द्रोणः-
मन्त्राय समुपानीतैर् धृतराष्ट्र हितैर्नृप ।
धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ॥
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः ।
संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥
प्रेष्यतां द्रुपदायाशु नरः कश्चित् प्रियंवदः ।
बहुलं रत्नमादाय तेषामर्थाय भारत ॥
मिथः कृत्यं च तस्मै स आदाय वसु गच्छतु ।
वृद्धिं च परमां ब्रूयात् तत्संयोगोद्भवां तथा ॥
सुप्रीयमाणं त्वां ब्रूयाद् राजन् दुर्योधनं तथा ।
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् ।
पुनः पुनश्च कौन्येयान् माद्रीपुत्रौ च सान्त्वयेत् ॥
हिरण्मयानि शुभ्राणि बहून्याभरणानि च ।
वचनात्तव राजेन्द्र द्रौपद्यास्सम्प्रयच्छतु ॥
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ ।
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ।
दत्त्वा तानि महार्हाणि पाण्डवान् सम्प्रहर्षय ॥
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैस्सह ।
उक्त्वा सोऽनन्तरं ब्रूयात् तेषामागमनं प्रति ॥
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् ।
दुश्शासनो विकर्णश्च पाण्डवानानयत्विह ॥
ततस्ते पार्थिवश्रेष्ठाः पूज्यमानास्सदा त्वया ।
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥
एवं तव महाराज तेषु पुत्रेषु चैव हि ।
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥
कर्णः-
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ ।
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना ।
ब्रूयान्निश्श्रेयसं नैव कथं कुर्यात् सतां मतम् ॥
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा ।
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः ।
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥
श्रूयते हि पुरा कश्चिद् विनिन्द इति श्रुतः ।
आसीद्राजगृहे राजा मागधानां महीपतिः ॥
स हीनः करणैस्सर्वैर् उच्छ्वासपरमो नृपः ।
अमात्यसंस्थस्सर्वेषु कार्येष्वेवाभवत्तदा ॥
तस्यामात्या बभूवुस्ते अन्योन्यसहितास्तदा ॥
तस्यामात्यो महाकर्णिर् बभूवैकेश्वरः पुरा ।
स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥
स राज्ञो बसुरत्नानि स्त्रियो भोज्यानि यानि च ।
आददे सर्वतो मूढ ऐश्वर्यं च स्वयं तदा ॥
तदादाय च लुब्धस्य लोभाल्लोभः प्रवर्तते ।
तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ॥
हीनस्य करणैस्सर्वैर् उच्छ्वासपरमस्य च ।
यतमानो न शक्नोति राज्यं कर्तुमिति श्रुतिः ॥
किमन्यद्विहिता देव तस्य कापुरुषेन्द्रता ।
यदि ते विहितं राज्यं भविष्यति न संशयः ॥
मिषतस्सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् ।
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् ।
दुष्टानां चैव बोद्धव्यम् अदुष्टानां चैव भाषितम् ॥
द्रोणः-
विद्म ते भावदोषेण यदर्थमिदमुच्यते ।
दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे च नः ॥
हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् ।
अथ त्वं मन्यस दुष्टं व्रूहि यत् परमं हितम् ॥
अतोऽन्यथा चेत् क्रियते यद्ब्रवीमि परं हितम् ।
कुरवोऽपि नशिष्यन्ति नचिरेणैव मे मतिः ॥
विदुरः-
राजन्निस्संशयं श्रेयो वाच्यस्त्वमसि बान्धवैः ।
न त्वं शुश्रूषमाणो हि वाक्यं सम्प्रति भाषसि ॥
हितं हि तव तद्वाक्यम् उक्तवान् कुरुसत्तमः ।
भीष्मश्शान्तनवो राजा महावीर्योराक्रमः ॥
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् ।
तच्च राधासुतः कर्णो मन्यते न हितं वचः ॥
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् ।
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात् प्रज्ञयाऽधिकः ॥
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च ।
समानौ त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥
धर्मे चानवमौ राजन् सत्यतायां च भारत ।
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥
न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन ।
न चाप्यपकृतं किञ्चिद् अनयोर्लक्ष्यते त्वयि ॥
ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि ।
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप ।
त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ॥
इति मे नैष्ठिकी बुद्धिर् वर्तते कुरुनन्दन ।
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् ।
एतद्धि परमं श्रेयो मेनाते तव भारत ॥
अथ ते हृदये राजन् विशेषस्तेषु वर्तते ।
अन्तरस्थं विवृण्वानाश् श्रेयः कुर्युर्न ते ध्रुवम् ॥
एतदर्थं महात्मानविमौ राजन् महाद्युती ।
नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ॥
तथाप्यशक्यतां तेषाम् आहतुः पुरुषर्षभौ ।
तत् तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥
कथं हि पाण्डवश्श्रीमान् सव्यसाची धनञ्जयः ।
शक्यो हि जेतुं सङ्ग्रामे राजन् मघवताऽपि हि ॥
भीमसेनो महाबाहुर् नागायुतबलो महान् ।
कथं स्म युधि शक्येत विजेतुममरैरपि ॥
तथैव कृतिनौ युद्धे यमौ यमसुताविव ।
कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ॥
यस्मिन् धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः ।
नित्यानि पाण्डवे ज्येष्ठे स जीयी न कथं रणे ॥
येषां पक्षधरो रामो येषां मन्त्री च केशवः ।
चैद्यश्च येषां भ्राता च शिशुपालो महारथः ।
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥
सोऽशक्यतां च विज्ञाय तेषां युद्धेन भारत ॥
द्रुपदश्श्वशुरो येषां येषां स्यालाश्च पार्षताः ।
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥
दायाद्यतां च धर्मेण सम्यक् तेषु समाचर ॥
इदं निर्दिष्टमयशः पुरोचनकृतं महत् ।
तेषामनुग्रहेणाद्य राजन् प्रक्षालयात्मनः ॥
तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले ।
जीविते परमं श्रेयः क्षत्रस्य च विवर्धनम् ॥
द्रुपदोऽपि महान् राजा कृतवैरश्च नः पुरा ।
तस्य सङ्ग्रहणं श्रेयस् स्वपक्षस्य च वर्धनम् ॥
बलवन्तश्च दाशार्हा बहवश्च विशाम्पते ।
यतः कृष्णस्ततस्ते स्युर् यतः कृष्णस्ततो जयः ॥
यच्च सान्त्वेन शक्येत कार्यं साधयितुं नृप ।
को दैवशप्तस्तत् कर्तुं विग्रहेण समाचरेत् ॥
श्रुत्वा च जीवतः पार्थान् पौरजानपदो जनः ।
बलवद्दर्शने हृष्टास् तेषां राजन् कुरु प्रियम् ॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
अधर्माश्चापि दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥
उक्तमेतन्मया राजन् पुरा गुणवतस्तव ।
दुर्योधनापराधेन प्रजेयं तव नश्यति ॥ ॥