वैशम्पायनः-
ततस्स्वयंवरे वृत्ते राजानस्सर्व एव ते ।
यथागतं विप्रजग्मुर् विदित्वा पाण्डवान् वृतान् ॥
अथ दुर्योधनो राजा विमना भ्रातृभिस्सह ।
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ।
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् ॥
अथ दुश्शासनं राजा मन्दं मन्दमिवाब्रवीत् ॥
यद्यसौ ब्राह्मणो न स्यान्न च विन्देत द्रौपदीम् ।
न हि तं तत्त्वतो राज वेद कश्चिद्धनञ्जयम् ॥
धिगस्मत्पौरुषं पञ्च यद्धरन्तीह पाण्डवाः ।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥
एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् ।
विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥
त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान् महौजसः ।
विमुक्तान् हव्यवाहाच्च संयुक्तान् द्रुपदेन च ॥
धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् ।
द्रुपदस्यात्मजांश्चान्यान् सर्वयुद्धविशारदान् ॥
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान् वृतान् ।
व्रीडितान् धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशाम्पते ।
उवाच कुरवो दिष्ट्या वर्धन्त इति विस्मितः ॥
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् ।
अब्रवीत् परमप्रीतो दिष्ट्या दिष्ट्येति कौरवः ॥
मन्यते स वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया ।
दुर्योधनमविज्ञानात् प्रज्ञाचक्षुर्नरेश्वरः ॥
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु ।
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥
अथास्म पश्चाद्विदुर आचख्यौ पाण्डवान् वृतान् ।
सर्वान् कुशलिनो राजन् पूजितान् द्रुपदेन च ॥
एतच्छ्रुत्वा तु वचनं विदुरस्य नराधिपः ।
आकारच्छादनार्थं तु दिष्ट्या दिष्ट्येति चाब्रवीत् ॥
एवं विदुर भद्रं ते यदि जीवन्ति पाण्डवाः ।
साध्वाचारा तथा कुन्ती सम्बन्धो द्रुपदेन च ।
बभूव परमश्लाघ्यो दिष्ट्या दिष्ट्येति चाब्रवीत् ॥
धृतराष्ट्रः-
अन्ववाये वसोर्जातः प्रकृष्टे मान्यके कुले ।
वृत्तविद्यातपोवृद्धः पार्थिवानां धुरन्धरः ॥
पुत्राश्चास्य तथा पौत्रास् सर्वे सुचरितव्रताः ।
तेषां सम्बन्धिनश्चान्ये बहवस्सुमहाबलाः ॥
यथैव पाण्डोः पुत्रास्ते ततोऽप्यभ्यधिका मम ।
सेयमभ्यधिकान्येभ्यो वृत्तिर्विदुर मे मता ॥
यत्ते कुशलिनो वीरा मित्रवन्तश्च महारथाः ।
मित्रवन्तोऽभवन्पुत्रा दुर्योधनमुखास्तथा ॥
का हि द्रुपदमासाद्य मित्रं क्षत्तस्सबान्धवम् ।
न बुभूषेद्भवेनार्थं गतश्रीरपि पार्थिवः ॥
वैशम्पायनः-
वैशम्पायनः-
विदुरः-
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत ।
नित्या भवतु ते बुद्धिर् एषा राजञ्छतं समाः ।
इत्युक्त्वा प्रययौ राजन् विदुरस्स्वं निवेशनम् ॥
ततो दुर्योधनश्चैव राधेयश्च विशाम्पते ।
धृतराष्ट्रस्य तच्छ्रुत्वा वचोऽब्रूतामिदं ततः ॥
दुर्योधनः-
सन्निधौ विदुरस्य त्वां वक्तुं न नृप शक्नुमः ।
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः ।
अभिष्टौषि च यत् क्षत्तुस् समीपे द्विपदांवर ॥
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत् कुरुषेऽनघ ।
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥
ते वयं प्राप्तकालस्य चिकित्सां मन्त्रयामहे ।
यथा नो न ग्रसेयुस्ते सपुत्रगणबान्धवान् ॥
वैशम्पायनः-
दुर्योधनेनैवमुक्तः कर्णेन च विशाम्पते ।
पुत्रं च सूतपुत्रं च धृतराष्ट्रोऽब्रवीदिदम् ॥
धृतराष्ट्ः-
अहमप्येवमेवैतच् चिन्तयामि यथा युवाम् ।
विवेतं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥
अतस्तेषां गुणानेव कीर्तयामि विशेषतः ।
न च बुध्येत विदुरो ममाभिप्रायमिङ्गितैः ॥
