वैशम्पायनः-
अजिनान्यवधुन्वन्तः करकांश्च द्विजर्षभाः ।
ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे रिपून् ॥
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव ।
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥
अहमेनानजिह्माग्रैश्शतशो विकिरञ्छरैः ।
वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ॥
इत्युक्त्वा धनुरादाय शुल्कावाप्तं महारथः ।
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥
ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तांश्च पार्थिवान् ।
आसेदतुरुभौ पार्थौ गजौ प्रतिगजानिव ॥
ऊचुश्च वाचं परुषास्ते राजानो युयुत्सवः ।
आहवेषु द्विजस्यापि वधो दृष्टो युयुत्सतः ॥
ततो वैकर्तनः कर्णो जगामार्जुनमोजसा ।
युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ।
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली ॥
दुर्योधनो धर्मराजं शकुनिं नकुलो ययौ ॥
दुश्शासनस्सहदेवं देवरूपप्रहारिणम् ।
अगच्छज्जयतां श्रेष्ठं भस्मच्छन्नमिवानलम् ।
न कश्चिदश्वं न गजं रथं वाप्यारुरोह वै ॥
पदातयस्सर्व एव प्रत्ययुध्यन्त ते परान् ।
तत्र कर्णोऽगमत्पार्थमर्जुनं गूढचारिणम् ॥
दुर्योधनादयस्सर्वे ब्राह्मणैस्सह सङ्गताः ।
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाऽऽहवे ॥
ततोऽर्जुनः प्रत्यविध्यत्तापयंस्तं त्रिभिश्शरैः ।
कर्णं वैकर्तनं श्रीमान्विकृष्य बलवद्धनुः ॥
बलेन सुव्यवच्छिन्नैरवार्यं तमवारयत् ॥
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् ।
विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ ।
अयुध्येतां सुसंक्रुद्धावन्योन्यं विजयैषिणौ ॥
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे ।
इति शूरार्थवचनैरभाषेतां परस्परम् ॥
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि ।
ज्ञात्वा वैकर्तनः कर्णस्संरब्धस्समयोधयत् ॥
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तथा ।
प्रतिहत्य ननादोच्चैस्सैन्यास्समभिपूजयन् ॥
कर्णः-
तुष्यामि ते विप्रमुख्य भुजवीयर्स्य संयुगे ।
अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम ।
अथ साक्षाद्धरिहयस्साक्षाद्वा विष्णुरच्युतः ॥
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः ।
विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ॥
न हि मामाहवे क्रुद्धमन्यस्साक्षाच्छचीपतेः ।
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥
अहं कर्णो द्विजश्रेष्ठ सर्वशस्त्रभृतां वरः ।
ब्राह्मे वाप्युत्तमास्त्रे च निष्ठितो गुरुशासनात् ॥
वैशम्पायनः-
त्वामासाद्य महाबाहो बलं मे प्रतिहन्यते ।
दग्धा जतुगृहे सर्वे पाण्डवास्सार्जुनास्तदा ।
इत्युवाचार्जुनमिदं प्रत्याहन्तुमशक्नुवन् ॥
तमेवंवादिनं पार्थः प्रत्यभाषत वीर्यवान् ॥
अर्जुनः-
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ।
नाहं विष्णुर्न शक्रोऽहं कश्चिदन्यो बलान्वितः ॥
ब्राह्मणोऽस्मि युधां श्रेष्ठस्सर्वशस्त्रभृतां वरः ।
ब्राह्मे चास्त्रे च वेदे च निष्ठितो गुरुशासनात् ॥
न त्वा संयोजये विप्रो न मे जीवन्विमोक्ष्यसे ।
निर्जितोऽस्मीति वा ब्रूहि ततो व्रज यथासुखम् ॥
वैशम्पायनः-
एवमुक्त्वाऽथ कर्णस्य धनुर्ज्यामथ सोऽच्छिनत् ।
ततः कर्णविनाशाय सन्दधे शरमर्जुनः ।
जितोऽस्मीत्यब्रवीत्कर्णस्सञ्जहार ततोऽर्जुनः ॥
युद्धायोत्पततौ तत्र राजन्शल्यवृकोदरौ ।
बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ॥
अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ ।
