥
तिलोत्तमायां तु तदा गतायां लोकभावनः ।
कृतं कार्यमिति श्रीमान् अब्रवीच्च पितामहः ।
सर्वान् विसर्जयामास देवानृषिगणांश्च तान् ॥
जित्वा तु पृथिवीं दैत्यौ निस्सपत्नौ गतव्यथौ ।
त्रैलोक्यं तु वशे कृत्वा कृतकृत्यौ बभूवतुः ॥
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् ।
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥
यदा न प्रतिषेद्धारस् तयोस्सन्तीह के चन |
निरुद्योगौ तदा भूत्वा विजह्राते यथाऽमरो ॥
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैश्च पुष्कलैः ।
पानैश्च विविधैरन्यैः परां प्रीतिमवापतुः ॥
अन्तःपुरे वनोद्याने पर्वतेपावनेषु च ।
यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥
ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले ।
पुष्पिताग्रेषु सालेषु विहारमभिजग्मतुः ॥
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ ।
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः ॥
ततो वादित्रनृत्ताभ्याम् उपातिष्ठंस्ततस्स्त्रियः ।
गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ॥
ततस्तिलोत्तमा तस्मिन् वने पुष्पाणि चिन्वती ।
वेषमादीप्तमाधाय रक्तेनैकेन वाससा ॥
नदीतीरेषु जातान् सा कर्णिकारान् प्रचिन्वती ।
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ ।
दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः ॥
तावाप्लुत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता ।
उभौ च कामसंयुक्तावुभौ प्रार्थयतां च ताम् ॥
दक्षिणे तां करे कूरस् सुन्दो जग्राह पाणिना ।
उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ॥
वरप्रदानमत्तौ तावौरसेन बलेन च ।
धनरत्नमदाभ्यां च सुरापानमदेन च ॥
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ ॥
तौ कटाक्षेण दैत्येन्द्रावाकर्षति मुहुर्मुहुः ।
दक्षिणेन कटाक्षेण सुन्दं जग्राह कामिनी ।
वामनैव कटाक्षेण उपसुन्दं जिघृक्षती ॥
गन्धाभरणरूपैस्तौ व्यामोहं जग्मतुस्तदा ।
मदकामसमाविष्टौ परस्परमथोचतुः ॥
मम भार्या तव गुरुर् इति सुन्दोऽभ्यभाषत ।
मम भार्या तव वधूर् उपसुन्दोऽभ्यभाषत ॥
नैषा तव ममैषेति तत्र तौ मन्युराविशत् ।
तस्या हेतोर्गदे भीमे सङ्गृह्णीतामुभौ हि तौ ॥
प्रगृह्य तौ गदे भीमे तस्याः कामेन मोहितौ ।
अहम्पूर्वमहम्पूर्वम् इत्यन्योन्यं निजघ्नतुः ॥
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले ।
रुधिरेणैव लिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥
ततस्ता विद्रुता नार्यस् स च दैत्यगणस्तदा ।
पातालमगमन् सर्वो विषादभयशङ्किताः ॥
ततः पितामहस्तत्र सहदेवैर्महर्षिभिः ।
आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ॥
वरेण च्छन्दिता सा च भगवत्प्रीतिमेव सा ।
वरयामास तत्रैतां प्रीतः प्राह पितामहः ॥
पितामहः-
आदित्यचरिताल्ँलोकान् विचरिष्यसि तेजसा ।
तेजसा तेन दृष्टस्त्वां न हरिष्यति कश्चन ॥
नारदः-
एवं तस्यै वरं दत्वा सर्वलोकपितामहः ।
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ॥
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ ।
तिलोत्तमार्थं सङ्क्रुद्धावन्योन्यमभिजघ्नतुः ॥
तस्माद्ब्रवीमि वस्स्नेहात् सर्वान् भरतसत्तमाः ॥
यथा वो नात्र भेदस्स्यात् सर्वेषां द्रौपदीकृते ।
तथा कुरुत भद्रं वो मम चेत् प्रियमिच्छथ ।
यथा सुन्दोपसुन्दाभ्यां तथा न स्याद्युधिष्ठिर ॥
वैशम्पायनः-
एवमुक्ता महात्मानो नारदेन महर्षिणा ।
समयं चक्रिरे राजंस् तेऽन्योन्येन समागताः ॥
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ।
एकैकस्य गृहे कृष्णा वसेद्वर्षमकल्मषा ॥
द्रौपद्या च समासीनम् अन्योन्यं यो विदर्शयेत् ।
स नो द्वादश वै मासान् व्रतचारी वने वसेत् ॥
कृते च समये तस्मिन् पाण्डवैर्धर्मचारिभिः ।
ततस्स भगवांस्तत्र पाण्डवैरर्चितः प्रभुः ॥
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ।
एवं तैस्समयः पूर्वं कृतो नारदचोदितैः ॥
न चाभिद्यन्त ते सर्वे तदाऽन्योन्येन भारत ॥
एतद्विस्तरशस्सर्वम् आख्यातं ते नरेश्वर ।
काले च तस्मिन् सम्पन्नं यथावज्जनमेजय ॥ ॥