वैशम्पायनः-
ततो राज्ञां चरैराप्तैश्चारस्समुपनीयते ।
पाण्डवैरुपसम्पन्ना द्रौपदी बहुभिस्त्विति ॥
येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना ।
सोऽर्जुनो जयतां श्रेष्ठो महाबाहुर्धनुर्धरः ॥
यश्शल्यं मद्रराजानं उत्क्षिप्य न्यहनद्बली ।
त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे ॥
न चास्य सम्भ्रमः कश्चिदासीत्तत्र महात्मनः ।
स भीमो भीमसन्नादश्शत्रुसैन्याङ्गमर्दनः ॥
योऽसौ वीरतमोऽधावद्युद्धे दुर्योधनं तदा ।
स राजा पाण्डवश्रेष्ठश्श्रेष्ठवाग्बुद्धिवर्धनः ॥
दुर्योधनस्यावरजैर्यौ युध्येतां प्रतीतवत् ।
तौ यमौ वृत्तसम्पन्नौ सम्पन्नबलविक्रमौ ।
चारैः प्रणिहितैर्बुध्वा राजानो विगतज्वराः ॥
ब्रह्मरूपधरान्बुध्वा तत्र तानृषभेक्षणान् ।
पाण्डवान्मनुजेन्द्रास्ते समपद्यन्त विस्मिताः ॥
सा सपुत्रा तदा कुन्ती दग्धा जतुगृहे श्रुता ।
सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनी ॥
पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥
व्यनिन्दश्च तथा भीष्मं धृतराष्ट्रं च कौरवम् ।
कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥
धार्मिकान्वृत्तसम्पन्नान्मातुः प्रियहिते रतान् ।
यदा तानीदृशान्पार्थानुत्सादयितुमिच्छति ॥
ततस्स्वयंवरे वृत्ते धार्तराष्ट्रास्स्म भारत ।
मन्त्रयन्ते ततस्सर्वे कर्णसौबलदूषिताः ॥
शकुनिः-
कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथाऽपरः ।
उत्सादनीयाः कौन्तेयास्सर्वे क्षत्रस्य मे मताः ॥
एवं पराजितास्सर्वे यदि यूयं गमिष्यथ ।
अकृत्वा संविदं काञ्चित्तद्वत्तप्स्यत्यसंशयम् ॥
अयं देशश्च कालश्च पाण्डवोद्धरणाय नः ।
न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ ॥
यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम् ।
सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम ॥
यावदेतान्न जानन्ति जीवतो वृष्णिपुङ्गवाः ।
चैद्यश्च पुरुषव्याघ्रश्शिशुपालः प्रतापवान् ॥
एकीभावं गता राज्ञा द्रुपदेन महात्मना ।
दुराधर्षतरा राजन्भविष्यन्ति न संशयः ॥
यावदत्वरतां सर्वे प्राप्नुवन्ति नराधिपाः ।
तावदेव व्यवस्यामः पाण्डवानां वधं प्रति ॥
मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव ।
पुनर्यदीह मुच्यन्ते महन्नो भयमाविशेत् ॥
तेषामिहोपयातानामेषां तु पुरवासिनाम् ।
अन्तरे दुष्करं स्थातुं मेषयोर्महतोरिव ॥
हलधृक्प्रगृहीतानि बलानि बलिनां स्वयं ।
यावन्नः कुरुसेनायां पतन्ति पतगा इव ॥
तावत्सर्वाभिसारेण पुरमेतद्विनाश्यताम् ।
एतदत्र परं मन्ये प्राप्तकालं नरर्षभाः ॥
वैशम्पायनः-
शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः ।
सोमदत्तिरिदं वाक्यं जगाद परमं ततः ॥
सौमदत्तिः-
प्रकृतीस्सप्त वै ज्ञात्वा आत्मनश्च परस्य च ।
तथा देशं च कालं च षड्विधांश्च नयेद्गुणान् ॥
स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् ।
समीक्ष्याथाभियुञ्जीत परं व्यसनपीडितम् ॥
ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान् ।
बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् ॥
वपुषा हि तु भूतानां नेत्राणि हृदयानि च ।
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम् ।
न तु केवलदैवेन प्रजा भावेन भेजिरे ॥
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥
न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती ॥
तानेवं गुणसम्पन्नान्सम्पन्नान्राजलक्षणैः ।
न तान्पश्यामि ये शक्तास्समुच्छेत्तुं यथा बलात् ॥
प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला ।
तथैवोत्साहशक्तिश्च पार्थेष्वप्यधिका सदा ।
मौलमित्रबलानां च कालज्ञो वै युधिष्टिरः ॥
साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः ।
अमित्रं यतते जेतुं न रोषेणेति मे मतिः ॥
परिक्रीय धनैश्शत्रून्मित्राणि च बलानि च ।
मूलं च सुदृढं कृत्वा हन्त्यरीन्पाण्डवस्तदा ॥
अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः ।
येषामर्थे सदा युक्तौ कृष्णसङ्कर्षणावुभौ ॥
श्रेयश्च यदि मन्यध्वं मन्मतं यदि वो मतम् ।
संविदं पाण्डवैस्सार्धं कृत्वा याम यथागतम् ॥
गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि ।
गुप्तं पुरवरश्रेष्ठमेतदद्भिश्च संवृतम् ॥
तृणधान्येन्धनरसैस्तथा यन्त्रायुधौषधैः ।
युक्तं बहुकवाटैश्च द्रव्यागारतुषादिकैः ॥
भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम् ।
दृढप्राकारनिर्यूहं शतघ्नीजालसंवृतम् ॥
ऐष्टको दारवो वप्रो मानुषश्चेति यस्स्मृतः ।
प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः ॥
तदेतन्नरगर्भेण पाण्डरेण विराजते ।
सालेनानेकतालेन सर्वतस्संवृतं पुरम् ॥
अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः ।
दानमानार्चितास्सर्वे बाह्याश्चाभ्यन्तराश्च ये ॥
प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः ।
उपयास्यन्ति दाशार्हास्समुदग्रोच्छ्रितायुधाः ॥
तस्मात्सन्धिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः ।
स्वराष्ट्रमेव गच्छामो यद्याप्तं वचनं मम ॥
एतन्मम मतं सर्वैः क्रियतां यदि रोचते ।
एतद्धि सुकृतं मन्ये क्षेमं चापि महीक्षिताम् ॥ ॥