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ॥
मुहूर्तं तावथान्योन्यं बाहुभ्यामपकर्षताम् ॥
ततो भीमस्समुत्क्षिप्य बाहुभ्यां शल्यमाहवे ।
नावधीद्बलिनां श्रेष्ठो जहास ब्राह्मणस्तदा ।
ततो राजसमूहस्य सङ्क्रुद्दो वृक्षमारुजत् ॥
ततस्तु भीमं सञ्ज्ञाभिर्वारयामास धर्मराट् ।
आकारज्ञस्ततो भ्रातुः पाण्डवोऽपि न्यवर्तत ॥
धर्मराजश्च कौरव्य दुर्योधनममर्षणम् ।
सुमहच्चापमादाय द्रुपदस्य निवेशने ॥
धनुषी यमयोर्दत्वा योधयामास पाण्डवः ॥
ततस्तु पाण्डवश्रेष्ठो राजा तत्र महायशाः ।
ब्रह्मरूपप्रतिच्छन्नो राजानं समयोधयत् ॥
भीतो दुर्योधन इति वारयामास च त्रिभिः ।
जितमात्रे जिते त्वस्मिन्कः कामस्स्यान्महत्कृतम् ॥
भुजयोरन्तरेऽविध्यद्बाणेनानतपर्वणा ।
दुर्योधनममित्रघ्नं धर्मराजो युधिष्ठिरः ॥
ततो दुर्योधनः क्रुद्धो दण्डाहत इवोरगः ।
प्रत्यविध्यत राजानं यत्नं परममास्थितः ॥
छित्त्वा राजा धनुर्ज्यां तु धार्तराष्ट्रस्य संयुगे ।
नाराचेन सुतीक्ष्णेन कायावरणभेदिना ।
हृदि विव्याथ भूयोऽस्य बाह्वोरुरसि चार्पयत् ॥
अभ्यवर्षच्छरौघैस्तं स हित्वा प्राद्रवद्रणम् ।
दुश्शासनस्तु सङ्क्रुद्धस्सहदेवेन सङ्गतः ॥
युद्ध्वा च सुचिरं कालं धनुषा स महारथः ।
उत्सृज्य च धनुस्सङ्ख्ये बाहुभ्यामेव कौरव ॥
पाण्डवं त्वभिदुद्राव सोऽसिं जग्राह चर्म च ।
विकर्णचित्रसेनाभ्यां निगृहीतश्च कौरवः ॥
दुस्सहो नकुलाच्चापि व्यपकृष्टश्च कौरवः ।
निवर्तन्तां भवन्तो वै न नो विप्रेषु विग्रहः ॥
न च मे केवलं विप्रा न चैषां मानुषं बलम् ।
द्वौ यत्र ब्राह्मणौ क्रूरौ वाय्वग्निसदृशौ बले ॥
ये वा के वा नमस्तेभ्यो गच्छामस्स्वपुरं वयम् ।
एवं सम्भाष्य ते वीरा विनिवर्तन्त कौरवाः ॥
जहसुर्ब्राह्मणास्तत्र समेता राजमण्डले ।
ते प्रयातास्ततस्तत्र क्षत्रिया रणमूर्धनि ॥
ब्राह्मणाश्च जयं प्राप्य कन्यामादाय निर्ययुः ॥
तत्राश्चर्यं भीमसेनश्चकार भरतर्षभ ।
यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ॥
पतिते भीमसेनेन शल्ये कर्णे च निर्जिते ।
दुर्योधने चापगते तथा दुश्शासने रणात् ।
शङ्कितास्सर्वराजानः परिवव्रुर्द्विजोत्तमान् ॥
ऊचुश्च सहितास्तत्र साध्विह ब्राह्मणर्षभाः ।
विज्ञायन्तामिमे सम्यक्क्लिन्नवस्त्रास्तथैव च ॥
को हि राधासुतं कर्णं शक्तो वारयितुं रणे ।
तथैव मद्रराजानं शल्यं बलवतां वरम् ॥
बलदेवादृते वीरात्पाण्डवाच्च वृकोदरात् ।
क्रियतामपहारोऽस्माद्युद्धाद्ब्राह्मणसङ्कुलात् ॥
अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ॥
तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः ।
निवारयामास महीपतींस्तान्धर्मेण लब्धेत्यनुनीय सर्वान् ॥
एवं ते सन्निरुद्धास्तु युद्धाद्युद्धविशारदाः ।
यथावासं ययुस्सर्वे विस्मिता राजसत्तम ॥
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता ।
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥
ब्राह्मणैश्च प्रतिच्छन्नौ रौरवाजिनवासिभिः ।
कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ ॥
विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ ।
कृष्णयानुगतौ तत्र नृवीरौ हि विचेरतुः ।
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् ॥
अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ।
धार्तराष्ट्रैर्हता नूनं विज्ञाय कुरुपुङ्गवाः ॥
मायान्वितैर्वा रक्षोभिस्सुघोरैर्दृढवैरिभिः ।
विपरीतं मतं जातं व्यासस्यापि महात्मनः ॥
इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ॥
ततो भुक्तजनप्राये घनैस्सूर्य इवावृतः ।
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्घर्मपुरस्कृतः ॥ ॥