वैशम्पायनः-
गत्वा ततो भार्गवकर्मशालां पार्थौ पृथां प्रेक्ष्य महानुभावौ ।
तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ ॥
कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे ।
पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां कष्टं मया भाषितमित्युवाच ॥
साऽधर्मभीता विलज्जमानां तां याज्ञसेनीं परमप्रतीताम् ।
पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम् ॥
कुन्ती-
इयं तु कन्या द्रुपदस्य राज्ञस्तवानुजाभ्यां मयि सन्निसृष्टा ।
यथान्वितं पुत्र मयाऽपि चोक्तं समेत्य भुञ्जीध्वमिति प्रमादात् ॥
मया कथं नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि ।
पञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न भूतपूर्वः ॥
वैशम्पायनः-
ततो मुहूर्तं त्वनुचिन्त्य राजा युधिष्ठिरो भ्रातरमुत्तमौजाः ।
कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे ॥
युधिष्ठिरः-
त्वया जिता पाण्डव याज्ञसेनी त्वयैव तोषिष्यति राजपुत्री ।
प्रज्वाल्यतां हूयतां चैव वह्निर्गृहाण पाणिं विधिवत्त्वमस्याः ॥
अर्जुनः-
मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मो ह्ययमीप्सितोन्यैः ।
भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा ॥
अहं ततो नकुलोऽनन्तरं मे माद्रीसुतस्सहदेवो जघन्यः ।
वृकोदरोऽहं च यमौ च राजन्नियं च कन्या भवतश्च सर्वे ॥
एवं गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तद्विचिन्त्य ।
पाञ्चालराजस्य हि यत्प्रियं स्यात्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते ॥
वैशम्पायनः-
दृष्ट्वा ते तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् ।
सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥
तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् ।
सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥
काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम् ।
बभूवाधिकमन्याभ्यस्सर्वभूतमनोहरम् ॥
ते मन्यमानाः कौन्तेयास्सर्वभूतमनोहरम् ।
चकमुस्सत्त्वसम्पन्ना विधात्रा च प्रचोदिताः ॥
तेषामाकारतत्त्वज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः ॥
अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः ।
सर्वेषां द्रौपदी भार्या सामान्यं नो भविष्यति ॥
प्रत्यगृह्णंस्ततो वाणीं भ्रातुर्ज्येष्ठस्य पाण्डवाः
अन्योन्यं चानुपघ्नन्तो धर्मार्थं काममीप्सितम्
जनमेजयः-
सताऽपि शक्तेन च केशवेन सज्यं धनुस्तन्न कृतं किमर्थम् ।
विद्धं च लक्ष्यं न च कस्य हेतोराचक्ष्व तन्मे द्विपदां वरिष्ठ ॥
वैशम्पायनः-
शक्तेन कृष्णेन च कार्मुकं तन्नारोपितं ज्ञातुकामेन पार्थान् ।
परिश्रवादेव बभूव लोके जीवन्ति पार्था इति निश्चयोऽस्य ॥
अन्यानशक्तान्नृपतीन्समीक्ष्य स्वयंवरे कार्मुकेणोत्तमेन ।
धनञ्जयस्तु धनुरेकवीरस्सज्यं करोतीत्यभिवीक्ष्य कृष्णः ॥
इति स्वयं वासुदेवो विचिन्त्य पार्थान्विचिन्वन्विविधैरुपायैः ।
न तद्धनुस्सज्यमियेष कर्तुं कृष्णस्य वै प्राणसमो हि पार्थः ॥
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् ।
तमेवार्थं ध्यायमाना मनोभिरासाञ्चक्रुरथ तत्रामितौजसः ॥
वृष्णिप्रवीरः कुरुपुङ्गवांस्तानाशंसमानस्सहरौहिणेयः ।
जगाम तां भार्गवकर्मशालां यत्रासते ते पुरुषप्रवीराः ॥
तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णस्सहरौहिणेयः ।
अजातशत्रुं परिवार्य तांश्च उपोपविष्टाञ्ज्वलनप्रकाशान् ॥
तांश्चाऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतान्धर्मभृतां वरिष्ठान् ।
कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य तस्थौ ॥
तथैव तस्याप्यनु रौहिणेयस्ते चापि हृष्टाः कुरवोऽभ्यनन्दन ।
पितृष्वसुश्चैव यदुप्रवीरावगृह्णीतां भारतमुख्य पादौ ॥
अजातशत्रुस्तु कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं निवेद्य ।
कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदितास्स्म सर्वे ॥
तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन् ।
तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु ॥
दिष्ट्या तस्मात्पावकाच्चापि मुक्ता यूयं सर्वे पाण्डवाश्शत्रुसाहाः ।
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रस्सामात्यो वै न सकामोऽभविष्यत् ॥
भद्रं वोऽस्तु निहितं यद्गुहायां विवृद्धं वै ज्वलनमिवध्यमानम् ।
मा वो विदुः पार्थिवाः केचनेह यास्यावो वां शिबिरायैव तावत् ॥
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम् ।
तत्रैवासन्पाण्डवाश्चाजघन्या मात्रा सार्धं कृष्णया चापि वीराः ॥ ॥