व्यासः-
पुरा वै नैमिशारण्ये देवास्सत्रमुपासते ।
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥
ततो यमो दीक्षितस्तत्र राजन्नामारयत्कञ्चिदपि प्रजाभ्यः ।
ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणात्प्रहीणाः ॥
ततश्च शक्रो वरुणः कुबेरस्साध्याश्च रुद्रा वसवश्चाश्विनौ च ।
प्रणेतारं भुवनस्य प्रजापतिं समाजग्मुस्तत्र देवास्तथाऽन्ये ॥
ततोऽब्रुवँल्लोकगुरुं समेता भयं नस्तीव्रं मानुषाणां प्रवृद्ध्या ।
तस्माद्भयादुद्विजन्तस्सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम् ॥
ब्रह्मा-
किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः ।
न वो मर्त्यसकाशाद्वै भयं भविति कर्हिचित् ॥
देवाः-
मर्त्या ह्यमर्त्यास्संवृत्ता न विशेषोऽस्ति कश्चन ।
अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥
ब्रह्मा-
वैवस्वतो व्यापृतस्सत्रहेतोस्तेन त्विमे न म्रियन्ते मनुष्याः ।
तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः ॥
वैवस्वतस्येह तनुर्हि भूत्वा वीर्येण युष्माकमुत प्रवृद्धा ।
सैषामन्तो भविता ह्यन्तकाले नियच्छध्वं मोहममित्रसाहाः ॥
व्यासः-
ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा जग्मुर्यत्र देवा यजन्ते ।
समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम् ॥
दृष्ट्वा च तद्विस्मितास्ते बभूवुस्तेषामिन्द्रस्तत्र शूरो जगाम ।
सोऽपश्यद्योषामथ पावकप्रभां यत्र देवी गङ्गा सततं प्रभूता ॥
सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्य व्यतिष्ठत् ।
तस्याश्रुबिन्दुः पतितो जले वै तत्पद्ममासीदथ तत्र काञ्चनम् ॥
तदद्भुतं प्रेक्ष्य वज्री तदानीमपृच्छत्तां योषितमन्तिकाद्वै ।
का त्वं भद्रे रोदिषि कस्य हेतोर्वाक्यं तथ्यं कामयेऽहं ब्रवीहि ॥
स्त्री-
त्वं वेत्स्यसे मामिह याऽस्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या ।
आगच्छ राजन्पुरतो गमिष्ये द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम् ॥
व्यासः-
तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् ।
सिद्धासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥
तमब्रवीद्देवराजो ममेदं त्वं विद्धि विद्वं भुवनं वशे स्थितम् ।
ईशोऽहस्मीति समन्युरब्रवीद्दृष्ट्वा तमक्षैस्सुभृशं प्रमत्तम् ॥
क्रुद्धं च शक्रं प्रसमीक्ष्य देवो जहाय शक्रं च शनैरदीक्ष्य ।
संस्तम्भितोऽभूदथ देवराजस्तेनेक्षितस्स्थाणुरिवावतस्थे ॥
यदा तु पर्याप्तरिहाक्षक्रीडया तदा देवीं रुदतीं तामुवाच ।
आनीयतामेष यतोऽहमारान्नैनं दर्पः पुनरप्याविशेत ॥
तदा शक्रस्स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् ।
तमब्रवीद्भगवानुग्रतेजा नैवं पुनश्शक्र कृथाः कथञ्चित् ॥
निवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम् ।
विवृत्य चैवाविश मध्यमस्य यत्रासते त्वद्विधास्सूर्यभासः ॥
स तद्विवृत्य शिखरं महागिरेस्तुल्यद्युतींस्तांश्चतुरो ददर्श ।
स तानभिप्रेक्ष्य बभूव दुःखितः कथं नाहं भविता वै यथेमे ॥
ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे रुषितोऽभ्युवाच ।
दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥
उक्तस्त्वेवं विभुना देवराजः प्रावेपमानो भवदेवाभिषङ्गात् ।
