वैशम्पायनः-
दुर्योधनस्य महिषी काशिराजसुता तदा ।
धृतराष्ट्रस्य पुत्राणां वधूभिस्सहिता तदा ।
पाञ्चालीं प्रतिजग्राह द्रौपदीं श्रीमिवापराम् ॥
पूजयामास पूजार्हां शचीदेवीमिवागताम् ।
ववन्दे तत्र गान्धारीं माधवी कृष्णया सह ॥
आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे ॥
परिष्वज्य च गान्धारी कृष्णां कमललोचनाम् ।
पुत्राणां मम पाञ्चाली मृत्युरेवेत्यमन्यत ।
सा चिन्त्य विदुरं प्राह युक्तितस्सुबलात्मजा ॥
गान्धारी-
कुन्तीं राजसुतां क्षत्तस् सवधूं सपरिच्छदाम् ।
पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते ॥
करणेन मुहूर्तेन नक्षत्रेण शुभे तिथौ ।
यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः ॥
वैशम्पायनः-
तथेत्येव तदा क्षत्ता कारयामास तत्तदा ॥
पूजयामासुरत्यर्थं बान्धवाः पाण्डवांस्तदा ।
नागराश्श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान् ॥
भीष्मो द्रोणस्तथा कर्णो बाह्लीकस्ससुतस्तदा ।
शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम् ॥
एवं विहरतां तेषां पाण्डवानां महात्मनाम् ।
नेता सर्वस्य कार्यस्य विदुरो राजशासनात् ॥
धृतराष्ट्रः-
विश्रान्तास्ते महात्मानः कञ्चित् कालं सकेशवाः ।
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ।
भ्रातृभिस्सह कौन्तेय निबोध त्वं वचो मम ॥
पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत् ॥
शासनान्मम कौन्तेय मम भ्राता महाबलः ।
कृतवान् दुष्करं कर्म नित्यमेव विशाम्पते ।
तस्मात् त्वमपि कौन्तेय शासनं कुरु मा चिरम् ॥
मम पुत्रा दुरात्मानो दर्पाहङ्कारसंयुताः ।
शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर ॥
स्वकार्यनिरतैर्नित्यम् अवलिप्तैर्दुरात्मभिः ।
पुनर्वै विग्रहो मा भूत् खाण्डवप्रस्थमाविश ॥
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् ।
संरक्ष्यमाणान् पार्थेन त्रिदशानिव वज्रिणा ॥
अर्धराज्यं तु सम्प्राप्य खाण्डवप्रस्थणाविश ।
केशवो यदि मन्यते तत् कर्तव्यमसंशयम् ॥
वैशम्पायनः-
प्रतिगृह्य तु ते वाक्यं नृपं सर्वे प्रणम्य च ।
वासुदेवेन सम्मत्र्य पाण्डवास्समुपाविशन् ॥
धृतराष्ट्रः-
अभिषेकस्य सम्भारान् क्षत्तरानय मा चिरम् ।
अभिषिक्तं करिष्यामि अद्य वै कुरुनन्दनम् ॥
ब्राह्मणा नैगमश्रेष्ठाश् श्रेणीमुख्याश्च सर्वशः ।
आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः ॥
पुण्याहं वाच्यतां तात गोसहस्रं तु दीयताम् ।
ग्राममुख्याश्च विप्रेभ्यो दीयन्तां सहदक्षिणाः ॥
अङ्गदे मकुटं क्षत्तर् हस्ताभरणमानय ॥
मुक्तावलीश्च हारं च निष्कादीन् कुण्डलानि च ।
कटिबन्धश्च सूत्रं च तथोदरनिबन्धनम् ॥
अष्टोत्तरसहस्रं तु ब्राह्मणाधिष्ठिता गजाः ।
जाह्नवीसलिलं शीघ्रम् आनीयन्तां पुरोहितैः ॥
अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम् ।
औपवाह्योपरिगतं दिव्यचारमरवीजितम् ॥
सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम् ।
जयेति द्विजवाक्येन स्तूयमानं नृपैस्तथा ॥
दृष्ट्वा कुन्तीसुतं ज्येष्ठम् आजमीढं युधिष्ठिरम् ।
