व्यासः-
मा भूद्राजंस्तव तापो मनस्थः पञ्चानां भार्या दुहिता ममेति ।
मातुरेषा पार्थिव प्रार्थिता स्यात्पञ्चानां भार्या दुहिता ममेति ॥
याजोपयाजौ धर्मघृणी तपोभ्यां तौ चक्रतुः पञ्चपतित्वमस्याः ।
सा धर्मतः पाण्डुसुतैरवाप्ता भार्या कृष्णा मोदतां वै कुलं ते ॥
लोके नान्यो नाथवाणस्त्वद्विशिष्टस्सर्वारीणामप्रधृष्योऽसि राजन् ।
भूयस्त्विदं शृणु मे त्वं विशोको यथागतं पञ्चपतित्वमस्याः ॥
एषा नालायनी पूर्वं मौद्गल्यं स्थविरं पतिम् ।
आराधयामास तदा कुष्ठिनं तमनिन्दिता ॥
त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम् ।
सुगन्धेतरगन्धाढ्यं वलीपलितधारिणम् ॥
स्थविरं विकृताकारं शीर्यमाणनखत्वचम् ।
उच्छिष्टमुपभुञ्जाना पर्युपास्ते महाव्रता ॥
ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत ।
अन्नादुद्धृत्य तच्चान्नमुपभुङ्क्तेऽविशङ्किता ॥
तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा ।
वरं वृणीष्वेत्यसकृदुक्तो वव्रे वरं तदा ॥
मौद्गल्यः-
नास्मि वृद्धो न कटुको नेष्युर्नैवातिकोपनः ।
न च दुर्गन्धवदनो न कृशो न च लोलुपः ॥
कथं त्वां रमयामीह कथं त्वां वासयाम्यहम् ।
वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि ॥
व्यासः-
सा तमक्लिष्टकर्माणं वरदं सर्वकामदम् ।
भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह ॥
नालायनी-
पञ्चधा मा विभक्तात्मा भगवँल्लोकविश्रुतः ।
रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमास्थितः ॥
व्यासः-
तां तथेत्यब्रवीद्धीमान्ब्रह्मर्षिर्वै महातपाः ।
स पञ्चधावपुर्भूत्वा रमयामास सर्वशः ।
नालायनीं सुकेशान्तां मौद्गल्यश्चारुहासिनीम् ॥
आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः ।
विचचार यथाकामं कामरूपवपुः पुनः ॥
यदा ययौ दिवं चापि तत्र देवर्षिभिस्सह ।
स्वधामृतरसाहारस्सुरलोके चचार ह ॥
पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि ।
महेन्द्रसेनया सार्धं पर्यटन्दिवि रंहसः ॥
सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः ।
पर्युपेत्य पुनर्मेरुं मेरौ वासमरोचयत् ॥
आकाशगङ्गामाप्लुत्य तया सह तपोननिधिः ।
अंशुजालेषु चन्द्रस्य उवास च यथाऽनिलः ॥
गिरिरूपं यथा दध्रे स महर्षिस्तदा पुनः ।
तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी ॥
यदा पुष्पाकुलस्सालस्सञ्जज्ञे भगवानृषिः ।
लतात्वमथ सम्पेदे तमेवाभ्यनुवेष्टती ॥
पुपोष च वपुर्यत्तद्रूपं तस्यानुगं पुनः ।
सा पुपोष समं भर्तुस्स्कन्धेनापि चचार ह ।
ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत ॥
तथा सा भगवांस्तस्याः प्रसादादृषिसत्तमः ।
विजज्ञुषी च सा तत्र तपोयोगेन भामिनी ।
स च तां तपसा देवीं रमयामास योगतः ॥
एकपत्नी पुनर्भूत्वा सदैवाग्रे यशस्विनी ।
अरुन्धतीव सीतेव बभूवातिपतिव्रता ॥
दमयन्त्याश्च मातुस्सा विशेषमधिकं ययौ ।
एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा ॥
एषा नालायनी जज्ञे दैवयोगेन केनचित् ।
राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा ॥
तस्मिंस्तस्या मनस्सक्तं न चचाल कदाचन ।
तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे ॥
द्रुपदः-
ब्रूहि तत्कारणं येन ब्रह्मञ्जाता तपस्विनी ।