यच्च वै मन्यसे प्राप्तं तद्ब्रूहि सुयोधन ।
राधेय मन्यसे त्वं च यत् प्राप्तं तद्ब्रवीहि मे ॥
दुर्योधन उवाच ।
प्रच्छन्नैः कुशलैर्विप्रैस् सुतुष्टैराप्तकारिभिः ।
कुन्तीपुत्रान् भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥
अथवा द्रुपदो राजा महद्भिर्धनसञ्चयैः ।
पुत्राश्चास्य प्रलोभ्यन्ताम् अमात्याश्चैव सर्वशः ॥
परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम् ।
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् ।
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥
अथवा कुशलाः केचिद् उपायकुशलैर्नरैः ।
इतरेतरतः पार्थान् भेदयन्त्वनुरागतः ॥
व्युत्थापयन्तु वा कृष्णां बहुत्वात् सुकरं हि तत् ।
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः ।
मृत्युर्विधीयतां छन्नैस् स हि तेषां बलाधिकः ॥
तस्मिंस्तु निहते राजन् हतोत्साहा हतौजसः ।
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥
अजेयो ह्यर्जुनस्सङ्ख्ये पृष्ठगोपे वृकोदरे ।
तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक् ॥
ते जानन्तो हि दौर्बल्यं भीमसेने हते सति ।
अस्मान् बलवतो मत्वा न शिष्यन्त्यबलीयसः ॥
इहागतेषु पार्थेषु निदेशवशवर्तिषु ।
प्रवर्तिष्यामहे राजन् यथाश्रद्धं यथासुखम् ॥
दर्पं विदधतां तेषां केचिदत्र मनस्विनः ।
द्रुपदस्यात्मजा राजंस् ते भिद्यन्तां ततः परैः ॥
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् ।
एकैकः पाण्डुपुत्राणां ततः कृष्णा विरज्यताम् ॥
प्रेष्यतां वाऽपि राजेन्द्र तेषामागमनाय हि ।
तेऽल्पोपहारैस्सन्धाय पध्यन्तामाप्तकारिभिः ॥
एतेषामप्युपायानां निर्दोषो यो मतस्तव ।
तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ॥
यावद्ध्यकृतविश्वासा द्रुपदे पार्थिवर्षभे ।
तावदेव हि ते शक्यास्ते न शक्यास्तु ततः परम् ॥
सैषा मम मती राजन् पाण्डवान् प्रति दृश्यते ।
साध्वी वा यदि वाऽसाध्वी किं वा राधेय मन्यसे ॥
कर्णः-
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः ।
न ह्युपायेन शक्यास्ते पाण्डवाः कुरुनन्दन ॥
पूर्वमेव हि ते सर्वैर् उपायैर्यतितास्त्वया ।
निग्रहीतुं त्वया वीराश् शकिता न तु भारत ॥
इहैव वर्तमानास्ते समीपे तव पार्थिव ।
अजातपक्षाश्शिशवो न शक्यास्तव बाधितुम् ॥
जातपक्षा विदेशस्था विवृद्धास्सर्व एव ते ।
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युता ॥
न च ते व्यसनैश्शक्या योक्तुं दृष्टगुणा हि ते ।
शक्ताः खल्वीप्सवश्चैव पितृपैतामहं पदम् ॥
परस्परेण भेदश्च नाधातुं तेषु शक्यते ।
एकस्यां हि यथा पत्न्यां न भिद्यन्ते कथञ्चन ॥
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः ।
परिद्यूनान् वृतवती किमुताद्य प्रतापिनः ॥
ईप्सितश्च गुणस्स्त्रीणाम् एकस्या बहुभर्तृता ।
तं च प्राप्तवती कृष्णा सा न भेदयितुं क्षमा ॥
आर्यवृत्तश्च पाञ्चालस् स च राजा धृतव्रतः ।
न सन्त्यक्ष्यति कौन्तेयान् राज्यदानैरपि ध्रुवम् ॥
तथाऽस्म पुत्रो गुणवान् अनुरक्तश्च पाण्डवान् ।
तस्मान्नोपायसाध्यांस्तान् अहं मन्ये कथञ्चन ॥
इदमद्यं क्षमं कर्तुम् अस्माकं भरतर्षभ ।
यावन्न कृतमूलाश्च पाण्डवेया विशाम्पते ।
तावत् प्रहरणीयास्ते रोचतां तत्र विक्रमः॥
अस्मत्पक्षो महानद्य यावत् पाञ्चालको लघुः ।
तावत् प्रहरणं तेषां क्रियतामिति रोचये ॥
वाहनानि प्रभूतानि मित्राणि बहुलानि च ।
यावन्न तेषां गान्धारे तावदेवाशु विक्रम ॥
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः ।
कुन्तीपुत्रैर्महावीर्यैस् तावदेवाशु विक्रम ॥
सदा च वैरी द्रुपदस् सततं निकतस्त्वया ।