प्रीताः प्रीतेन मनसा प्रशंसन्तु परे जनाः ॥
वैशम्पायनः-
पाण्डोः कृतोपकारस्य राज्यं दत्वा ममैव च ।
प्रतिक्रिया कृतमिदं भविष्यति न संशयः ।
भीष्मो द्रोणः कृपः क्षत्ता साधु साध्वित्यभाषत ॥
श्रीवासुदेवः-
युक्तमेतन्महाराज कौरवाणां यशस्करम् ।
शीघ्रमद्यैव राजेन्द्र यथोक्तं कर्तुमर्हसि ॥
वैशम्पायनः-
इत्येवमुक्तो वार्ष्णेयस् त्वरयामास तं तदा ।
तथोक्तं धृतराष्ट्रश्च कारयामास कौरवः ॥
तस्मिन् क्षणे महाराज कृष्णद्वैपायनस्तदा ।
आगत्य कुरुभिस्सर्वैः पूजितस्ससुहृद्गणैः ॥
मूर्धावसिक्तैस्सहितो ब्राह्मणैर्वेदपारगैः ।
कारयामास विधिवत् केशवानुमते तदा ॥
कृपो द्रोणश्च भीष्मश्च धौम्यश्च व्यासकेशवौ ।
बाह्लीकस्सोमदत्तश्च चातुर्वेद्यपुरस्कृताः ॥
अभिषेकं तदा चक्रुर् भद्रपीठे सुसंयतम् ॥
जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नरर्षभान् ।
राजसूयादिभिर्यज्ञैः क्रतुभिर्भूरिदक्षिणैः ।
स्नात्वा ह्यवभृथस्नानं मोदतां बान्धवैस्सह ॥
एवमुक्त्वा तु ते सर्वे आशीर्भिरभिपूजयन् ॥
मूर्धाभिषिक्तः कौरव्यस् सर्वाभरणभूषितः ।
जयेति संस्तुतो राजा प्रददौ धनमक्षयम् ॥
सर्वमूर्धावसिक्तैश्च पूजितः कुरनन्दनः ।
औपवाह्यमथारुह्य श्वेतच्छत्रेण शोभितः ।
रराजानुगतो राजा महेन्द्र इव दैवतैः ॥
ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम् ।
प्रविवेश तदा राजा नागरैः पूजितो भृशम् ॥
मूर्धावसिक्तं कौन्तेयम् अभ्यनन्दन्त बान्धवाः ।
गान्धारिपुत्राश्शोचन्तस् सर्वे ते सह बान्धवैः ॥
ज्ञात्वा शोकं तु पुत्राणां धृतराष्ट्रोऽब्रवीन्नृपम् ।
समक्षं वासुदेवस्य कुरूणां च समक्षतः ॥
धृतराष्ट्रः-
गच्छ त्वमद्यैव नृप कृतकृत्योऽसि कौरव ॥
अभिषेकं त्वया प्राप्तं दुष्प्रापमकृतात्मभिः ।
आयुः पुरूरवा राजन् नहुषश्च ययातिना ।
तत्रैव निवसन्ति स्म खाण्डवाहे नृपोत्तम ॥
राजधानी तु सर्वेषां पौरवाणां महाभुज ।
विनाशितं मुनिगणैर् लोभाद्बुधसुतस्य तु ॥
तस्मात् त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय ॥
ब्राह्मणाः क्षत्रिया वैश्याश् शूद्राश्च कृतनिश्चयाः ।
त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम् ॥
पुरं राष्ट्रं समृद्धं वै धनधान्यैस्समावृतम् ।
तस्माद्गच्छस्व कौन्तेय भ्रातृभिस्सहितोऽनघ ॥
वैशम्पायनः-
प्रतिगृह्य तु ते वाक्यं नृपं सर्वे प्रणम्य च ।
रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः ।
प्रतस्थिरे ततो घोरं वनान्तं मनुजर्षभाः ॥
पाण्डवैस्सहिता गन्तुं नार्हतेति च नागरान् ।
घोषयामास नगरे धार्तराष्ट्रस्ससौबलः ॥
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः ।
मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ॥
वासुदेवो जगन्नाथश् चिन्तयामास वासवम् ।
महेन्द्रश्चिन्तितो राजन् विश्वकर्माणमादिशत् ॥
महेन्द्रः-
विश्वकर्मन् महाप्राज्ञ अद्यप्रभृति तत् पुरम् ।
इन्द्रप्रस्थमिति ख्यातं दिव्यं रम्यं भविष्यति ॥
वैशम्पायनः-
महेन्द्रशासनाद्गत्वा विश्वकर्मा तु केशवम् ।
प्रणम्य प्रणिपातार्हं किं करोमीत्यभाषत ॥
वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमूचिवान् ॥
वासुदेवः-
कुरुष्व कुरुराजाय महेन्द्रपुरसन्निभम् ।
इन्द्रेण कृतनामानम् इन्द्रप्रस्थं महापुरम् ॥
वैशम्पायनः-
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः ।
स्वस्तिवाच्य यथान्यायम् इन्द्रप्रस्थं भवत्विति ।
तत्पुरं प्रापयामासुर् द्वैपायनपुरोगमाः ॥
ततस्तु विश्वकर्मा तु चकार पुरमुत्तमम् ।
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् ॥
प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ।
पाण्डुराभ्रप्रकाशेन वृत्तं शशिनिभेन च ॥
शुशुभे तत् पुरश्रेष्ठं नागैर्भोगवती यथा ॥
विपक्षगारुडप्रख्यैर् द्वारैर्घोरप्रदर्शनैः ।
गुप्तं मन्द्रघनप्रख्यैर् गोपुरैर्मन्दरोपमैः ॥
विविधैरपिनिर्विद्धैश् शस्त्रोपेतैस्सुसंवृतैः ।
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ।
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ॥
तीक्ष्णाभिश्च शतघ्नीभिर् यन्त्रजालैश्च शोभितम् ।
आयसैश्च महाचक्रैश् शुशुभे तत् पुरोत्तमम् ॥
सुविभक्तमहारथ्यं देवताबाधवर्जितम् ।
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ॥
हर्म्यप्रासादसम्बाधं नानापण्यविभूषितम् ।
विस्पर्धयेव प्रासादा अन्योन्यस्रोच्छ्रिता भवन् ॥
मण्डपाश्च सभाशालाः प्रपाश्चैव समन्ततः ॥
तत् त्रिविष्टपसङ्काशम् इन्द्रप्रस्थं व्यरोचत ।
मेघबृन्दमिवाकाशे विद्धं विद्युत्समावृतम् ॥
इन्द्रप्रस्थस्य मध्ये तु कौरव्यस्य निवेशनम् ।
शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् ॥
गृहैरादर्शविमलैर् विविधैश्च लतागृहैः ।
मनोहरैश्चित्रगृहैस् तथाऽजगतिपर्वतैः ॥
पुष्करिण्यश्च विविधाः पद्मोत्पलसमावृताः ।
हंसकारण्डवाकीर्णाश् चक्रवाकोपशोभिताः ।
रम्याश्च विविधास्तत्र वाप्यश्चैव वनावृताः ॥
वेश्ममध्ये शुभं दिव्यम् इन्द्रवासगृहोपमम् ।
राज्ञो वासगृहं रम्यं विश्वकर्माऽत्यकारयत् ॥
सुवर्णमणिसोपानं सर्वरत्नविचित्रितम् ।
विहारभूम्यो विविधाः कारितास्सुमनोहराः ॥
तथा प्रासादमालाश्च शोभन्ते स्म सहस्रशः ।
निरन्तरा राजमार्गास् स्त्रीरत्रैश्शोभितास्स्थिताः ॥
तत्रागच्छन् द्विजा राजन् सर्वे वेदविदां वराः ।
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ॥
वणिजश्चाभ्ययुस्तत्र देशेभ्योऽपि धनार्थिनः ।
सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ॥
उद्यानानि च रम्याणि नगरस्य समीपतः ।
सहकारम्रपनसैः कपित्थैरप्युदुम्बरैः ॥
नालिकेरैश्च लिकुचैः कदलीभिश्च संवृताः ।
अशोकैस्तिलकैर्लोध्रैर् नीलाशोकैश्च चम्पकैः ॥
पुन्नागैर्नागवृक्षैश्च मधूकैश्च सुपुष्पितैः ।
सालतालकदम्बैश्च वकुलैश्च सकेतकैः ॥
जम्बूभिः पाटलीभिश्च अङ्कोलैरतिमुक्तकैः ।
कर्णिकारैः पारिजातैः करवीरैस्सुपुष्पितैः ॥
अन्यैश्च विविधैर्वृक्षैः फलभारावनामिभिः ।
नित्यपुष्पफलोपेतैश् शोभितास्ते गृहोत्तमाः ॥
तटाकानि च रम्याणि विविधानि दिशासु च ।
नदी च नन्दिनी नाम सा पुरीमुपगूहते ॥
चातुर्वर्ण्यसमाकीर्णं मान्यैश्शिल्पिभिरावृतम् ।