सूता ममाध्वरे कृष्णा सर्ववेदविदां वर ॥
व्यासः-
शृणु राजन्यथा ह्यस्या दत्तो रुद्रेण वै पुरा ।
यदर्थं चैव सम्भूता तव गेहे यशस्विनी ॥
अहं ते कथयिष्यामि कृष्मायाः पौर्वदेहिकम् ॥
इन्द्रसेनेति विख्याता पुरा नालायनी शुभा ।
मौद्गल्यं पतिमासाद्य चचार विगतज्वरा ॥
मौद्गल्यस्य महर्षेश्च रममाणस्य वै तया ।
संवत्सरगणा राजन्व्यतीयुः क्षणवत्तदा ॥
ततः कदाचिद्धर्मात्मा तृप्तकामो व्यरज्यत ।
अन्विच्छन्परमं ब्रह्म त्यागधर्मपरोऽभवत् ॥
उत्ससर्ज स तां विप्रस्सा तदा चापतद्भुवि ।
मौद्गल्यो राजशार्दूल तपोभिर्भावितस्सदा ॥
नालायनी-
प्रसीद भगवन्मह्यं न मामुत्स्रष्टुमर्हसि ।
अवितृप्ताऽस्मि ब्रह्मर्षे कामानां मम कामद ॥
ऋषिः-
यस्मात्त्वं मयि निश्शङ्का ह्यवक्तव्यं प्रभाषसे ।
आचरन्ती तपोविघ्नं तस्माच्छृणु वचो मम ॥
भविष्यसि नृलोकेऽस्मिन्राजपुत्री यशस्विनी ।
पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः ॥
भवितारस्ततस्तत्र पतयः पञ्च विश्रुताः ।
तैस्सार्धं मधुराकारैश्चिरं रतिमवाप्स्यसि ॥
वैशम्पायनः-
सैवं शप्ता तु विमना वनं प्रायाद्यशस्विनी ।
भोगैरतृप्ता देवेशं तपसाऽऽराधयत्तदा ॥
निराशीर्मारुताहारा निराहारा तथैव च ।
अनुवर्तमाना त्वादित्यं तथा पञ्चतपाभवत् ॥
तीव्रेण तपसा तस्यास्तुष्टः पशुपतिस्स्वयम् ।
वरं प्रादात्तदा रुद्रस्सर्वलोकेश्वरः प्रभुः ॥
महेश्वरः-
भविष्यति परं जन्म मनुष्येषु वराङ्गने ।
भविष्यन्ति च ते भद्रे पतयः पञ्च सुव्रताः ॥
महेन्द्रवपुषस्सर्वे महेन्द्रसमविक्रमाः ।
तत्रस्था च महत्कर्म सुराणां त्वं करिष्यसि ॥
नालायनी-
एकः खलु मया भर्ता वृतः पञ्च त्विमे कथम् ।
भविष्यन्ति ममैकस्याः पतयस्तद्ब्रवीहि मे ॥
महेश्वरः-
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः ।
पञ्च ते पतयो भद्रे भविष्यन्ति सुखावहाः ॥
नालायिनी-
धर्म एकः पतिस्स्त्रीणां पूर्वमे प्रकल्पितः ।
बहुपत्नीकता पुंसां धर्मश्च पितृभिः कृतः ॥
स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः पुरा ।
सहधर्मचरी भर्तुरेका एकस्य चोच्यते ॥
एको हि भर्ता नारीणां कौमार इति लौकिकः ।
आपत्सु च नियोगेन सन्तानार्थे परस्स्मृतः ।
गच्छेत या तृतीयं तु तस्या निष्कृतिरुच्यते ॥
चतुर्थे पतिता धर्मात्पञ्चमे वर्धकी भवेत् ।
एवं गते धर्मपथे न वृणे बहुपुंस्कताम् ॥
अलोकाचरितात्त्समात्कथं मुच्येय सङ्करात् ॥
महेश्वरः-
अनावृताः पुरा नार्यो ह्यासञ्शुध्यन्ति चार्तवे ।
सकृदुक्तं त्वया नैतन्नाधर्मस्ते भविष्यति ॥
नालायनी-
यदि मे पतयः पञ्च रतिमिच्छामि तैर्मिथः ।
कौमारं च भवेत्सर्वैस्सङ्गमे सङ्गमे च मे ॥
महेश्वरः-
पतिशुश्रूषया चैव सिद्धिः प्राप्ता मया पुरा ।
भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत् ।
रतिश्च भद्रे सिद्धिश्च न भजेते परस्परम् ॥
अभोगा लप्स्यसे सिद्धिं योगेन च महत्त्वताम् ॥
अन्यदेहान्तरे च त्वं रूपभाग्यगुणान्विता ।
पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि ॥
गच्छ गङ्गाजलद्वारं नरं पश्यसि यं शुभे ।
तमानय ममाभ्याशं सुरराजं शुचिस्मिते ॥
व्यासः-
इत्युक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम् ।
जगाम गङ्गामुद्दिश्य पुण्यां त्रिपथगां नदीम् ॥ ॥