स्रस्तैरङ्गैरनिलेनेव नुन्नमश्वत्थपत्रं गिरिराजमूर्ध्नि ॥
स प्राञ्जलिर्वै विनतेनाननेन प्रवेपमानस्सहसैवमुक्तः ।
उवाच देवं बहुरूपमुग्रं दृष्ट्वा शेषं भगवंस्त्वं प्रसीद ॥
तमब्रवीदुग्रधन्वा प्रहस्य नैवंविधाश्शेषमवाप्नुवन्ति ।
एतेऽप्येवं भवितारः पुरस्तात्तस्मादेते दरीमेनां प्रविष्टाः ॥
एषा भार्या भविता वो न संशयो योनिं सर्वे मानुषीं संविशध्वम् ।
तत्र यूयं कर्म कृत्वाऽविषह्यं भूभारस्य निधनं प्रापयित्वा ॥
शस्त्रैर्दिव्यैर्मानुषान्योधयित्वा शूरान्सर्वानाहवे तान्विजित्य ।
आगन्तारः पुनरेवेन्द्रवलोकं स्वकर्मणा पूज्यमाना महार्हम् ।
सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थवच्च ॥
पूर्वेन्द्राः-
गमिष्यामो मानुषं देवलोकाद्दुरावारो विहितो यत्र मोक्षः ।
देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च ॥
व्यासः-
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठः पुनरेवेदमाह ।
वीर्येणाहं पुरुषं कार्यहेतोर्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥
तेषां कामं भगवानुग्रकर्मा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् ।
तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु ॥
तैरेव सार्धं तु ततस्स देवो जगाम नारायणमप्रमेयम् ।
स चापि तद्व्यदधात्सर्वमेव ततस्सर्वे सम्बभूवुर्धरण्यमाम् ॥
नरं तु देवं विबुधप्रधानमिन्द्राज्जिष्णुं पञ्चमं कल्पयित्वा ।
स चापि केशौ हरिरुद्बबर्ह शुक्लमेकमपरं चापि कृष्णम् ॥
तौ चापि केशौ विशतां यदूनां कुले स्त्रियौ देवकीं रोहिणीं च ।
तयोश्श्वेतो बलदेवो बभूव कृष्णो द्वितीयः केशवस्सम्बभूव ॥
ये ते पूर्वं शक्ररूपा निरुद्धास्तस्यां दर्यां पर्वतस्योत्तरस्य ।
इहैव ते पाण्डवा वीर्यवन्तश्शक्रस्यांशः पाण्डवस्सव्यसाची ॥
एवमेते पाण्डवास्सम्बभूवुर्ये ते राजन्पूर्वमिन्द्रा बभूवुः ।
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या चैषा द्रौपदी दिव्यरूपा ॥
कथं हि स्त्री कर्मणोऽन्ते महीतलात्समुत्तिष्ठेदन्यतो दैवयोगात् ।
यस्या रूपं सोमसूर्यप्रकाशं गन्धश्च यस्याः कोशमात्रात्प्रवाति ॥
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददामि ते दिव्यमत्यद्भुतं च ।
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥
वैशम्पायनः-
ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः ।
चक्षुर्दिव्यं प्रददौ तेन सर्वान्राजाऽपश्यत्पूर्वदेहैरुपेतान् ॥
ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान् ।
बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कान्सालमात्रान्ददर्श ॥
दिव्यैर्वस्त्रैररजोभिस्सुवर्णैर्माल्यैश्चाग्र्यैश्शोभमानानतीव ।
साक्षात्त्र्यक्षान्वासवान्वाऽथ दिव्यानादित्यान्वा सर्वगुणोपपन्नान् ॥
पूर्वेन्द्रांस्तानेवमीक्ष्याभिरूपान्प्रीतो राजा द्रुपदो विस्मितश्च ।
दिव्यां मालां तामवेक्ष्याप्रमेयां तां चैवाग्र्यां श्रियमिव रूपिणीं च ॥
योग्यां तेषां रूपतेजोयशोभिः पत्नीमिष्टां हृष्टवान्पार्थिवेन्द्रः ॥
स तां दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्यास्सुतस्य ।
नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेतास्स उवाच चैनम् ॥ ॥