यावन्न वर्धते मित्रै रोचतां तत्र विक्रमः ॥
यावन्नायाति वार्ष्णेयः कर्षन् यादववाहिनीम् ।
राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ॥
वसूनि विविधान् भोगान् राज्यमेव च केवलम् ।
नासाध्यमस्ति कृष्णस्य पाण्डवार्थे विशाम्पते ॥
विक्रमेण मही प्राप्ता भरतेन महात्मना ।
विक्रमेण लोकांस्त्रीञ् जितवान् पाकशासनः ॥
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशाम्पते ।
स्वको हि धर्मश्शूराणां विक्रमः पार्थिवर्षभ ॥
ते बलेन वयं राजन् महता चतुरङ्गिणा ।
प्रमथ्य द्रुपदं शीघ्रम् आनयामेह पाण्डवान् ॥
न हि साम्ना न भेदेन नच दानेन पाण्डवाः ।
शक्यास्साधयितुं तस्माद् विक्रमेणैव ताञ्जहि ॥
विक्रमेणैव जित्वेमाम् अखिलां भुङ्क्ष्व मेदिनीम् ।
नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ॥
वैशम्पायनः-
श्रुत्वा स राधेयवचो धृतराष्ट्रः प्रतापवान् ।
अभिपूज्य ततः पश्चाद् इदं वचनमब्रवीत् ॥
धृतराष्ट्रः-
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने ।
त्वयि विक्रमसम्पन्नम् इदं वचनमीदृशम् ॥
भूय एव तु भीष्मश्च द्रोणो विदुर एव च ।
युवां च कुरुतं बुद्धिं भवेद्यावत् सुखोदयः ॥
वैशम्पायनः-
तत आनाय्य तान् सर्वान् मन्त्रिणस्सुमहायशाः ।
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥
भीष्मः-
न रोचते विक्रमस्तु पाण्डुपुत्रैः कथञ्चन ।
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः ।
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते ।
तथा कुरूणां सर्वेषाम् अन्येषामपि पार्थिव ॥
एवं गते विग्रहं तैर्न रोचे सन्धाय वीरैर्दीयतामर् भूमिः ।
तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम् ॥
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि ।
मम पैतृकमेवेति तथा तेषामपि प्रभो ॥
यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तरस्विनः ।
कुत एतत्तवापीदं भारतस्यापि कस्य चित् ॥
अथ धर्मेण राज्यं त्वं प्राप्तवान् भरतर्षभ ।
तेऽपि राज्यमनुप्राप्ताः पूर्वमेव न संशयः ॥
मधुरेणैवमुक्त्वा तान् राज्यस्यार्धं प्रदीयताम् ।
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य नः ॥
अतोऽन्यथा चेत् क्रियते अहितं नो भविष्यति ।
तवाप्यधर्मस्सकलो भविष्यति न संशयः ॥
त्वय्यप्यकीर्तिविपुला भविष्यति न संशयः ।
कीर्तिरक्षणमातिष्ठेत् कीर्तिर्हि विमलं फलम् ।
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ॥
यावत्कीर्तिर्मनुष्यस्य लोके भवति भारत ।
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति ॥
तदिदं समुपातिष्ठ धर्मं कुरुकुलोचितम् ।
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥
दिष्ट्या चिरन्ति ते वीरा दिष्ट्या जीवति सा पृथा ।
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः ॥
तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् ।
अदाहयो यदा प्रार्थास् त्वमग्नौ जतुवेशमनि ॥
लोके प्राणभृतां किञ्चिच् छ्रुत्वा कुन्तीं तथागताम् ।
दुःखं तु जायते राजन् भवान् सर्वस्य कारणम् ॥
न चापि दोषेण तथा लोको वोत्ति पुरोचनम् ।
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥
तदिदं जीवितं तेषां तव किल्बिषनाशनम् ।
सम्मन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥
न चापि तेषां वीराणां जयतां कुरुनन्दन ।
पित्र्योंशश्शक्य आदातुम् अपि वज्रभृता स्वयम् ॥
ते हि धर्मे स्थितास्सर्वे सर्वे चैवैकचेतसः ।
अधर्मेण निरस्ताश्च तुल्ये राज्ये च धर्मतः ॥
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे ।
क्षेमं च यदि कर्तव्यं राज्यं तेभ्यः प्रयच्छताम् ॥ ॥