धृतराष्ट्रः
भीष्मश्शान्तनवश्चैव द्रोणश्चैव महामतिः ।
हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महाबलाः ।
तथैव धर्मतस्सर्वे मम पुत्रा न संशयः ॥
यथैव मम पुत्राणाम् इदं राज्यं विधीयते ।
तथैव पाण्डुपुत्राणाम् इदं राज्यमसंशयम् ॥
क्षत्तरानय गच्छैतान् सह मात्रा सुसत्कृतान् ।
तया च देवरूपिण्या कृष्णया सह भारत ॥
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा ।
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः ।
दिष्ट्या मम परं दुःखम् अपनीतं महाद्युते ।
त्वमेव गत्वा विदुर तानिहानय मा चिरम् ॥
वैशम्पायनः-
एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम् ।
आगात् कतिपयाहोभिः पाञ्चालान् राजधर्मवित् ॥
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् ।
सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥
आगतं विदुरं श्रुत्वा द्रुपदो राजसत्तमः ।
स्वपुत्रैस्सह धर्मात्म् पूजयामास धर्मतः॥
तत्र गत्वा स धर्मज्ञस् सर्वशास्त्रविशारदः ।
द्रुपदं न्यायतो राजन् संयुक्तमुपतस्थिवान् ॥
स चापि प्रतिजग्राह धर्मेण विदुरं ततः ।
चक्रे पूजां यथान्यायं विदुरस्य महात्मनः ॥
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ।
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत ॥
ततस्स्नेहात् परिष्वज्य पप्रच्छानामयं ततः ॥
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनःपुनः ।
तैश्चाप्यमितबुद्धिस्स पूजितोऽथ यथाक्रमम् ॥
पाण्डवा विनयोपेता नत्वाऽऽलोङ्ग्य विशाम्पते ।
दृष्ट्वा मुहुर्मुहू राजन् हर्षादश्रूण्यवर्तयन् ॥
दृष्ट्वा कुशलिनश्चैतान् ततस्तान् पाण्डुनन्दनान् ।
प्रददौ चापि रत्नानि विविधानि वसूनि च ॥
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशेषतः ।
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥
सङ्कर्षणं वासुदेवं प्रणम्य विदुरस्ततः ।
आसने काञ्चने शुभ्रे निषसाद महामतिः ।
कृत्वा मिथस्तु सँल्लापं मुदा पुनरभाषत ॥
भीष्मद्रोणाजमीढैश्च यदुक्तं पाण्डवान् प्रति ।
अवदत्तत्र तत्सर्वं सर्वेषामनुश्रृण्वताम् ॥
प्रोवाच चामितप्रज्ञः प्रश्रितं विनयान्वितम् ।
द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च ॥
विदुरः-
राजञ् छृणु सहामात्यस् सपुत्रश्च वचो मम ॥
धृतराष्ट्रस्सपुत्रं त्वां सहामात्यं सबान्धवम् ।
अब्रवीत् कुशलं राजन् प्रीयमाणः पुनःपुनः ।
प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ॥
अथा भीष्मश्शान्तनवः कौरवैस्सह सर्वशः ।
कुशलं त्वां महाप्राज्ञस् सर्वतः परिपृच्छति ॥
भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव ।
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥
धृतराष्ट्रस्तु पाञ्चाल त्वया सम्बन्धमेयिवान् ।
कृतार्थं मन्यतेत्मानं तथा सर्वेऽपि कौरवाः ॥
न तथा राज्यसम्प्राप्तिस् तेषां प्रीतिकरी मता ।
यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ॥
एतद्विदित्वा तु भवान् प्रस्थापयतु पाण्डवान् ।
द्रष्टुं हि पाण्डुदायादान् त्वरन्ते कुरवो भृशम् ॥
विप्रोषिता दीर्घकालम् एते चापि नरर्षभाः ।
उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा ॥
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः ।
द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ॥
स भवान् पाण्डुपुत्राणाम् आज्ञापयतु मा चिरम् ।
गमनं सहदाराणाम् एतदागमनं मम ॥
निसृष्टेषु त्वया राजन् पाण्डवेषु महात्मसु ।
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ॥
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥
द्रुपदः-
एवमेतन्महाप्राज्ञ यथाऽऽत्थ विदुराद्य माम् ।
ममापि परमो हर्षस् सम्बन्धेऽस्मिन् कृते विभो ॥
गमनं चापि युक्तं स्याद् गृहमेषां महात्मनाम् ।
न तु तावन्मया युक्तम् एतद्वक्तुं स्वया गिरा ॥
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ।
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ॥
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥
युधिष्ठिरः-
परवन्तो वयं राजंस् त्वयि सर्वे सहानुगाः ।
यथा वक्ष्यसि नः प्रीत्या चरिष्यामस्तथा वयम् ॥
वैशम्पायनः-
ततोऽब्रवीद्वासुदेवो गमनं मम रोचते ।
यथाऽयं मन्यते राजा द्रुपदस्सर्वधर्मवित् ॥
द्रुपदः-
