वैशम्पायनः-
सौमदत्तेर्वचश्श्रुत्वा कर्णो वैकर्तनो वृषा ।
उवाच वचनं काले कालज्ञस्सर्वकर्मणाम् ॥
कर्णः-
नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत् ।
वचनं नाभ्यसूयामि श्रूयतां यद्वचस्स्थितिः ॥
द्वैधीभावो न गन्तव्यस्सर्वकर्मसु मानवैः ।
द्विधाभूतेन मनसा ह्यन्यत्कर्म न सिध्यति ॥
सम्प्रयाणासनाभ्यां तु कर्शनेन तथैव च ।
नैतच्छक्यं पुरं हन्तुमाक्रन्दोऽस्यामशोभनः ॥
अवमर्दनकालोऽत्र मतश्चिन्तयतो मम ।
यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्ति रणप्रियाः ॥
प्रभवन्तो हृष्टतुष्टास्स्वबाहुबलशालिनः ।
प्राकारमवमृद्नन्तु परिघाः पूरयन्त्वपि ॥
प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् ।
तृणकाष्ठेन महता खातमस्य प्रपूर्यताम् ॥
घुष्यतां राजसैन्येषु परेषां यो हनिष्यति ।
नागमश्वं पदातिं वा दानमानं स लप्स्यति ॥
रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः ॥
यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः ।
अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः ॥
प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः ।
यशो रक्षत भद्रं वो जेष्यामो वै वयं पुरम् ॥
अनुलोमाश्च नो वातास्सर्वतो मृगपक्षिणः ।
अग्नयश्च विराजन्ते शस्त्राणि कवचानि च ॥
वैशम्पायनः-
ततः कर्णवचश्श्रुत्वा धार्तराष्ट्रप्रियैषिणः ।
निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे ॥
न हि तेषां मनस्सक्तिरिन्द्रियार्थेषु सर्वशः ।
यथा पुनररिघ्नानां प्रसहो युद्ध एव च ॥
वैकर्तनपुरोवातस्सैन्धवोर्मिमहास्वनः ।
दुश्शासनमहामत्स्यो दुर्योधनमहाग्रहः ॥
स राजसागरो भीमो भीमघोषप्रदर्शनः ।
अभिदुद्राव वेगेन पुरं तदपसव्यतः ॥
तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम् ।
समुत्कुपितमाज्ञाय चुक्रुधुर्द्रुपदात्मजाः ॥
ते मेघसमनिर्घोषैर्बलिनस्स्यन्दनोत्तमैः ।
निर्ययुर्नगरद्वारात्त्रासयन्तः परान्रणे ||
धृष्टद्युम्नश्शिखण्डी च सुमित्रः प्रियदर्शनः ।
चित्रकेतुस्सुकेतुश्च ध्वजसेनश्च वीर्यवान् ॥
पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः ।
द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः ॥
पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः ।
स पुत्रगणमध्यस्थश्शुशुभे राजसत्तमः ।
चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः ॥
अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम् ।
द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत् ॥
तयोरुभयतो जज्ञे भैरवस्तुमुलस्स्वनः ।
बलयोस्सम्प्रहरतोस्स्रवन्त्योस्सरितोरिव ॥
प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः ।
ज्योतींषि विप्रकीर्णानि सर्वतः प्रचकाशिरे ॥
उत्कृष्टभेरीनिनदे सम्प्रवृत्ते महाहवे ।
अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः ॥
रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः ।
धन्विनो ध्वजिनश्शुभ्रानास्थाय भरतर्षभाः ॥
ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान् ।
नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च ॥
निर्यातेष्वथ पार्थेषु द्रौपदं तद्बलं रणे ।
आविशत्परमो हर्षः प्रमोदश्च जयं प्रति ॥
स मुहूर्तं व्यतिकरस्सैन्यानामभवद्भृशम् ।
ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा निवर्तनम् ॥
जघ्नतुस्समरे तस्मिन्सुमित्रप्रियदर्शनौ ।
जयद्रथश्च कर्णश्च पश्यतस्सव्यसाचिनः ॥
अर्जुनः प्रेक्ष्य निहतौ सुमित्रप्रियदर्शनौ ।
जयद्रथसुतं तत्र जघान पितुरन्तिके ॥
वृषसेनादवरजं सुबाहुं वै धनञ्जयः ।
कर्णपुत्रं महावीर्यं रथनीडादपाहरत् ॥
तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ ।
नामृष्येतां महावीर्यौ प्रहारमिव सद्गजौ ॥
तौ जग्मतुरसम्भ्रान्तौ फल्गुनस्य रथं प्रति ।
प्रतिमुक्ततलत्राणौ त्रायमाणौ परस्परम् ॥
सन्निपातस्तयोरासीत्फल्गुनेन महामृधे ।
वृत्रशम्बरयोस्सङ्ख्ये वज्रिणेव महारणे ॥
त्रीनश्वाञ्जघ्नतुस्तत्र फल्गुनस्य नर्षभौ ।
ततः किलिकिलाशब्दः कुरूणामभवत्तदा ॥
तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान् ।
निमेषान्तरमात्रेण रथमश्वैरयोजयत् ॥
उपयातं रथं दृष्ट्वा दुर्योधनपुरस्सरौ ।