उपभोगसमर्थैश्च सर्वद्रव्यैस्समावृतम् ॥
नित्यमार्यजनोपेतं नरनारीगणैर्युतम् ।
मत्तवारणसम्पूर्णं गोभिरुष्ट्रैः खरैरजैः ॥
सर्वदाऽभिगतं सद्भिः कारितं विश्वकर्मणा ।
तत् त्रिविष्टपसङ्काशम् इन्द्रप्रस्थं व्यरोचत ॥
पुरीं सर्वगुणोपेतां निर्मितां विश्वकर्मणा ।
पौरवाणामधिपतिः कुन्तीपुत्रो युधिष्ठिरः ॥
कृतमङ्गलसत्कारो ब्राह्मणैर्वेदपारगैः ।
द्वैपायनं पुरस्कृत्य धौम्यस्यानुमते स्थितः ॥
भ्रातृभिस्सहितो राजन् केशवेन सहाभिभूः ।
तोरणद्वारसुमुखं द्वात्रिंशद्द्वारसंयुतम् ॥
वर्धमानपुरद्वारं प्रविवेश महाद्युतिः ॥
शङ्खदुन्दुभिनिर्घोषाश् श्रूयन्ते बहवो भृशम् ।
जयेति ब्राह्मणगिरश् श्रूयन्ते च सहस्रशः ॥
संस्तूयमानो मुनिभिस् सूतमागधवन्दिभिः ।
औपवाह्यगतो राजा राजमार्गमतीत्य च ।
कृतमङ्गलसत्कारं प्रविवेश गृहोत्तमम् ॥
प्रविश्य भवनं राजा सत्कारैरभिपूजितः ।
पूजयामास विप्रेन्द्रान् केशेवेन यथाक्रमम् ॥
ततस्तु राष्ट्रं नगरं नरनारीगणायुतम् ।
गोधनैश्च समाकीर्णं सस्यवृद्धिस्तदाऽभवत् ॥
तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् ।
पाण्डवानां महाराज शश्वत् प्रीतिरवर्धत ॥
सौबलेन च कर्णेन धार्तराष्ट्रैः कृपेण च ।
तथा भीष्मेण राज्ञा च धर्मप्रणयिनस्सदा ॥
पाण्डवास्समपद्यन्त खाण्डवप्रस्थवासिनः ॥
पञ्चभिस्तैर्महेष्वासैर् इन्द्रकल्पैस्समावृतम् ।
शुशुभे तत् पुरश्रेष्ठं नागैर्भोगवती यथा ॥
ततस्तु विश्वकर्माणं पूजयित्वा विसृज्य च ।
द्वैपायनं च सम्पूज्य विसृज्य च नराधिपः ।
वार्ष्णेयमब्रवीद्राजा गन्तुकामं कृतक्षणम् ॥
युधिष्ठिरः-
तव प्रसादाद्वार्ष्णेय राज्यं प्राप्तं मयाऽनघ ।
प्रसादादेव ते वीर शून्यं राष्ट्रं सुदुर्गमम् ॥
तवैव तु प्रसादेन राज्यस्थाश्च महामते ॥
गतिस्त्वमन्तकाले च पाण्डवानां तु माधव ।
माताऽस्माकं पिता देवो न पाण्डुं विद्म वै वयम् ।
ज्ञात्वा तु कृत्यं कर्तव्यं कारयस्व भवान् हि नः ॥
यदिष्टमनुमन्तव्यं पाण्डवानां त्वयाऽनघ ॥
श्रीवासुदेवः-
त्वत्प्रभावान्महाभाग राज्यं प्राप्तं स्वधर्मतः ।
धार्तराष्ट्रा दुराचाराः किं करिष्यन्ति पाण्डवान् ॥
पितृपैतामहं राज्यं कथं न स्यात्तव प्रभो ।
यथेष्टं पालय महीं सदा धर्मधुरं वह ॥
धर्मोपदेशं संक्षेपाद् ब्राह्मणान् भज कौरव ।
अद्यैव नारदश्श्रीमान् आगमिष्यति सत्वरः ।
आदृत्य तस्य वाक्यानि शासनं कुरु तस्य वै ॥
वैशम्पायनः-
एवमुक्त्वा ततः कुन्तीम् अभिवाद्य जनार्दनः ।
उवाच श्लक्ष्णया वाचा गमिष्यामि नमोऽस्तु ते ॥
कुन्ती-
जातुषं गृहमासाद्य मया प्राप्तं च केशव ।
आर्येण चापि न ज्ञातं कुन्तिभोजेन चानघ ॥
त्वया नाथेन गोविन्द दुःखं तीर्णं महत्तरम् ।
त्वं हि नाथस्त्वनाथानां दरिद्राणां विशेषतः ॥
सर्वदुःखानि शाम्यन्ति तव सन्दर्शनान्मम ।
स्मरस्वैनान् महाप्राज्ञ तेन जीवन्ति पाण्डवाः ॥
वैशम्पायनः-
करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम् ।
गमनाय मतिं चक्रे वासुदेवस्सहानुगः ॥
तां निवर्त्य ततो वीरस् सह रामेण केशवः ।
ययौ द्वारवतीं राजन् पाण्डवानुमते तदा ॥ ॥