वैशम्पायनः-
ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ नरेन्द्रपुत्रः ।
धृष्टद्युम्नस्सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा ॥
धृष्टद्युम्नः-
योऽसौ युवा स्वायतलोहिताक्षः कृष्णाजिनी रूपमतीव बिभ्रत् ।
यः कार्मुकाग्र्यं कृतवानधिज्यं लक्षं च तत्पातितवान्पृथिव्याम् ॥
आसज्जमानश्च गतस्तरस्वी द्विजातिभिस्तैरभिपूज्यमानः ।
विक्रम्य वज्रीव दितेस्सुतेषु सर्वैश्च देवैर्ऋषिभिश्च दृष्टः ॥
श्यामो युवा वारणमन्दगामी कृत्वा महत्कर्म सुदुष्करं तत् ।
कृष्णाऽपि कृष्णाजिनिनं जगाम नागं यथा नागवधूः प्रहृष्टा ॥
यस्सूतपुत्रेण चकार युद्धं शङ्केऽर्जुनं तं त्रिदशेशवीर्यम् ।
अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु तं तत्र समापतत्सु ॥
ततो वटुः पार्थिवसङ्घमध्ये प्रवृद्धमारुज्य महीप्ररोहम् ।
प्राकालयत्तत्र स पार्थिवान्रणे भीमोऽन्तकः प्राणभृतो यथैव ॥
तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ ।
विभ्राजमानाविव चन्द्रसूर्यौ बाह्यां पुराद्भार्गवकर्मशालाम् ॥
तत्रोपविष्टाऽर्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः ।
तथाविधैरेव नरप्रवीरैरुपोपविष्टा त्रिभिरग्निकल्पैः ॥
तस्यास्ततस्तावभिवाद्य पादावुपोपविष्टौ नरलोकवीरौ ।
स्थितौ च तत्रैव निवेद्य कृष्णां भिक्षाप्रचाराय गता नराग्र्याः ॥
तेषां तु भैक्षं प्रतिगृह्य कृष्णा कृत्वा बलिं ब्राह्मणानर्चयित्वा ।
तां चैव वृद्धां परिवेष्य तांश्च नरप्रवीरान्स्वयमप्यभुङ्क्त ॥
सुप्तास्तु ते पार्थिवास्सर्व एव कृष्णा च तेषां चरणोपधानम् ।
आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्र्यास्तरणोपपन्नम् ॥
ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयाम्बभूवुः ।
न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजार्हाः कथयन्ति वीराः ॥
निस्संशयं क्षत्रियपुङ्गवास्ते यथा हि युद्धं कथयन्ति राजन् ।
आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥
यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रगृह्य ।
यथा हि जल्पन्ति परस्परं ते छन्नं वसन्तो विचरन्ति पार्थाः ॥
वैशम्पायनः-
ततस्स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषायामास तत्र ।
विद्याम युष्मानिति भाषमाणो महात्मानः पाण्डुसुतांश्च कच्चित् ॥
गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् ।
वाक्यं यथावन्नृपतेस्समग्रमुवाच तेभ्यस्समनुक्रमेण ॥
पुरोधाः-
विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो द्रुपदो वरार्हान् ।
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं प्रतिपश्यते सः ॥
आचक्षध्वं जातिकुलानुपूर्वं शिरस्सु पादान्द्विषतां कुरुध्वम् ।
प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य सहात्मजस्य ॥
पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियस्सखा चात्मसमो बभूव ।
तस्यैष कामो दुहिता ममेयं स्नुषा यदि स्यादिह कौरवस्य ॥
अयं हि कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः ।
यदर्जुनो मे पृथुदीर्घबाहुर्धर्मेण विन्देत सुतां ममेति ॥
वैशम्पायनः-
तथोक्तवाक्यं तु पुरोहितं तं स्थितं विधिज्ञं समुदीक्ष्य राजा ।
समीपस्थं भीममिदं शशास प्रदीयतां पाद्यमर्ध्यं तथाऽस्मै ।
मान्यः पुरोधा द्रुपदस्य राज्ञस्तस्मै प्रयोज्याऽभ्यधिका च पूजा ॥
भीमस्ततस्तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिगृह्य तत्र ।
