व्यासः-
इदमन्यत्पुरावृत्तं तन्निबोध च भूमिप ।
कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि ।
नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः ॥
तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिपाः ॥
साल्वेयश्शूरसेनश्च श्रुतसेनश्च वीर्यवान् ।
तिन्दुसारोऽद्रिसारश्च क्षत्रियाः क्रतुयाजिनः ।
नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः ॥
एतान्नैतन्तवान्पञ्च शैब्या चात्र स्वयंवरे ।
अवाप तान्पतीन्वीरान्भौमाश्वी मनुजाधिप ॥
वीणेयं मधुरारावा गान्धारस्वरमूर्छिता ।
उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा ॥
यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः ।
बभूवुः पृथिवीपालास्सर्वैस्समुदिता गुणैः ॥
तेषामेकाऽभवद्भार्या राज्ञामौशीनरी शुभा ।
भौमाश्वी नाम भद्रं ते तथा रूपगुणान्विता ॥
पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत ॥
तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा ।
पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि ।
यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम ॥
साल्वेयाश्शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः ।
तिन्दुसाराद्रिसाराश्च वंशा एषां नृपोत्तम ॥
एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता ॥
व्यासः-
आसीत्तपोवने काचिदृषेः कन्या महात्मनः ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ।
तोषयामास तपसा सा तु देवं महेश्वरम् ॥
तपसा चेश्वरस्तुष्टो वृणीथाः काममीप्सितम् ॥
अथेश्वरमुवाचेदमात्मनो यद्धितं वचः ।
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥
एवमुक्तस्तदा देव इदं वचनमब्रवीत् ।
पञ्च ते पतयश्श्रेष्ठा भविष्यन्तीति शङ्करः ॥
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत ।
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर ।
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ॥
पञ्चकृत्वस्त्वया प्रोक्तः पतिं देहीत्यहं शुभे ।
देहमन्यं गतायास्ते यथोक्तं वै भविष्यति ॥
सैव नालायनी भूत्वा रूपेणाप्रतिमा भुवि ।
मौद्गल्यं पतिमासाद्य शिवाद्वरमवाप्य च ॥
द्रुपदैषा ततो जज्ञे सुता ते देवरूपिणी ।
पञ्चानां विहिता कृष्णा पुरा पार्षत्यनिन्दिता ॥
स्वर्गाच्छ्रीः पाण्डवार्थाय समुत्पन्ना तपोवने ।
सैतत्तप्त्वा तपो घोरं दुहितृत्वं गता तव ॥
सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेनैव कर्मणा ।
सृष्टा स्वयं देवपत्नी स्वयम्भुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥
द्रुपदः-
श्रुत्वैवैवं वचनं ते महर्षे मया पूर्वं विदितं वर्जनीयम् ।
न हि शक्यं विहिताच्चापयातुं तदेवेदमुपपन्नं विधानम् ॥
दिष्टस्य ग्रन्थिरनिवर्तनीयस्स्वकर्मणा विहितं तेन किञ्चित् ।
कृतं निमित्तं हि वरैकहेतोस्तदेवेदमुपपन्नं बहूनाम् ॥
यथैव कृष्णोक्तवती पुरस्तान्नैकान्पतीन्मे भगवान्ददातु ।
स चाप्येतद्वरमित्यब्रवीत्तदा देवो हि वेद परमं यदत्र ॥
यदि त्वयं विहितश्शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः ।
गृह्णन्त्विमे पाण्डवाः पाणिमस्या यथाजोषं विहितैषां हि कृष्णा ॥
वैशम्पायनः-
तत आजग्मतुस्तत्र तौ कृष्णद्रुपदावुभौ ।
कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश्च पार्षतः ॥
ततो द्वैपायनः कृष्णो युधिष्ठिरमथाब्रवीत् ॥
व्यासः-
अद्य पुण्यमहश्चन्द्रो रोहिण्या च समेष्यति ।
क्रमेण पुरुषव्याघ्र पाणिं गृह्णन्तु पाण्डवाः ।
द्रौपद्या धर्मतस्सर्वे दृष्टमेतत्पुराऽनघ ॥
वैशम्पायनः-
ततो राजा यज्ञसेनस्सपुत्रो जन्यार्थयुक्तं बहु तत्तदाऽग्र्यम् ।
सम्भावयामास सुतां च कृष्णामाप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥
ततस्तु सर्वे सुहृदस्तत्र तस्य समाजग्मुस्सचिवा मन्त्रिणश्च ।
द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथाप्रधानाः ॥
तत्तस्य वेश्मार्थिजनोपशोभितं विकीर्णपद्मोत्पलशोभिताङ्घ्रिकम् ।
बभूव रत्नौघविचित्रमाबभौ दिवं यथा निर्मलतारकाचितम् ॥
ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनस्सुवेषाः ।
महार्हवस्त्रा वरचन्दनोक्षिताः कृताभिषेका कृतकौतुकक्रियाः ॥
पुरोहितेनाग्निसमेन तेजसा सहैव धौम्येन तथा यथाविधि ।
क्रमेण सर्वे विविशुश्च तत्सदो महर्षभा गोष्ठमिवाभिनन्दिनः ॥
ततस्समाधाय स वेदपरागो जुहाव मन्त्रैर्ज्वलितं हुताशनम् ।
युधिष्ठिरं चाप्युपनीय मन्त्रविन्नियोजयामास सहैव कृष्णया ॥
प्रदक्षिणं तौ परिगृह्य पाणीना समानयामास स वेदपरागः ।
विप्रांस्तु सन्तर्प्य युधिष्ठिरोऽन्नैर्गोभिश्च रत्नैर्विविधैश्च पूर्वम् ॥
जग्राह पाणिं नरदेव जायया धौम्येन मन्त्रैर्विधिवद्धुतेऽग्नौ ।
ततोऽन्तरिक्षात्कुसुमानि पेतुर्ववौ च वायुस्सुमनोज्ञगन्धः ॥
ततोऽभ्यनुज्ञाप्य तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ ।
क्रमेण चानेन नराधिपात्मजा वरस्त्रियास्ते जगृहुः करं तदा ॥
अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः ।
इदं च तत्राद्भुतरूपमुत्तमं दधार कृष्णा वपुषाऽतिमानुषम् ॥
महानुभावा किल सा सुमध्यमा बभूव कन्येव गते गतेऽहनि ।
कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम् ॥
शतं रथानां वरहेमभूषितं चतुर्युजां हेमविचित्रमालिनाम् ।
शतं गजानामपि पद्मजानां तथा गिरिणामिव हेमशृङ्गिणाम् ॥
शतं दशाश्वान्मणिहेमभूषणान्मनोजवान्द्वादशवार्षिकान्यथा ।
तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम् ॥
हैमानि शय्यासनभाजनानि द्रव्याणि चान्यानि महासनानि ।
पृथक्पृथक्चैव दशायुतानि धनं ददौ सौमकिरग्निसाक्षिकम् ॥
तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महाधनानि ॥
कृते विवाहे च ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् ।
विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह ॥
सर्वेऽपि तुष्यन्नृप पाण्डवेयास्तस्याश्शुभैश्शीलसमाधिवृत्तैः ।
सा चाप्येषा याज्ञसेनी तदानीं विवर्धयामास मुदं स्वसुव्रतैः ॥ ॥