यथैतमन्यते वीरो दाशार्हः पुरुषोत्तमः ।
प्राप्तकालं महाबाहुस् सा बुद्धिर्निश्चिता मम ॥
यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् ।
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥
न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो महामना ।
यदैषां पुरुषव्याघ्रश् श्रेयो ध्यायति केशवः ॥
वैशम्पायनः-
पृथायास्तु ततो वेश्म प्रविवेश महामतिः ।
पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः ।
दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः ॥
कुन्ती-
वैचित्रवीर्य ते पुत्राः कथञ्चिज्जीवितास्त्वया ।
त्वत्प्रसादाज्जतुगृहे त्राताः प्रत्यागतास्तव ॥
कूर्मीश्चिन्तयते पुत्रान् यत्र वा तत्र वा गतान् ।
चिन्तया वर्धयेत् पुत्रान् यथा कुशलिनस्तथा ॥
तव पुत्रास्तु जीवन्ति त्वं त्राता भरतर्षभ ॥
यथा परभृतः पुत्रान् अरिष्टा वर्धयेत् सदा ।
तथैव तव पुत्रास्तु मया तात सुरक्षिताः ।
दुःखास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया ॥
अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि ॥
वैशम्पायनः-
इत्येवमुक्ता दुःखार्ता शुशोच परमातुरा ।
प्रणिपत्याब्रवीत् क्षत्ता मा शोच इति भारत ॥
विदुरः-
न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः ।
नचिरेणैव कालेन स्वराज्यस्था भवन्ति ते ।
बान्धवैस्सहितास्सर्वेर् मा शोकं कुरु माधवि ॥
वैशम्पायनः-
ततस्ते समनुज्ञाता द्रुपदेन महात्मना ।
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ॥
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ।
सविहारं सुखं जग्मुर् नगरं नागसाह्वयम् ॥
सुवर्णकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् ।
जाम्बूनदपरिष्कारान् प्रभिन्नकरटामुखान् ॥
अधिष्ठितान् महामात्रैस् सर्वशस्त्रसमन्वितान् ।
सहस्रं प्रददौ राजा गजानां वरवर्णिनाम् ॥
रथानां च सहस्रं वै सुवर्णमणिचित्रितम् ।
चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा ॥
सुवर्णपरिबर्हाणां वरचामरमालिनाम् ।
जात्यश्वानां च पञ्चाशत् सहस्रं प्रददौ नृपः ॥
दासीनामयुतं राजा प्रददौ वरभूषणम् ।
ततस्सहस्रं दासानां प्रददौ वरधन्वनाम् ॥
हैमानि शय्यासनभाजनानि द्रव्याणि चान्यानि च गोधनानि ।
पृथक्पृथक् चैव ददौ स कोटिं पाञ्चालराजः परमप्रहृष्टः ॥
शिबिकानां शतं पूर्णं वाहान् पञ्चशतं नरान् ।
एवमेतानि पाञ्चालो कन्यार्थे प्रददौ धनम् ॥
हरणं चापि पाञ्चाल्या ज्ञातिदेयं तु सौमकिः ।
धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत ॥
नानद्यमाने बहुभिस् तूेर्यशब्दैस्सहस्रशः ॥
श्रुत्वा चोपस्थितान् वीरान् धृतराष्ट्रोऽम्बिकासुतः ।
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥
विकर्णं च महेष्वासं चित्रसेनं च भारत ।
द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥
ते तैः परिवृताः वीराश् शोभमाना महारथाः ।
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥
पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात् ।
मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम् ॥
मुक्तपुष्पावकीर्णं तज् जलसिक्तं तु सर्वशः ।
धूपितं दिव्यधूपेन मण्डनैश्चापि संवृतम् ।
पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ ॥
शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः ।
कौतूहलेन नगरं पूर्यमाणमिवाभवत् ॥
यत्र ते पुरुषव्याघ्राश् शोकदुःखसमन्विताः ॥
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः ।
उदीरितास्तेऽशृण्वन्त पाण्डवा हृदयङ्गमाः ॥
पौराः-
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ।
यो नस्स्वानिव दायादान् धर्मेण परिरक्षति ॥
अद्य पाण्डुर्महाराजो वनादिव वनप्रियः ।
आगतः प्रियमस्माकं चिकीर्षर्नात्र संशयः ॥
किं न्वद्य सुकृतं पुण्यं सर्वेषां नः प्रियं परम् ।
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ॥
यदि दत्तं यदि हुतं यदि वाऽप्यस्ति नस्तपः ।
तेन तिष्ठन्तु नगरे पाण्डवाश्शरदां शतम् ॥
वैशम्पायनः-
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः ।
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥
कृत्वा तु कुशलप्रश्नं सर्वस्य नगरस्य ते ।
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥ ॥