वैशम्पायनः-
धृष्टद्युमनस्तु पाञ्चाल्याः पृष्ठतः कुरुनन्दनौ ।
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् ॥
सोऽज्ञायमानः पुरुषानवधार्य समन्ततः ।
स्वयमारान्निविष्टोभूद्भार्गवस्य निवेशनात् ॥
जिज्ञासमानस्तु तदा सन्दिदेश नृपात्मजः ।
पुरुषान्द्रौपदीहेतोर्जानीध्वं के त्विमे द्विजाः ॥
सायं च भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ ।
भैक्षं चरित्वा तु युधिष्ठिराय निवेदयाञ्चक्रुरदीनसत्वाः ॥
ततस्तु कुन्ती द्रुपदात्मजां तामुवाच काले वचनं वदान्या ।
भक्ताग्र्यमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम् ॥
ये चान्नमिच्छन्ति हि देहि तेभ्यः परिश्रिता ये परितो मनुष्याः ।
ततश्च शेषं प्रविभज्य शीघ्रमर्धं चतुर्धा मम चात्मनश्च ॥
अर्धं तु भीमाय च देहि भद्रे य एष सिंहर्षभतुल्यरूपः ।
श्यामो युवा संहननोपपन्न एषो हि वीरो बहुभुक् सदैव ॥
सा हृष्टरूपैव च राजपुत्री तस्या वचस्साध्वविशङ्कमाना ।
यथा तयोक्तं वचनं चकार ते चापि सर्वेऽभ्यवजह्रुरन्नम् ॥
कुशैस्तु भूमौ शयनं चकार माद्रीसुतस्सहदेवस्तरस्वी ।
अथात्मनीनान्यजिनानि सर्वे संस्तीर्य वीरास्सुषुपुर्धरण्याम् ॥
अगस्त्यकान्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम् ।
कुन्ती पुरस्तात्तु बभूव तेषां कृष्णा तिरश्चैव बभूव पत्नी ॥
अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानेव कृता कुशेषु ।
न तत्र तस्या मन आप दुःखं न चावमेने कुरुपुङ्गवांस्तान् ॥
ते तत्र शूराः कथयाम्बभूवुः कथा विचित्राः पृतनाधिकाराः ।
अस्त्राणि दिव्यानि रथांश्च नागान्तथा गदाश्चापि परश्वथांश्च ॥
तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम् ।
शुश्राव कृष्णां च तथाऽभिपन्नां ते चापि सर्वे ददृशुर्मनुष्याः ॥
धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ ।
सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम ॥
पाञ्चालराजस्तु विषण्णरूपस्तान्पाण्डवानप्रतिविन्दमानः ।
धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन हृता च कृष्णा ॥
कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करणेनोपपन्ना ।
कच्चित्पदं मूर्ध्नि न मे विषक्तं कच्चिच्च बाला पतिता न श्मशाने ॥
कच्चित्सुवर्णप्रतिमो मनुष्य उद्रिक्तवर्णोऽप्युत वेह कच्चित् ।
कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥
कच्चिच्छयिष्ये परमप्रतीतस्तां युज्य पार्थेन नरर्षभेण ।
वदस्व तत्त्वेन महानुभाव कोऽसौ विजेता दुहितुर्ममाद्य ॥
विचित्रवीर्यस्य तु कच्चिदद्य कुरुप्रवीरस्य चरन्ति पुत्राः ।
कच्चिच्च पार्थेन यवीयसाऽद्य धनुर्गृहीतं निहतं च लक्ष्यम् ॥ ॥