वैशम्पायनः-
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् ।
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ।
पर्यपृच्छददीनात्मा कुन्तीपुत्रं युधिष्ठिरम् ॥
द्रुपदः-
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ।
वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् ॥
मायामास्थाय वा सिद्धांश्चरतस्सर्वतोदिशम् ।
कृष्णाहेतोरनुप्राप्तान्दिवस्सन्दर्शनार्थिनः ॥
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् ॥
अपि नस्संशयस्यान्ते मनस्स्तुष्टिरिहाविशेत् ।
अपि नो भागधेयानि शुभानि स्युः परन्तप ॥
कामयेयं ब्रूहि सत्यं सत्यं राजसु शोभते ।
इष्टापूर्तेन च तथा वक्तव्यं नानृतं भवेत् ॥
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिन्दम ।
ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥
युधिष्ठिरः-
मा राजन्विमना भूस्त्वं पाञ्चाल प्रीतिरस्तु ते ।
ईप्सितस्ते ध्रुवः कामस्संवृत्तोऽयमसंशयम् ॥
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः ।
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ।
याभ्यां तव सुता राजन्निर्जिता राजसंसदि ॥
यमौ तौ तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता ।
व्येतु ते मानसं दुःखं क्षत्रियास्स्मो नराधिप ॥
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता ॥
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते ।
भवान्हि गुरुरस्माकं परमं च परायणम् ॥
वैशम्पायनः-
ततस्स द्रुपदो राजा हर्षव्याकुललोचनः ।
प्रतिवक्तुं न शक्तोऽभूद्धर्मसूनुं तदाऽनघम् ॥
यत्नेन तु स तं हर्षं सन्निगृह्य परन्तपः ।
अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ॥
पर्यपृच्छददीनात्मा यथा ते प्रद्रुताः पुरा ।
तथाऽस्मै सर्वमाचष्ट आनुपूर्व्येण पाण्डवः ॥
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् ।
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम् ॥
आश्वासयामास तदा कुन्तीपुत्रं युधिष्ठिरम् ।
प्रतिजज्ञे स राज्याय द्रुपदो वदतां वरः ॥
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि ।
यमौ च राज्ञा सन्दिष्टा विविशुर्भवनं महत् ॥
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः ।
पर्याश्वस्तांस्तदा राजा सह पुत्रैरुवाच तान् ॥
द्रुपदः-
वैशम्पायनः-
गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः ।
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ।
ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः ॥
ममापि दारसम्बन्धः कार्यस्तावद्विशाम्पते ।
तस्मात्पूर्वं मया कार्यं तद्भवाननुमन्यताम् ॥
द्रुपदः-
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम ।
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥
युधिष्ठिरः-
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति ।
एवं हि व्याहृतं पूर्वं मम मात्रा विशाम्पते ॥
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः ।
पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥
एष नस्समयो राजन्रत्नस्य सह भोजनम् ।
न चैनं हातुमिच्छामस्समयं राजसत्तम ॥
अक्रमेण निवेशे च धर्मलोपो महान्भवेत् ॥
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति ।
आनुपूर्व्येण गृह्णन्तु सर्वेऽग्नौ ज्वलिते करम् ॥
द्रुपदः-
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन ।
नैकस्या बहवः पुंसो विधीयन्ते कदाचन ।
सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्ते ॥
लोकवेदविरुद्धं च नाधर्मं धार्मिकश्शुचिः ।
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥
युधिष्ठिरः-
सूक्ष्मो धर्मो महाराज नास्य विद्मो गतिं वयम् ।
पूर्वेषामानुपूर्व्येण यातं वर्त्माऽनुयामहे ॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
एवं चैव वदत्यम्बा ममापि च मनोगतम् ॥
आश्रमेषु विनिर्दिष्टाद्व्यासादेतन्मया श्रुतम् ।
धर्म एष ध्रुवो राजंश्चरैनमविचारयन् ॥
अत्र ते संशयो मा भूत्कथमित्यवनीश्वर ॥
द्रुपदः-
त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः ।
कथयन्त्विह कर्तव्यं श्वः काल्ये करवामहे ॥
वैशम्पायनः-
ते समेत्य ततस्सर्वे कथयन्ति स्म भारत ।
अथ द्वैपायनो राजन्नाजगाम विचिन्तितः ॥
वैशम्पायनः-
ततस्ते पाण्डवास्सर्वे पाञ्चाल्यश्च महारथः ।
प्रत्युथाय महात्मानं कृष्णं दृष्ट्वाऽभ्यपूजयन् ॥
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा च कुशलं ततः ।
आसने काञ्चने शुभ्रे निषसाद महामुनिः ॥
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा ।
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥
ततो मुहूर्तं मधुरां वाचमुच्चार्य पार्षतः ।
पप्रच्छ तं महात्मानं द्रौपद्यर्थं महामुनिम् ॥
द्रुपदः-
कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः ।
एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ॥
व्यासः-
अस्मिन्धर्मे विप्रलब्धे लोकवेदविरोधिते ।
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥
द्रुपदः-
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः ।
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः ।
न चाधर्मोऽप्यनेकस्थश्चरितव्यस्सनातनः ॥
अतो नाहं करोम्येनं व्यवसायं सुतां प्रति ।
धर्मसन्देहसन्दिग्धं प्रतिभातीह मामिदम् ॥
धृष्टद्युम्नः-
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ ।
ब्रह्मन्समभिवर्तेत सद्वृत्तस्संस्तपोधन ॥
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मि कथञ्चन ।
अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥
कर्तुमस्मद्विधैर्ब्रह्मन्नतो न व्यवसाम्यहम् ।
पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ॥
युधिष्ठिरः-
न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ॥
श्रूयते हि पुराणेषु जटिलो नाम गौतमः ।
तस्य पुत्री महाप्राज्ञा गौतमस्य यशस्विनी ।
ऋषीनध्यासितवती सप्त धर्मभृतां वरान् ॥
तथा वै मृगशाबाक्षी तपोभिर्भावितान्मुनीन् ।
दशाभजदृषीन्भ्रातॄनेकनाम्नः प्रचेतसः ॥
गुरोश्च वचनं प्राहुर्धर्म्यं धर्मभृतां वरम् ।
गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ॥
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति ।
तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम ॥
कुन्ती-
एवमेतद्यथाऽऽहायं धर्मचारी युधिष्ठिरः ।
भुज्यतां भ्रातृभिस्सार्धमित्यर्जुनमचोदयम् ॥
अनृतान्मे भयं तीव्रं मुच्येऽहमनृतात्कथम् ॥
व्यासः-
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः ।
ननु वक्ष्यामि सर्वेषां पाञ्चाल शृमु मे वचः ॥
यथाऽयं विहितो धर्मो यतश्चायं सनातनः ।
यथा चाप्याह कौन्तेयस्तथा धर्मो न संशयः ॥
वैशम्पायनः-
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः ।
करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥
पाण्डवास्त्वथ कुन्ती च धृष्टद्युम्नश्च पार्षतः ।
मिथः कथाभिस्ते सर्वे प्रतीक्षन्ते स्म तावुभौ ॥
ततो द्वैपायनस्तस्मै नरेन्द्राय विशाम्पते ।
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥
यथा देवा ददुश्चैव राजपुत्र्याः पुरा वरम् ।
धर्माद्यास्तपसा तुष्टाः पञ्चपत्नीत्वमीश्वराः ॥ ॥