सौबलस्सौमदत्तिश्च समेयातां परन्तपौ ॥
तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः ।
अयुध्यत बलैर्वीरैरिन्द्रियार्थैरिवेश्वरः ॥
तैर्निरुद्धो न सन्त्रासं जगाम समितिञ्जयः ।
पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी ॥
तस्य ते युगपत्पञ्च पञ्चभिर्निशितैश्शरैः ।
सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम् ॥
हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः ।
चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः ॥
अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव ह ।
व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः ॥
विधनुष्कं विकवचं विरथं च समीक्ष्य तम् ।
अभिपेतुर्नव्याघ्रमर्जुनप्रमुखा रथाः ॥
धृष्टद्युम्नश्शिखण्डी च यमौ च युधि दुर्जयौ ॥
तस्मिन्दाशरथे युद्धे प्रवृद्धे शरवृष्टिभिः ।
रथा ध्वजाः पताकाश्च सवर्मन्तरधीयत ।
तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत् ॥
रथेन तान्महाबाहुरर्जुनोऽभ्यपतत्पुनः ॥
तमापतन्तं दृष्ट्वैव महाबाहुर्धनुर्धरः ।
कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः ॥
स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान् ।
त्रीञ्शरान्सन्दधे क्रुद्धो व्यधात्कर्णस्य पाण्डवः ॥
तैश्शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम् ।
अपोवाह रथाच्चाशु सूतः परपुरञ्जयम् ॥
ततः पराजिते कर्णे धार्तराष्ट्रं महद्भयम् ।
विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य च ॥
तत्प्रकम्पितमत्यर्थं दृष्ट्वा वै सौबलो बलम् ।
गिरा गम्भीरया वीरस्समाश्वासयतासकृत् ॥
धार्तराष्ट्रैस्ततस्सर्वैर्दुर्योधनपुरस्सरैः ।
धृतं तत्पुनरेवासीद्बलं पार्थप्रकम्पितम् ॥
ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः ।
अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन् ॥
ततस्सङ्ग्रामशिरसि ददर्श विपुलद्रुमम् ।
आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम् ॥
महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम् ।
चित्रमाल्याम्बरधरं पताकाशतशोभितम् ॥
सालमुत्पाठ्य पाणिभ्यामुद्यम्य च रणे बली ।
अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान् ॥
भीमसेनभयार्तानि फल्गुनाभिहतानि च ।
न शेकुस्तान्यनीकानि धार्तराष्ट्रान्निरीक्षितुम् ॥
तानि सम्भ्रान्तयोधानि श्रान्तवाजिगजानि च ।
दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः ॥
तान्निवृत्तान्निरानन्दान्हरवारणवाजिनः ।
नानुसस्रुर्न चाजघ्नुर्नोचुः किञ्चिच्च दारुणम् ।
स्वमेव शिबिरं जग्मुः क्षत्रियाश्शरविक्षताः ॥
परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः ।
मुहूर्तमभवद्वैरं तेषां वै पाण्डवैस्सह ॥
यावत्तद्युद्धमभवन्महद्देवासुरोपमम् ।
तावदेवाभवच्छान्तं निवृत्ता वै महारथाः ॥
सुव्रतं चक्रिरे सर्वे सुप्राप्तामब्रुवन्वधूम् ।
कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम् ॥
शकुनिस्सिन्धुराजश्च कर्णदुर्योधनावपि ।
तेषां तदभवद्दुःखं हृदि वाचा तु नाब्रुवन् ॥
ततः प्रयाता राजानस्सर्व एव यथागतम् ।
धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा ॥
प्रागेव पूररोधात्तु पाण्डवैरश्वसादिनः ।
प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये ॥
ते त्वदीर्घेण कालेन गत्वा द्वारवतीं पुरीम् ।
ऊचुस्सङ्कर्षणोपेन्द्रौ वचनं वचनक्षमौ ॥
कुशलं पाण्डवास्सर्वानाहुस्स्मान्धकवृष्णयः ।
आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात् ॥
समाजे द्रौपदीं स्माहुर्लब्धां राजीवलोचनाम् ।
आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः ॥
तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः ।
सर्वमेतदहं जाने वधात्तस्य तु रक्षसः ॥
तत उद्योजयामास माधवश्चतुरङ्गिणीम् ।
सेना समुपयात्तूर्णं पाञ्चालनगरीं प्रति ॥
ततस्सङ्कर्षणश्चैव केशवश्च महाबलः ।
यादवैस्सह सर्वैश्च पाण्डवानभिजग्मतुः ॥
पितृष्वसारं सम्पूज्य द्रुपदं च यथाविधि ।
द्रौपदीं भूषणैश्शुभ्रैर्भूषयित्वा महाधनैः ॥
न्यायतः पूजिता राज्ञा द्रुपदेन महात्मना ।
रेमिरे पाण्डवैस्सार्धं ते पाञ्चालपुरे तदा ॥ ॥