सुखोपविष्टं तु पुरोहितं तं युधिष्ठिरो ब्राह्मणमित्युवाच ॥
युधिष्ठिरः-
पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथा निकामम् ।
प्रदिष्टशुल्का द्रुपदेन राज्ञा सा तेन वीरेण तथा गृहीता ॥
न तत्र वर्णेषु कृता विवक्षा न चापि शीले न कुले न गोत्रैः ।
कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण च सन्निकृष्टा ॥
सेयं तथाऽनेन महात्मनेह कृष्णा जिता पार्थिवसङ्घमध्ये ।
नैवं गते सौमकिरद्य राजा सन्तापमर्हत्यसुखाय कर्तुम् ॥
कामश्च योऽसौ द्रुपदस्य राज्ञस्स चापि सम्पत्स्यति पार्थिवस्य ।
नाप्राप्तरूपस्य नरेन्द्रकन्यामिमामहं ब्राह्मण साधु मन्ये ॥
न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथा हि ।
न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं च शक्यम् ॥
तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्य ।
न चापि तत्पातनमन्यथेह कर्तुं विशह्यं भुवि मानवेन ॥
वैशम्पायनः-
एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः ।
तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् ॥
दूतः-
अन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च ।
तदाप्नुवध्वं कृतसर्वकार्याः कृष्णा च तत्रैतु चिरं न कार्यम् ॥
इमे रथाः काञ्चनपद्मचित्रास्सदश्वयुक्ता वसुधाधिपार्हाः ।
एतान्समारुह्य समेत सर्वे पाञ्चालराजस्य निवेशनं तत् ॥
वैशम्पायनः-
ततः प्रयाताः कुरुपुङ्गवास्ते पुरोहितं तं प्रथमं प्रयाप्य ।
आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सह प्रयाते ॥
स वै तथोक्तस्तु युधिष्ठिरेण पाञ्चालराजस्य पुरोहितोऽग्र्यः ।
सर्वं यथोक्तं कुरुनन्दनेन निवेदयामास नृपाय गत्वा ॥
श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः ।
जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसञ्जहार ॥
फलानि माल्यान्यथ संस्कृतानि चर्माणि वर्माणि तथाऽऽसनानि ।
गाश्चैव राजन्नथ चैव रज्जूरत्नानि धान्यानि कृषेर्निमित्तम् ॥
अन्येषु शिल्पेष्वपि यान्यपि स्युस्सर्वाणि कृत्यान्यखिलेन तत्र ।
क्रीडानिमित्तान्यपि यानि तानि सर्वाणि तत्रोपजहार राजा ॥
अस्त्राणि शस्त्राणि च भानुमन्ति खड्गा महान्तोऽथ रथाश्च चित्राः ।
धनूंषि चोग्राणि शराश्च मुख्याश्शक्त्यृष्टयः काञ्चनभूषिताश्च ॥
प्रासान्मुसुण्ड्यश्च परश्वथांश्च साङ्ग्रामिकांश्चैव तथाऽपि चान्यान् ।
शय्यासनान्युत्तमसंस्कृतानि तथैव राजन्विविधानि तत्र ॥
कुन्ती तु कृष्णां परिगृह्य साध्वीमन्तःपुरं द्रुपदस्याविवेश ।
राजस्त्रियः कौरवराजपत्रीं प्रत्यर्चयाञ्चक्रुरदीनसत्वाम् ॥
तान्सिंहविक्रान्तगतीन्नुदीक्ष्य महर्षभाक्षानजिनोत्तरीयान् ।
व्यूढान्तरांसान्भुजगेन्द्रभोगप्रलम्बबाहून्पुरुषप्रवीरान् ॥
राजा च राज्ञस्सचिवाश्च सर्वे पुत्राश्च राज्ञस्सुहृदस्तथैव ।
प्रेष्याश्च सर्वे निखिलेन राजन्हर्षं समापेतुरतीव तत्र ॥
ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः ।
यथानुपूर्व्याद्विविशुर्नराग्र्यास्तथा महार्हेषु न विस्मयन्तः ॥
उच्चावचं पार्थिवभोजनीयं पात्रेषु जाम्बूनदराजतेषु ।
दासाश्च दास्यश्च सुमृष्टवेषाः भोज्यं परं चाभ्युपजह्रुरन्नम् ॥
ते तत्र भुक्त्वा पुरुषप्रवीरा यथा सुकामं सुभृशं प्रतीताः ।
उत्क्रम्य सर्वाणि वसूनि तत्र साङ्ग्रामिकाण्याविविशुर्नृवीराः ॥
तल्लक्षयित्वा द्रुपदस्य पुत्रा राजा च सर्वे सह मन्त्रिमुख्याः ।
सम्मन्त्रयामासुरतीव हृष्टाः कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ॥ ॥